संस्कृत सूची|संस्कृत साहित्य|उपनिषद| वासुदेवोपनिषत् उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् वासुदेवोपनिषत् उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद वासुदेवोपनिषत् Translation - भाषांतर यत्सर्वहृदयागारं यत्र सर्वं प्रतिष्ठितम् ।वस्तुतो यन्निराधारं वासुदेवपदं भजे ॥ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदंमाहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्तेमयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्छअधीहि भगवन्नूर्ध्वपुण्ड्रविधिं द्रव्यमन्त्रस्थानादिसहितं मेब्रूहीति । तं होवाच भगवान्वासुदेवो वैकुण्ठस्थानादुत्पन्नंमम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनंममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनाद्गोपीचन्दन-माख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थान्तःस्थितंचक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति ।अथ गोपीचन्दनं नमस्कृत्वोद्धृत्य ।गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव ।चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ।इमं मे गङ्गे इति जलमादाय विष्णोर्नुकमिति मर्दयेत् ।अतो देवा अवन्तु न इत्येतन्मन्त्रैर्विष्णुगायत्र्या केशवादि-नामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो वाललाटहृदयकण्ठबाहूमूलेषु वैष्णवगायत्र्याकृष्णादिनामभिर्वा धारयेत् । इति त्रिवारमभिमन्त्र्यशङ्खचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्दपुण्डरीकाक्ष रक्ष मां शरणागतम् । इति ध्यात्वागृहस्थो ललाटादिद्वादशस्थलेष्वनामिकाङ्गुल्यावैष्णवगायत्र्या केशवादिनामभिर्वा धारयेत् ।ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठबाहूमूलेषुवैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् ।यतिस्तर्जन्या शिरोललाटहृदयेषु प्रणवेनैव धारयेत् ।ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयस्त्रीणि छन्दांसित्रयोऽग्नय इति ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रयआत्मानः पुण्ड्रात्रय ऊर्ध्वा अकार उकारो मकार एतेप्रणवमयोर्ध्वपुण्ड्रास्तदात्मा सदेतदोमिति । तानेकधासमभवत् । ऊर्ध्वमुन्नमयत इत्योङ्काराधिकारी ।तस्मादूर्ध्वपुण्ड्रं धारयेत् । परमहंसो ललाटेप्रणवेनैकमूर्ध्वपुण्ड्रं वा धारयेत् ।तत्त्वप्रदीपप्रकाशं स्वात्मानं पश्यन्योगीमत्सायुज्यमवाप्नोति । अथ वा न्यस्तहृदयपुण्ड्रमध्येवा हृदयकमलमध्ये वा ।तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा ।नीवारशूकवत्तन्वी परमात्मा व्यवस्थित इति ।अतः पुण्ड्रस्थं हृदयपुण्डरीकेषु तमभ्यसेत् ।क्रमादेवं स्वात्मानं भावयेन्मां परं हरिम् ।एकाग्रमनसा यो मां ध्यायते हरिमव्ययम् ।हृत्पङ्कजे च स्वात्मानं स मुक्तो नात्र संशयः ।मद्रूपमद्वयं ब्रह्म आदिमध्यान्तवर्जितम् ।स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ।एको विष्णुरनेकेएषु जङ्गमस्थावरेषु च ।अनुस्युतो वसत्यात्मा भूतेष्वहमवस्थितः ।तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा ।गन्धः पुष्पेषु भूतेषु तथात्मावस्थितो ह्यहम् ।ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृदये चिद्रविं हरिम् ।गोपीचन्दनमालिप्य तत्र ध्यात्वाप्नुयात्परम् ।ऊर्ध्वदण्डोर्ध्वरेताश्च ऊर्ध्वपुण्ड्रोर्ध्वयोगवान् ।ऊर्ध्वं पदमवाप्नोति यतिरूर्ध्वचतुष्कवान् ।इत्येतन्निश्चितं ज्ञानं मद्भक्त्या सिध्यति स्वयम् ।नित्यमेकाग्रभक्तिः स्याद्गोपीचन्दनधारणात् ।ब्राह्माणानां तु सर्वेषां वैदिकानामनुत्तमम् ।गोपीचन्दनवारिभ्यामूर्ध्वपुण्ड्रं विधीयते ।यो गोपीचन्दनाभावे तुलसीमूलमृत्तिकाम् ।मुमुक्षुर्धारयेन्नित्यमपरोक्षात्मसिद्धये ।अतिरात्राग्निहोत्रभस्मनाग्नेर्भसितमिदंविष्णुस्त्रीणिपदेति मन्त्रैर्वैष्णवगायत्र्या प्रणवेनोद्धूलनं कुर्यात् ।एवं विधिना गोपीचन्दनं च धारयेत् ।यस्त्वधीते वा स सर्वपातकेभ्यः पूतो भवति ।पापबुद्धिस्तस्य न जायते । स सर्वेषु तीर्थेषु स्नातो भवति ।स सर्वैर्यज्ञैर्याजितो भवति । स सर्वैर्देवैः पूज्यो भवति ।श्रीमन्नारायणे मय्यचञ्चला भक्तिश्च भवति ।स सम्यग्ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति ।न च पुनरावर्तते न च पुनरावर्तते इत्याह भगवान्वासुदेवः ।यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथोबलमिद्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्मनिराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकणं मेस्तुतदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ॐ शान्तिः शान्तिः शान्तिः ॥इति वासुदेवोपनिषत्समाप्ता ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP