संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
ब्राहृनन्दवल्ली

ब्राहृनन्दवल्ली

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom.


प्रथम अनुवाक
अतीतविद्याप्राप्त्युपसर्गप्रशमनार्था शान्तिः पठिता। इदानीं तु वक्ष्यमाणब्राहृविद्याप्राप्त्युपसर्गोपशमनार्था शान्तिः पठ¬ते -
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु। मा विद्विषावहै।
ॐ शान्तिः!शान्तिः!!शान्तिः!!!
सह नाववतु। नौ शिष्याचार्यौ सहैवावतु रक्षतु। सह नौ भुनक्तु भोजयतु। सह वीर्यं विद्यादिनिमित्तं सामथ्र्यं करवावहै निर्वर्तयावहै। तेजस्वि नावावयोस्तेजस्विनोरधीतं स्वधीतमस्तु। अर्थज्ञानयोग्यमस्त्वित्यर्थः। मा विद्विषावहै;विद्याग्रहणनिमित्तं शिष्यस्याचार्यस्य वा प्रमादकृतादन्यायाद्विद्वेषः प्राप्तस्तच्छमनाय इयमाशीर्मा विद्विषावहा इति। मैवेदरेतरं
विद्वेषमापद्यावहै।
शान्तिः शान्तिः शान्तिरिति त्रिर्वचनमुक्तार्थम्। वक्ष्यमाणविद्याविघ्नप्रशमनार्था चेयं शान्तिः। अविघ्नेनात्मविद्याप्राप्तिराशास्यते तन्मूलं हि परं श्रेय इति।
संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि। अनन्तरं चान्तःसोपाधिकात्मदर्शनमुक्तं व्याह्मतिद्वारेण स्वाराज्यफलम्। न चैतावताशेषतः संसारबीजस्योपमर्दनमस्तीत्यतोऽशेषोपद्रवबीजस्याज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते - ब्राहृविदाप्नोति परमित्यादि।
प्रयोजनं चास्या ब्राहृविद्याया अविद्यानिवृत्तिस्तत आत्यन्तिकः संसाराभावः। वक्ष्यति च - विद्वान्न बिभेति कुतश्चन (तै.उ.२।९।१)इति। संसारनिमित्ते च सत्यभयं प्रतिष्ठां च विन्दत इत्यनुपपन्नम्, कृताकृते पुण्यपापे न तपत इति च। अतोऽवगम्यतेऽस्माद्विज्ञानात्सर्वात्मब्राहृविषयादात्यन्तिकः संसाराभाव इति।
स्वयमेव च प्रयोजनमाह ब्राहृविदाप्नोति परमित्यादावेव सम्बन्धप्रयोजनज्ञापनार्थम्। निज्र्ञातयोर्हि सम्बन्धप्रयोजनयोर्विद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते। श्रवणादिपूर्वकं हि विद्याफलम् "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृ.उ.२।४।५)इत्यादिश्रुत्यन्तरेभ्यः।
ब्राहृविदाप्नोति परम्। तदेषाभ्युक्ता। सत्यं ज्ञानमनन्तं ब्राहृ। यो वेद निहितं गुहायां परमे व्योमन्।
सोऽश्नुते सर्वान् कामान् सह ब्राहृणा विपश्चितेति। तस्माद्वा एतस्मादात्मन आकाशः संभूतः। आकाशाद्वायुः। वायोरग्निः। अग्नेरापः। अद्भ्यः पृथिवी। पृथिव्या ओषधयः। ओषधीभ्योऽन्नम्। अन्नात्पुरुषः। स वा एष पुरुषोऽन्नरसमयः। तस्येदमेव शिरः। अयं दक्षिणः पक्षः। अयमुत्तर पक्षः। अयमात्मा। इदं पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥ २.१.१॥
ब्राहृविद् ब्राहृेति वक्ष्यमाणलक्षणं बृहत्तमत्वाद् ब्राहृ तद्वेत्ति विजानातीति ब्राहृविदाप्नोति परं निरतिशयं तदेव ब्राहृ परम्। न ह्रन्यस्य विज्ञानादन्यस्य प्राप्तिः। स्पष्टं च श्रुत्यन्तरं ब्राहृप्राप्तिमेव ब्राहृविदो दर्शयति "स यो ह वै तत्परमं ब्राहृ वेद ब्राहृैव भवति" (मु.उ.३.२.९)इत्यादि।
ननु सर्वगतं सर्वस्यात्मभूतं ब्राहृ वक्ष्यति। अतो नाप्यम्। प्राप्तिश्चान्यस्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा। अपरिच्छिन्नं सर्वात्मकं च ब्राहृेत्यतः परिच्छिन्नवदनात्मवच्च तस्याप्तिरनुपन्ना।
नायं दोषः;कथम्?दर्शनादर्शनापेक्षत्वाद्ब्राहृण आप्त्यनाप्त्योः परमार्थतो ब्राहृरूपस्यापि सतोऽस्य जीवस्य भूतमात्राकृतबाह्रपरिच्छिन्नान्नमयाद्यात्मदर्शिनस्तदासक्तचेतसः प्रकृतसंख्यापूरणस्यात्मनोऽव्यवहितस्यापि बाह्रसंख्येयविषयासक्तवित्ततया स्वरूपाभावदर्शनवत्परमार्थब्राहृस्वरूपाभावदर्शनलक्षणयाविद्ययान्नमयादीन्बाह्राननात्मन आत्मत्वेन प्रतिपन्नत्वादन्नमयाद्यनात्मभ्यो नान्योऽहमस्मीत्यभिमन्यते। एवमविद्ययात्मभूतमपि ब्राहृानाप्तं स्यात्।
तस्यैवमविद्ययानाप्तब्राहृस्वरूपस्य प्रकृतसंख्यापूरणस्यात्मनोऽविद्ययानाप्तस्य सतः केनचित्स्मारितस्य पुनस्तस्यैव विद्ययाप्तिर्यथा तथा श्रुत्युपदिष्टस्य सर्वात्मब्राहृण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव।
ब्राहृविदाप्नोति परमिति वाक्यं सूत्रभूतम्। सर्वस्य वल्ल्यर्थस्य ब्राहृविदाप्नोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्राहृणोऽनिर्धारितस्वरूपविशेषस्य सर्वतो
व्यावृत्तस्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याविशेषेण चोक्तवेदनस्य ब्राहृणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगात्मतयाऽनन्यरूपेण विज्ञेयत्वाय, ब्राहृविद्याफलं च ब्राहृविदो यत्परब्राहृप्राप्तिलक्षणमुक्तं स सर्वात्मभावः सर्वसंसारधर्मातीतब्राहृस्वरूपत्वमेव नान्यदित्येतत्प्रदर्शनायैषर्गुदाह्यियते - - तदेषाभ्युक्तेति।
तत्तस्मिन्नेव ब्रााहृणवाक्योक्तेऽर्थं एषर्गभ्युक्ताम्नाता। सत्यं ज्ञानमनन्तं ब्राहृेति ब्राहृणो लक्षणार्थं वाक्यम्। सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्राहृणः। विशेष्यं ब्राहृ विवक्षितत्वाद्वेद्यतया। वैद्यत्वेन यतो ब्राहृप्राधान्येन विवक्षितं तस्माद्विशेष्यं विज्ञेयम् अतः अस्माद् विशेषणविशेष्यत्वादेव सत्यादीनि एकविभक्त्यन्तानि पदानि समानाधिकरणानि। सत्यादिभिस्त्रिभिर्विशेष्यमाणं ब्राहृ विशेष्यान्तरेभ्यो निर्धार्यते। एवं हि तज्ज्ञानं भवति यदन्येभ्यो निर्धारितम्। यथा लोके नीलं महत्सुगन्ध्युत्पलमिति।
ननु विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते। यथा नीलं रक्तं चोत्पलमिति। यदा ह्रनेकानि द्रव्याण्येकजातीयान्यनेकविशेषणयोगीनि च तदा विशेषणस्यार्थवत्त्वम्। न ह्रेकस्मिन्नेव वस्तुनि विशेषणान्तरायोगात्। यथासावेक आदित्य इति, तथैकमेव च ब्राहृ न ब्राहृान्तराणि येभ्यो विशेष्येत नीलोत्पलवत्।
न;लक्षणार्थत्वाद्विशेषणानाम्। नायं दोषः कस्मात्?यस्माल्लक्षणार्थप्रधानानि विशेषणानि न विशेषणप्रधानान्येव। कः पुनर्लक्षणलक्ष्ययोर्विशेषणविशेष्ययोर्वा विशेष इति?उच्यते;समानजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य। लक्षणं तु सर्वत एव यथावकाप्रदात्राकाशमिति। लक्षणार्थं च वाक्यमित्यवोचाम।
सत्यादिशब्दा न परस्परं संबध्यन्ते परार्थत्वात्। विशेष्यार्था हि ते। अत एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्राहृशब्देन संबध्यते। सत्यं ब्राहृ ज्ञानं ब्राहृानन्तं ब्राहृेति।
सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति तत्सत्यम्। यद्रूपेण निश्चितं यत्तद्रूपं व्यभिचरदनृतमित्युच्यते। अतो विकारोऽनृतम्। "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" (छा.उ.६।१।४) एवं सदेव सत्यमित्यवधारणात्। अतः सत्यं ब्राहृेति ब्राहृ विकारान्निवर्तयति।
अतः कारणत्वं प्राप्तं ब्राहृणः। कारणस्य च कारकत्वं वस्तुत्वान्मृद्वदचिद्रूपता च प्राप्तात इदमुच्यते ज्ञानं
ब्राहृेति ज्ञानं ज्ञाप्तिरवबोधः, भावसाधनो ज्ञानशब्दो न तु ज्ञानकर्तृ ब्राहृविशेषणत्वात्सत्यानन्ताभ्यां सह। न हि सत्यताऽनन्तता च ज्ञानकर्तृत्वे सत्युपपद्यते. ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेदनन्तं च। यद्धि न कुतश्चित्प्रविभज्यते तदनन्तम्। ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात्। "यत्र नान्यद्विजानाति स भूमा अथ यत्रान्यद्विजानाति तदल्पम्" (छा.उ.७।२४।१) इति श्रुत्यन्तरात्।
नान्यद्विजानातीति विशेषप्रतिषेधादात्मानं विजानातीतिचेन्न;भूमलक्षणविधिपरत्वाद्वाक्यस्य। यत्र नान्यत्पश्यतीत्यादि भूम्नो लक्षणविधिपरं वाक्यम्। यथा प्रसिद्धमेवान्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति स भूमेति भूमस्वरूपं तत्र ज्ञाप्यते। अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वान्न स्वात्मनि क्रियास्तित्वपरं वाक्यम्। स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः। आत्मनश्च विज्ञेयत्वे ज्ञात्राभावप्रसङ्गः;ज्ञेयत्वेनैव विनियुक्तत्वात्।
एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन चोभयथा भवतीति चेत्?
न;युगपदनंशत्वात्। न हि निरवयवस्य युगपज्ज्ञेयज्ञातत्वोपपत्तिः। आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम्। न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशोऽर्थत्वान्। तस्माज्ज्ञातृत्त्वे सति आनन्त्यानुपपत्तिः। सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति। सन्मात्रत्वं सत्यत्वम्। "तत्सत्यम्" (छा.उ. ६।८।१६) इति श्रुत्यन्तरात्। तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः। ज्ञानं ब्राहृेति कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते।
ज्ञानं ब्राहृेतिवचनात्प्राप्तमन्तवत्त्वम्। लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात्। अतस्तन्निवृत्त्यर्थमाह अनन्तमिति।
सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य ब्राहृण उत्पलादिवदप्रसिद्धत्वात्। "मृगतृष्णाम्भसि स्नातः स्वपुष्पकृतशेखरः। एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः"इतिवच्छून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत्?
न;लक्षणार्थत्वात्। विशेषणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम। शून्ये हि लक्ष्येऽनर्थकं लक्षणवचनं लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति। विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव। शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः। सत्याद्यर्थैरर्थवतत्त्वे तु तद्विपरीतधर्मवद्भ्यो विशेषेभ्यो ब्राहृणो विशेष्यस्य नियन्तृत्वमुपपद्यते। ब्राहृशब्दोऽपि स्वार्थेनार्थवानेव। तत्रानन्तशब्दोऽन्तवत्त्वप्रतिषेधद्वारेण विशेषणम्। सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः।
"तस्माद्वा एतस्मादात्मन"इति ब्राहृण्येवात्मशब्दप्रयोगाद्वेदितुरात्मै ब्राहृ। "एतमानन्दमयमात्मानमुपसंक्रामतीति" (तै.उ.२।८।५) इति चात्मतां दर्शयति। तत्प्रवेशाच्च;"तत्सृष्ट्वा तदेवानुप्राविशत्: (तै.उ.२।६।१) इति च तस्यैव शरीरप्रवेशं दर्शयति। अतो वेदितुः स्वरूपं ब्राहृ।
एवं तह्र्रात्मत्वाज्ज्ञानकर्तृत्वम्। आत्मा ज्ञातेति हि प्रसिद्धम्। "सोऽकामयत" (तै.उ.२।६।१)
इति च कामिनो ज्ञानकर्तृत्वाज्ज्ञाप्तिब्र्राहृेत्युक्तम्
अनित्यत्वप्रसङ्गाच्च। यदि नाम ज्ञप्तिज्र्ञानमिति भावरूपता ब्राहृणस्तथाऽप्यनित्यत्वं प्रसज्येत पारतन्त्र्यं च। धात्वर्थानां कारकापेक्षत्वात्। ज्ञानं च धात्वर्थोऽतोऽस्यानित्यत्वं परतन्त्रता च।
न;स्वरूपाव्यतिरेकेण कार्यत्वोपचारात्। आत्मनः स्वरूपं ज्ञप्तिर्न ततो व्यतिरिच्यतेऽतो नित्यैव।तथापि बुद्धेरुपाधिलक्षणायाश्चक्षुरादिद्वारैर्विषयाकारेण परिणामिन्या ये शब्दाद्याकारावभासाः त आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एवात्मविज्ञानेन व्याप्ता उत्पद्यन्ते। तस्मादात्मविज्ञानावभासाश्च ते विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते।
यत्तु यद् ब्राहृणो विज्ञानं तत् सवितृप्रकाशवदग्न्युष्णवच्च ब्राहृस्वरूपाव्यतिरिक्तं स्वरूपमेव तत्;न तत्कारणान्तरसव्यपेक्षम्। नित्यस्वरूपत्वात्। सर्वभावानां च तेनाविभक्तदेशकालत्वात् कालाकाशादिकारणत्वाच्च निरतिशयसूक्ष्मत्वाच्च। न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं
भवद्भविष्यद्वास्ति। तस्मात्सर्वज्ञं तद्ब्राहृ।
मन्त्रवर्णाच्च - "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्" (श्वे.उ.३।१९) इति। न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु
तद्द्वितीयमस्ति (बृ.उ.४।३।३०) इत्यादि श्रुतेश्च। विज्ञातृस्वरूपाख्यव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्राहृणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिरतो नैव धात्वर्थस्तदक्रियारूपत्वात्।
अत एव च न ज्ञानकर्तृ, तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्राहृ। तथाऽपि तदाभासवाचकेन बुद्धिधर्मविषयेण ज्ञानशब्देन तल्लक्ष्यते न तूच्यते। शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात्। तथा सत्यशब्देनापि सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद् ब्राहृणो बाह्रसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते सत्यं ब्राहृेति न तु सत्यशब्दवाच्यमेव ब्राहृ।
एवं सत्यादिशब्दा इतरेतरसंनिधावन्योन्यनियम्यनियामकाः सन्तः सत्यादिशब्दावाच्यात्तन्निवर्तका ब्राहृणो लक्षणार्थाश्च भवन्तीत्यतः सिद्धं "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" (तै.उ.२।४।१) "अनिरुक्तेऽनिलयने" (तै.उ.२।७।१) इति चावाच्यत्वं नीलोत्पलवदवाक्यार्थत्वं च ब्राहृणः।
तद्यथाव्याख्यातं ब्राहृ यो वेद विजानाति निहितं स्थितं गुहायाम्। गूहतेः संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः। गूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा तस्यां परमे प्रकृष्टे व्येमन्व्योम्न्याकाशेऽव्याकृताख्ये। तद्धि परमं व्योम "एतस्मिन्खल्वक्षरे गाग्र्याकाशः" (बृ.उ.३।८।११) इत्यक्षरसंनिकर्षात्। गुहायां व्योम्नीति वा सामानाधिकरण्यादव्याकृताकाशमेव गुहा। तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु कारणत्वात्सूक्ष्मतरत्वाच्च। तस्मिन्नन्तर्निहितं ब्राहृ।
हार्दमेव तु परमं व्योमेति न्याय्यं विज्ञानाङ्गत्वेनोपासनाङ्गत्वेन व्योम्नो विवक्षितत्वात्। "यो वै स बहिर्धा पुरुषादाकाशः (छा.उ.३।१२।७) "यो वै सोऽन्तः पुरुष आकाश" (छा.उ.३।१२।८) "योऽयमन्तह्र्मदय आकाशः" (छा.उ.३।१२।९) इति श्रुत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वम्।
तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा तस्यां निहितं ब्राहृ तद्वृत्त्या विविक्ततयोपलभ्यत इति। न ह्रन्यथा विशिष्टदेशकालसंबन्धोऽस्ति ब्राहृणः सर्वगतत्वान्निर्विशेषत्वाच्च।
स एवं ब्राहृ विजानन्किमित्याह - अश्नुते भुङ्क्ते सर्वान्निरवशिष्टान्कामान्भोगानित्यर्थः। किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण नेत्याह। सह युगपदेकक्षणोपारूढानेव एकयोपलब्ध्या सवितृप्रकाशवत् नित्यया ब्राहृस्वरूपाव्यतिरिक्तया यामवोचाम सत्यं ज्ञानमनन्तमिति। एतदुच्यते - ब्राहृणा सहेति।
ब्राहृभूतो विद्वान्ब्राहृरूपेणैव सर्वान्कामान्सहाश्नुते, न यथोपाधिकृतेन स्वरूपेणात्मना जलसूर्यकादिवत्प्रतिबिम्बभूतेन संसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकरणापेक्षांश्च कामान् पर्यायेणाश्नुते लोकः;कथं तर्हि?यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्राहृात्मस्वरूपेण धर्मादिनिमित्तानपेक्षांश्चक्षुरादिकरणनिरपेक्षांश्च सर्वान्कामान्सहैवाश्नुत इत्यर्थः। विपश्चिता मेधाविना सर्वज्ञेन। तद्धि वैपश्चित्यं यत्सर्वज्ञत्वं तेन सर्वज्ञस्वरूपेण ब्राहृणाश्नुत इति। इति शब्दो मन्त्रपरिसमाप्त्यर्थः।
सर्व एव वल्ल्यर्थो ब्राहृविदाप्नोति परमिति ब्रााहृणवाक्येन सूत्रितः। स च सूत्रितोऽर्थः संक्षेपतो मन्त्रेण व्याख्यातः। पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्तद्वृत्तिस्थानीया ग्रन्थ आरभ्यते तस्माद्वा एतस्मादित्यादिः।
तत्र च सत्यं ज्ञानमनन्तं ब्राहृेत्युक्तं मन्त्रादौ तत्कथं सत्यं ज्ञानमनन्तं चेत्यत आह। तत्र त्रिविधं ह्रानन्त्यं देशतः कालतो वस्तुतश्चेति। तद्यथा देशतोऽनन्त आकाशः। न हि देशतस्तस्य परिच्छेदोऽस्ति। न तु कालतश्चानन्त्यं वस्तुतश्चाकाशस्य। कस्मात्कार्यत्वात्। नैवं ब्राहृण आकाशवत्कालतोऽप्यन्तवत्त्वमकार्यात्वात्। कार्यं हि वस्तु कालेन परिच्छिद्यते। अकार्यं च ब्राहृ। तस्मात्कालतोऽप्यनन्तम्।
तथा वस्तुतः। कथं पुनर्वस्तुत आनन्त्यं सर्वानन्यत्वात्। भिन्नं हि वस्तु वस्त्वन्तरस्यान्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते यतो यस्य बुद्धेर्विनिवृत्तिः स तस्यान्तः। तद्यथा गोत्वबुद्धिरश्वत्वाद्विनिवर्तत इति अश्वत्वान्तं न गोत्वमित्यन्तवदेव भवति। स चान्तो भिन्नेषु वस्तुषु दृष्टः। नैवं ब्राहृणो भेदः। अतो वस्तुतोऽप्यानन्त्यम्।
कथं पुनः सर्वानन्यत्वं ब्राहृण इत्युच्यते - सर्ववस्तुकारणत्वात्। सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्राहृ। कार्यापेक्षया वस्तुतोऽन्तवत्त्वमिति चेन्न अनृतत्वात्कार्यवस्तुतः। न हि कारणव्यतिरेकेण कार्यं नाम
वस्तुतोऽस्ति यतः कारणबुद्धिर्विनिवर्तेत। "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" (छा.उ.६।१।४) एवं सदेव सत्यमिति श्रुत्यन्तरात्।
तस्मादाकाशादिकारणत्वाद् देशतस्तावदनन्तं ब्राहृ। आकाशो ह्रनन्त इति प्रसिद्धम् देशतः;तस्येदं कारणं तस्मात्सिद्धं देशत आत्मन आनन्त्यम्। न ह्रसर्वगतात्सर्वगतमुत्पद्यमानं लोके किंचिद् दृश्यते। अतो निरतिशयमात्मन आनन्त्यं देशतस्तथा कार्यत्वात्कालत तद्भिन्नवस्त्वन्तराभावाच्च वस्तुतः। अत एव निरतिशयसत्यत्वम्।
तस्मादिति मूलवाक्यसूत्रितं ब्राहृ परामृश्यते। एतस्मादिति मन्त्रवाक्येणानन्तरं यथालक्षितम्। यद्ब्राहृादौ ब्रााहृणवाक्येन सूत्रितं यच्च सत्यं ज्ञानमनन्तं ब्राहृेत्यनन्तरमेव लक्षितं
तस्मादेतस्माद्ब्राहृण आत्मन आत्मशब्दवाच्यात्। आत्मा हि तत्सर्वस्य "तत्सत्यं स आत्मा" (छा.उ.६।८-१६) इति श्रुत्यन्तरादतो ब्राहृात्मा। तस्मादेतस्माद्ब्राहृण आत्मस्वरूपादाकाशः संभूतः समुत्पन्नः।
आकाशो नाम शब्दगुणोऽवकाशकरो मूर्तद्रव्याणाम् तस्मादे आकाशात्स्वेन स्पर्शगुणेन पूर्वेण च कारणगुणेन शब्देन द्विगुणो वायुः संभूत इत्यनुवर्तते। वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणोऽग्निः संभूतः। अग्नेः स्वेन रसगुणेन पूर्वैश्च त्रिभिश्चतुर्गुणा आपः संभूताः। अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्चतुर्भिः पञ्चगुणा पृथिवी संभूताः। पृथिव्या ओषधयः। ओषधीभ्योऽन्नम्। अन्नाद्रेतोरूपेण परिणतात् पुरुषः शिरःपाण्याद्याकृतिमान्।
स वा एष पुरुषोऽन्नरसमयोऽन्नरसविकारः। पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतं रेतो बीजम्, तस्माद्यो जायते सोऽपि तथा पुरुषाकृतिरेव स्यात्। सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात्।
सर्वेषामप्यन्नरसविकारत्वे ब्राहृवंश्यत्वे चाविशिष्टे कस्मात्पुरुष एव गृह्रते?
प्रधान्यात्।
किं पुनः प्रधान्याम्?
कर्मज्ञानाधिकारः। पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते - "पुरुषे त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मत्र्येनामृतमीक्षतीत्येवं संपन्नः। अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम्"इत्यादिश्रुत्यन्तरदर्शनात्।
स हि पुरुष इह विद्ययान्तरतमं ब्राहृ संक्रामयितुमिष्टः। तस्य च बाह्राकारविशेषेष्वनात्मस्वात्मभाविता बुद्धिरनालम्ब्य विशेषं कंचित्सहसान्तरतमप्रत्यगात्मविषय निरालम्बना च कर्तुमशक्येति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह
तस्येदमेव शिरः। तस्यास्य पुरुषस्यान्नरसमयस्येदमेव शिरः प्रसिद्धम्। प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहापि तत्प्रसङ्गो मा भूदितीदमेव शिर इत्युच्यते। एवं पक्षादिषु योजना। अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः। अयं सव्यो बाहुरुत्तरः पक्षः। अयं मध्यमो देहभाग आत्माङ्गानाम्। "मध्यं ह्रेषामङ्गानामात्मा"इति श्रुतेः। इदमिति नाभेरधस्ताद्यदङ्गं तत्पुच्छं प्रतिष्ठा। प्रतितिष्ठत्यनयेति प्रतिष्ठा पुच्छमिव पुच्छम् अधोलम्बनसामान्याद्यथा गोः पुच्छम्।
एतत्प्रकृत्योत्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः। मूषानिषिक्तदुतताम्रप्रतिमावत्। तदप्येषश्लोको भवति। तत्तस्मिन्नवार्थे ब्रााहृणोक्तेऽन्नमयात्मप्रकाशक एष श्लोको मन्त्रो भवति ॥२.१.१॥
इति ब्राहृानन्दवल्ल्यां प्रथमोऽनुवाकः ॥१॥

=====================
द्वितीय अनुवाक
अन्नाद्वै प्रजाः प्रजायन्ते। याः काश्चपृथिवींश्रिताः। अथो अन्नेनैव जीवन्ति। अथैनदपि यन्त्यन्ततः। अन्नँ#्हि भूतानां ज्येष्ठम्। तस्मात्सर्वौषधमुच्यते। सर्वं वै तेऽन्नमाप्नुवन्ति येऽन्नं
ब्राहृोपासते। अन्न हि भूतानां ज्येष्ठम्। तस्मात्सर्वौषधमुच्यते। अन्नाद्भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते। अद्यतेऽत्ति च भूतानि। तस्मादन्नं तदुच्यत इति। तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः। तेनैष पूर्णः।
स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य प्राण एव शिरः। व्यानो दक्षिणः पक्षः। अपान उत्तर पक्षः। आकाश आत्मा। पृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥२.१॥
अन्नाद्रसादिभावपरिणतात्, वा इति स्मरणार्थः, प्रजाः स्थावरजङ्गमाः प्रजायन्ते। याः काशचाविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रितास्ताः सर्वा अन्नादेव प्रजायन्ते। अथो अपि जाता अन्नेनैव जीवन्ति प्राणान्धारयन्ति वर्धन्त इत्यर्थः। अथाप्येनदन्नमपियन्त्यपिगच्छन्ति। अपि शब्दः प्रतिशब्दार्थे। अन्नं प्रति प्रलीयन्त इत्यर्थः। अन्ततोऽन्ते जीवनलक्षणाया वृत्तेः परिसमाप्तौ।
कस्मात् ? अन्नं हि यस्माद् भूतानां प्राणिनां ज्येष्ठं प्रथमजम्। अन्नमयादीनां हीतरेषां भूतानां कारणमन्नमतोऽन्नप्रभवा अन्नजीवना अन्नप्रलयाश्च सर्वाः प्रजाः यस्माच्चैवं तस्मात्सर्वौषधं सर्वप्राणिनां
देहदाहप्रशमनमन्नमुच्यते।
अन्नब्राहृविदः फलमुच्यते - सर्वं वै ते समस्तमन्नजातमाप्नुवन्ति। के? येऽन्नं ब्राहृा यथोक्तमुपासते। कथम्?अन्नजोऽन्नात्मान्नप्रलयोऽहं तस्मादन्नं ब्राहृति।
कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमित्युच्यते। अन्नं हि भूतानां ज्येष्ठम्। भूतेभ्यः पूर्वं निष्पन्नत्वाज्ज्येष्ठं हि यस्मात्तस्मात्सर्वौषधमुच्यते। तस्मादुपपन्ना सर्वान्नात्मोपासकस्य सर्वान्नप्राप्तिः। अन्नाद्भूतानिजायन्ते। जातान्यन्नेन वर्धन्त इत्युपसंहारार्थं पुनर्वचनम्।
इदानीमन्ननिर्वचनमुच्यते-अद्यते भूज्यते चैव यद्भूतैरन्नमत्ति च भूतानि स्वयं तस्माद्भूतैर्भुज्यमानत्वाद्भूतभोक्तृत्वाच्चान्नं तदुच्यते। इति शब्दः प्रथमकोशपरिसमाप्त्यर्थः।
अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्योऽभ्यन्तरतमं ब्राहृ विद्यया प्रत्यगात्मत्वेन दिदर्शयिषुःशास्त्रमविद्याकृतपञ्चकोशापनयनेनानेकतुषकोद्रवविषीकरणेनेव तदन्तर्गततण्डुलान् प्रस्तौति तस्माद्वा एतस्मादन्नरसमयादित्यादि।
तस्मादेतस्माद्यथोक्तादन्नरसमयात्पिण्डादन्यो व्यतिरिक्तोऽन्तरोऽभ्यन्तरो आत्मा पिण्डवदेव मिथ्या परिकल्पित आत्मत्वेन प्राणमयः प्राणो वायुस्तन्मयस्तत्प्रायः। तेन प्राणमयेनान्नरसमय आत्मैष पूणौ वायुनेव दृतिः। स वा एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव, शिरः पक्षादिभिः।
किं स्वत एव नेत्याह। प्रसिद्धं तावदन्नरसमयस्यात्मनः पुरुषविधत्वम्। तस्यान्नरसमयस्य पुरुषविधतां पुरुषाकारतामनु अयं प्राणमयः पुरुषविधो भूषानिषिक्तप्रतिभावन्न स्वत एव। एवं पूर्वस्य पूर्वस्य पुरुषविधतामनूत्तरोत्तरः पुरुषविधो भवति पूर्वः पूर्वश्चोत्तरोत्तरेण पूर्णः।
कथं पुनः पुरुषविधतास्य इत्युच्यते। तस्य प्राणमयस्य प्राण एव शिरः। प्राणमयस्य
वायुविकारस्य प्राणो मूखनासिकानिःसरणो वृत्तिविशेषः शिर एव परिकल्प्यते वचनात्। सर्वत्र वचनादेव पक्षादिकल्पना। व्यानो व्यानवृत्तिर्दक्षिणः पक्षः। अपान उत्तरः पक्षः। आकाश आत्मा। य आकाशस्थो वृत्तिविशेषः समानाख्यः स आत्मेवात्मा, प्राणवृत्त्यधिकारात्। मध्यस्थत्वादितराः पर्यन्ता वृत्तीरपेक्ष्यात्मा। "मध्यं ह्रेषामङ्गानामात्मा"इति श्रुतिप्रसिद्धं मध्यमस्थस्यात्मत्वम्।
पृथिवी पुच्छं प्रतिष्ठा। पृथिवीति पृथिवीदेवताध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात्। "सैषा पुरुषस्यापानमवष्टभ्य"(प्र.उ.३/८) इति हि श्रुत्यन्तरम्। अन्यथोदानवृत्त्योध्र्वगमनं गुरुत्वाच्च पतनं वा स्याच्छरीरस्य। तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्यात्मनः। तत्तस्मिन्नेवार्थे प्राणमयात्मविषय एष श्लोको भवति ॥२।२।१॥
इति ब्राहृानन्दवल्ल्यां द्वितीयोऽनुवाकः ॥२॥

==============
तृतीय अनुवाक
प्राणं देवा अनु प्राणन्ति। मनुष्याः पशवश्च ये। प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यते। सर्वमेव त आयुर्यन्ति ये प्राणे ब्राह्मोपासते। प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यत इति। तस्यैष एव
शारीर आत्मा यः पूर्वस्य। तस्माद्वा एतस्मात्प्राणमयादन्योऽन्तर आत्मा मनोमयः। तेनैष पूर्णः। स
वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य यजुरेव शिरः। ऋग्दक्षिणः पक्षः। सामोत्तरः पक्षः। आदेश आत्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥२।३।१॥
प्राणं देवा अनु प्राणन्ति। देवा अग्न्यादयः प्राणं वाय्वात्मानं प्राणनशक्तिमन्तमनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति प्राणनक्रियया क्रियावन्तो भवन्ति। अध्यात्माधिकारात् देवा इन्द्रियाणि प्राणमनु प्राणन्ति मुख्यप्राणमनुचेष्टन्त इति वा। तथा मनुष्याः पशवश्च ये ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति।
अतश्च नान्नमयेनैव परिच्छिन्नेनात्मनात्मवन्तः प्राणिनः। किं तर्हि? तदन्तर्गतेन प्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिनात्मवन्तो मनुष्यादयः। एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिरुत्तरोत्तरैः सूक्ष्मैरानन्दमयान्तैराकाशादिभूतारब्धैरविद्याकृतैरात्मवन्तः सर्वे प्राणिनः। तथा स्वाभाविकेनाप्याकाशादि कारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तलक्षणेन पञ्चकोशातिगेन सर्वात्मनात्मवन्तः। स हि परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति।
प्राणं देवा अनु प्राणन्तीत्युक्तं तत्कस्मादित्याह। प्राणो हि यस्माद् भूतानां प्राणिनामायुर्जीवनम्। यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः (कौ.उ.३।२) इति श्रुत्यन्तरात्। तस्मात्सर्वायुषम्। सर्वेषामायुः सर्वायुः सर्वायुरेव सर्वायुषमित्युच्यते। प्राणापगमे मरणप्रसिद्धेः। प्रसिद्धं हि लोके सर्वायुष्ट्वं प्राणस्य।
अतोऽस्माद्बाह्रादसाधारणादन्नमयादात्मनोऽपक्रम्यान्तः साधारणं प्राणमयमात्मानं ब्राहृोपासते येऽहमस्मि प्राणः सर्वभूतानामात्मायुर्जीवनहेतुत्वादिति ते सर्वमेवायुरस्मि #ँल्लोके यन्ति, नापमृत्युना म्रियन्ते प्राक्प्राप्तादायुष इत्यर्थः। शतं वर्षाणीति तु युक्तं सर्वमायुरेति (छा.उ.२।११-२०, ४।११-१३) इति श्रुतिप्रसिद्धेः।
किं कारणं प्राणो हि भूतानामायुस्तस्मात्सर्वायुषमुच्यत इति। यो यद्गुणकं ब्राहृोपास्ते स तद्गुणभाग्भवतीति विद्याफलप्राप्तेर्हेत्वर्थ पुनर्वचनं प्राणो हीत्यादि तस्य पूर्वस्यान्नमयस्यैष एव शरीरेऽन्नमये भवः शारीर आत्मा। कः? य एष प्राणमयः।
तस्माद्वा एतस्मादित्युक्तार्थमन्यत्। अन्योऽन्तर आत्मा मनोमयः। मन इति संकल्पाद्यात्मकमन्तःकरणं तन्मयो मनोमयो यथान्नमयः। सोऽयं प्राणमयस्याभ्यन्तर आत्मा। तस्य यजुरेव शिरः। यजुरित्यनित्यताक्षरपादावसानो मन्त्रविशेषस्तज्जातीयवचनो यजुःशब्दस्तस्य शिरस्त्वं प्राधान्यात्। प्राधान्यं च यागादौ संनिपत्योपकारकत्वात्। यजुषा हि हविर्दीयते स्वाहाकारादिना।
वाचनिकी वा शिर आदिकल्पना सर्वत्र। मनसो हि स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया
तत्संकल्पात्मिका तद्भाविता वृत्तिः श्रोत्रादिकरणद्वारा यजुःसंकेतविशिष्टा यजुः इत्युच्यते। एवमृगेवं साम च।
एवं च मनोवृत्तित्वे मन्त्राणां वृत्तिरेवावत्र्यत इति मानसो जप उपपद्यते। अन्यथाविषयत्वान्मन्त्रो नावर्तयितुं शक्यो घटादिवदिति मानसो जपो नोपपद्यते मन्त्रावृत्तिश्च चोद्यते बहुशः कर्मसु।
अक्षरविषयस्मृत्यावृत्त्या मन्त्रावृत्तिः स्यादिति चेत्?
न;मुख्यार्थासंभवात् "त्रिः प्रथमामन्वाह त्रिरुत्तमाम्"इति ऋगावृत्तिः श्रूयते। तत्रर्चोऽविषयत्वे तद्विषयस्मृत्यावृत्त्या मन्त्रावृत्तौ च क्रियमाणायाम् त्रिः प्रथमामन्वाह इति ऋगावृत्तिर्मुख्योऽर्थश्चोदितः परित्यक्तः स्यात्। तस्मान्मनोवृत्त्युपाधिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्मचैतन्यमनादिनिधनं यजुःशब्दवाच्यमात्मविज्ञानं मन्त्रा इति। एवं च नित्यत्वोपपत्तिर्वेदानाम्। अन्यथा विषयत्वे रूपादिवदनित्यत्वं च स्यान्नैतद्युक्तम्। "सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा"इति च श्रुतिर्नित्यात्मनैकत्वं ब्राुवत्युगादीनां नित्यत्वे समञ्जसा स्यात्। "ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः"(श्वे.उ.४।८) इति च मन्त्रवर्णः।
आदेशोऽत्र ब्रााहृणम् अतिदेष्टव्यविशेषानतिदिशतीति। अथर्वाङ्गिरसा च दृष्टा मन्त्रा ब्रााहृणं च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात्पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति मनोमयात्मप्रकाशकः पूर्ववत् ॥१॥
इति ब्राहृानन्दवल्ल्यां तृतीयोऽनुवाकः ॥३॥

===============
चतुर्थ अनुवाक
यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्राहृणो विद्वान्। न बिभेति कदाचनेति। तस्यैष एव शारीर आत्मा यः पूर्वस्य। तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयस्तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य श्रद्धैव शिरः। ऋतं दक्षिणः पक्षः। सत्यमुत्तरः पक्षः। योग आत्मा। महः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥२.४.१॥
यतो वाचो निवर्तन्ते। अप्राप्य मनसा सहेत्यादि। तस्य पूर्वस्य प्राणमयस्यैष एवात्मा शारीरः शरीरे प्राणमये भवः शारीरः। कः? य एष मनोमयः। तस्माद्वा एतस्मादित्यादि पूर्ववत्। अन्योऽन्तर आत्मा विज्ञानमयो मनोमयस्याभ्यन्तरो विज्ञानमयः।
मनोमयो वेदात्मोक्तः। वेदार्थविषया बुद्धिर्निश्चयात्मिका विज्ञानं
तच्चाध्यवसायलक्षणमन्तःकरणस्य धर्मः। तन्मयो निश्चयविज्ञानैः प्रमाणस्वरूपैर्निर्वर्तित आत्मा विज्ञानमयः। प्रमाणविज्ञानपूर्वको हि यज्ञादिस्तायते। यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन।
निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्वं श्रद्धोत्पद्यते। सा सर्वकर्तव्यानां प्राथम्याच्छिर इव शिरः। ऋतसत्ये यथाव्याख्याते एव। योगो युक्तिः समाधानम्, आत्मेवात्मा। आत्मवतो हि युक्तस्य समाधानवतोऽङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति। तस्मात्समाधानं योग आत्मा विज्ञानमयस्य। महः पुच्छं प्रतिष्ठा।
मह इति महत्तत्त्वं प्रथमजम् "महद्यक्षं प्रथमजं वेद"(बृ.उ.५।४।१) इति श्रुत्यन्तरात्। पुच्छं प्रतिष्ठा कारणत्वात्। कारणं हि कार्याणां प्रतिष्ठा। यथा वृक्षवीरुधां पृथिवी। सर्वबुद्धिविज्ञानानां च महत्तत्त्वं कारणम्। तेन तद्विज्ञानमयस्यात्मनः प्रतिष्ठा। तदप्येष श्लोको भवति पूर्ववत्। यथान्नमयादीनां ब्रााहृणोक्तानां प्रकाशकाः श्लोका एवं विज्ञानमयस्यापि ॥२.४.१॥
इति ब्राहृानन्दवल्ल्यां चतुर्थोऽनुवाकः ॥४॥

==================
पञ्चम अनुवाक
विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च। विज्ञानं देवाः सर्वे। ब्राहृ ज्येष्ठमुपासते। विज्ञानं ब्राहृ चेद्वेद। तस्माच्चेन्न प्रमाद्यति। शरीरे पाप्मनो हित्वा। सर्वान्कामान्समश्नुत इति। तस्यैष एव शारीर आत्मा यः पूर्वस्य। तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्राहृ पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥२.५.१॥
विज्ञानं यज्ञं तनुते। विज्ञानवान्हि यज्ञं तनोति श्रद्धादिपूर्वकम्। अतो विज्ञानस्य कर्तृत्वं तनुत इति कर्माणि च तनुते। यस्माद्विज्ञानकर्तृकं सर्वं तस्माद्युक्तं विज्ञानमय आत्मा ब्राहृेति। किं च विज्ञानं ब्राहृ सर्वे देवा इन्द्रादयो ज्येष्ठं प्रथमजत्वात्सर्वप्रवृत्तीनां वा तत्पूर्वकत्वात्प्रथमजं विज्ञानं ब्राहृोपासते ध्यायन्ति तस्मिन्विज्ञानमये ब्राहृण्यभिमानं कृत्वोपासत इत्यर्थः। तस्मात्ते महतो ब्राहृण उपासनाज्ज्ञानैश्वर्यवन्तो भवन्ति।
तच्च विज्ञानं ब्राहृ चेद्यदि वेद विजानाति न केवलं वेदैव तस्माद् ब्राहृणश्चेन्न प्रमाद्यति बाह्रेष्वेवानात्मस्वात्मभावितत्वात्प्राप्तं विज्ञानमये ब्राहृण्यात्मभावनायाः प्रमदनं तन्निवृत्त्यर्थमुच्यते तस्माच्चेन्न प्रमाद्यतीति, अन्नमयादिष्वात्मभावं हित्वा केवले विज्ञानमये ब्राहृण्यात्मत्वं भावयन्नास्ते चेदित्यर्थः।
ततः किं स्यादित्युच्यते - शरीरे पाप्मनो हित्वा, शरीराभिमाननिमित्ता हि सर्वे पाप्मानः तेषां च विज्ञानमये ब्राहृण्यात्माभिमानान्निमित्तापाये हानमुपपद्यते, छत्रापाय इवच्छायापायः। तस्माच्छरीराभिमाननिमित्तान् सर्वान्पाप्मनः शरीरप्रभवाञ्शरीर एव हित्वा विज्ञानमयब्राहृस्वरूपापन्नस्तत्स्थान्सर्वान्कामान्विज्ञानमयेनैवात्मना समश्नुते सम्यग्भुङ्क्त इत्यर्थः।
तस्य पूर्वस्य मनोमयस्यात्मैष एव शरीरे मनोमये भवः शारीरः। कः?य एष विज्ञानमयः। तस्माद्वा
एतस्मादित्युक्तार्थम्। आनन्दमय इति कार्यात्मप्रतीतिरधिकारान्मयट्शब्दाच्च। अन्नादिमया हि
कार्यात्मानो भौतिका इहाधिकृताः। तदधिकारपतितश्चायमानन्दमयः, मयट् चात्र विकारार्थे दृष्टो यथान्नमय इत्यत्र। तस्मात्कार्यात्मानन्दमयः प्रत्येतव्यः।
संक्रमणाच्च;आनन्दमयमात्मानमुपसंक्रामतीति वक्ष्यति। कार्यात्मनां च संक्रमणमनात्मनां दृष्टम्। संक्रमणकर्मत्वेन चानन्दमय आत्मा श्रूयते। यथान्नमयमात्मानमुपसंक्रामतीति। न चात्मन एवोपसंक्रमणम्। अधिकारविरोधादसंभवाच्च। न ह्रात्मनैवात्मन उपसंक्रमणं संभवति। स्वात्मनि भेदाभावात्। आत्मभूतं च ब्राहृ सङ्क्रमितुः।
शिरआदिकल्पनानुपपत्तेश्च। न हि यथोक्तलक्षण आकाशादिकारणेऽकार्यपतिते शिरआद्यवयवरूपकल्पनोपपद्यते। "अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने"(तै.उ.२।७।१) "अस्थूलमनणु"(बृ.उ.३।८।८) "नेति नेत्यात्मा"(बृ.उ.३।९।२३) इत्यादिविशेषापोहश्रुतिभ्यश्च।
मन्त्रोदाहारणानुपपत्तेश्च। न हि प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूयमान आनन्दमयआत्मनि ब्राहृणि नास्ति ब्राहृेत्याशङ्काभावात् "असन्नेव स भवति। असद्ब्राहृेति वेद चेत्"(तै.उ.२।६।१) इति मन्त्रोदाहरणमुपपद्यते। ब्राहृपुच्छं प्रतिष्ठेत्यपि चानुपपन्नं पृथग्ब्राहृणः
प्रतिष्ठात्वेन ग्रहणम्। तस्मात्कार्यपतित एवानन्दमयो न पर एवात्मा।
आनन्द इति विद्याकर्मणोः फलं तद्विकार आनन्दमयः। स च विज्ञानमयादान्तरः। यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः। ज्ञानकर्मणेर्हि फलं भोक्त्रर्थत्वादन्तरतमं स्यात्। आन्तरतमश्चानन्दमय आत्मा पूर्वेभ्यः। विद्याकर्मणोः प्रियाद्यर्थत्वाच्च। प्रियादिप्रयुक्ते हि विद्याकर्मणी। तस्मात्प्रियादीनां फलरूपाणामात्मसंनिकर्षाद्विज्ञानमयस्याभ्यन्तरत्वमुपपद्यते। प्रियादिवासनानिर्वृतो ह्रानन्दमयो विज्ञानमयाश्रितः स्वप्न उपलभ्यते।
तस्यानन्दमयस्यात्मन इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः प्राधान्यात्। मोद इति प्रियलाभनिमित्तो हर्षः। स एव च प्रकृष्टो हर्षः प्रमोदः। आनन्द इति सुखसामान्यमात्मा प्रियादीनां सुखावयवानाम्। तेष्वनुस्यूतत्वात्।
आनन्द इति परं ब्राहृ। तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधावन्तःकरणवृत्तिविशेषे तमसा प्रच्छाद्यमाने प्रसन्नेऽभिव्यज्यते। तद्विषयसुखमिति प्रसिद्धं लोके। तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात्सुखस्य क्षणिकत्वम्। तद्यदान्तःकरणं तपसा तमोघ्नेन विद्यया ब्राहृचर्येण श्रद्धया च निर्मलत्वमापद्यते। यावद्यावत्तावत्तावद्विविक्ते प्रसन्नेऽन्तःकरण आनन्दविशेष उत्कृष्यते विपुलीभवति। वक्ष्यति च - "रसो वै सः। रसँ#्ह्रेवायं लब्ध्वानन्दी भवति एष ह्रेवानन्दयाति"(तै.उ.२।७।१।) "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" (बृ.उ.४।३।३२) इति च श्रुत्यन्तरात्। एवं च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्ष आनन्दस्य वक्ष्यते।
एवं चोत्कृष्यमाणस्यानन्दमयस्यात्मनःपरमार्थब्राहृविज्ञानापेक्षया ब्राहृा परमेव। यत्प्रकृतं सत्यज्ञानानन्दलक्षणम्, यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाः कोशा उपन्यस्ताः, यच्च तेभ्य आभ्यन्तरम्, येन च ते सर्व आत्मवन्तः, तद्ब्राहृ पुच्छं प्रतिष्ठा तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्राहृ प्रतिष्ठा आनन्दमयस्य। एकत्वावसानत्वात्। अस्ति तदेकमविद्याकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्राहृ प्रतिष्ठा पुच्छम्। तदेतस्मिन्नप्यर्थं एष श्लोको भवति ॥१॥
इति ब्राहृानन्दवल्ल्यां पञ्चमोऽनुवाकः ॥५॥

===============
पष्ठ अनुवाक
असन्नेव स भवति। असद्ब्राहृेति वेद चेत्। अस्ति ब्राहृेति चेद्वेद। सन्तमेनं ततो विदुरिति। तस्यैष
एव शारीर आत्मा यः पूर्वस्य। अथातोऽनुप्रश्नाः। उताविद्वानमुं लोकं प्रेत्य कश्चन गच्छति ३। आहो विद्वानमुँ लोकं प्रेत्य कश्चित्समश्नुता ३ उ। सोऽकामयत। बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्त्वा इदँसर्वमसृजत यदिदं किंच। तत्सृष्ट्वा तदेवानुप्राविशत्। तदनुप्रविश्य सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च। निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत्। यदिदं किंच। तत्सत्यमित्याचक्षते। तदप्येष श्लोको
भवति ॥२.६.१॥
असन्नेवासत्सम एव यथासन्न पुरुषार्थसंबन्ध्येवं स भवति अपुरुषार्थसंबन्धी। कोऽसौ? योऽसदविद्यमानं ब्राहृेति वेद विजानति चेद्यदि। तद्विपर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजंसर्वविशेषप्रत्यस्तमितमप्यस्ति तद्ब्राहृेति वेद चेत्।
कुतः पुनराशङ्का तन्नास्तित्वे?व्यवहारातीतत्वं ब्राहृण इति ब्राूमः। व्यवहारविषये हि वाचारम्भणमात्रेऽस्तित्वभाविता बुद्धिस्तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते। यथा घटादिव्र्यवहारविषयतयोपपन्नः संस्तद्विपरीतोऽसन्निति प्रसिद्धम्। एवं तत्सामान्यादिहापि स्याद् ब्राहृणो नास्तित्वप्रत्याशङ्का। तस्मादुच्यते - अस्ति ब्राहृेति चेद्वेदेति।
किं पुनः स्यात्तदस्तीति विजानतस्तदाह - सन्तं विद्यमा न ब्राहृस्वरूपेण परमार्थसदात्मापन्नमेनमेवंविदं विदुब्र्राहृविदस्ततस्तस्मादस्तित्ववेदनात्सोऽन्येषां ब्राहृवद्विज्ञेयो भवतीत्यर्थः।
अथवा यो नास्ति ब्राहृेति मन्यते स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्याश्रद्दधानतया नास्तित्वं प्रतिपद्यतेऽब्राहृप्रतिपत्त्यर्थत्वात्तस्य। अतो नास्तिकः सोऽसन्नसाधुरुच्यते लोके। तद्विपरीतः सन्योऽस्ति ब्राहृेति चेद्वेद स तद्ब्राहृप्रतिपत्तिहेतुं सन्मार्गं वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात्ततस्तस्मात् सन्तं साधुमार्गस्थमेनं विदुः साधवः। तस्मादस्तीत्येव ब्राहृ प्रतिपत्तव्यमिति वाक्यार्थः।
तस्य पूर्वस्य विज्ञानमयस्यैष एव शरीरे विज्ञानमये भवः शारीर आत्मा। कोऽसौ?य एष आनन्दमयः तं प्रति नास्त्याशङ्का नास्तित्वे। अपोढसर्वविशेषत्वात्तु ब्राहृणो नास्तित्वं प्रत्याशङ्का युक्त। सर्वसामान्याच्च ब्राहृणः। यस्मादेवमतस्तस्मात्, अथानन्तरं श्रोतुः शिष्यस्यानुप्रश्ना आचार्योक्तिमनु एते प्रश्ना अनुप्रश्नाः।
सामान्यं हि ब्राहृाकाशादिकारणत्वाद्विदुषोऽविदुषश्च। तस्मादविदुषोऽपि ब्राहृप्राप्तिराशङ्क्यते - उत अपि अविद्वानमुं लोकं परमात्मानमितः प्रेत्य कश्चन, चनशब्दोऽप्यर्थे, अविद्वानपि गच्छति प्राप्नोति किं वा न गच्छतीति द्वितीयोऽपि प्रश्नो द्रष्टव्योऽनुप्रश्ना इति
बहुवचनात्।
विद्वांसं प्रत्यन्यौ प्रश्नौ। यद्यविद्वान्सामान्यं कारणमपि ब्राहृ न गच्छति ततो विदुषोऽपि ब्राहृागमनमाशङ्क्यते। अतस्तं प्रति प्रश्न आहो विद्वानिति। उकारं च वक्ष्यमाणमधस्तादपकृष्य
तकारं च पूर्वस्मादुतशब्दाद्व्यासज्याहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छति - उताहो विद्वानिति विद्वान्ब्राहृविदपि कश्चिदितः प्रेत्यामुं लोकं समश्नुते प्राप्नोति। समश्नुते उ इत्येवंस्थिते, अयादेशे यलोपे च कृतेऽकारस्य प्लुतिः समश्नुता ३ उ इति। विद्वान्समश्नुतेऽमुं लोकम्। किं यथाविद्वानेवं विद्वानपि न समश्नुत इत्यपरः प्रश्नः।
द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयौ। बहुवचनं तु सामथ्र्यप्राप्तप्रश्नान्तरापेक्षया घटते। असद्ब्राहृेति वेद चेत्। 'अस्ति ब्राहृेति चेद्वेद'इति श्रवणादस्ति नास्तीति संशयस्ततोऽर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः। ब्राहृणोऽपक्षपातत्वादविद्वान् गच्छति न गच्छतीति द्वितीयः। ब्राहृणः समत्वेऽप्यविदुष इव विदुषोऽप्यगमनमाशङ्क्यते किं विद्वान्समश्नुते न समश्नुत इति तृतीयोऽनुप्रश्नः।
एतेषां प्रतिवचनार्थमुत्तरग्रन्थ आरभ्यते। तत्रास्तित्वमेव तावदुच्यते। यच्चोत्क्तम्। 'सत्यं ज्ञानमनन्तं ब्राहृ'इति तच्च कथं सत्यत्वमित्येतद्वक्तव्यमितीदमुच्यते सत्त्वोक्त्यैव सत्यत्वमुच्यते। उक्तं हि "सदेव सत्यम्"इति। तस्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते। कथमेवमर्थतावगम्यतेऽस्य ग्रन्थस्य शब्दानुगमात्। अनेनैव ह्रर्थेनान्वितान्युत्तराणि वाक्यानि "तत्सत्यमित्याचक्षते"(तै.उ.२।६।१) "यदेष आकाश आनन्दो न स्यात्"(तै.उ.२।७।१।) इत्यादीनि।
तत्रासदेव ब्राहृेत्याशङ्क्यते। कस्मात्?यदस्ति तद्विशेषतो गृह्रते यथा घटादि। यन्नास्ति तन्नोपलभ्यते यथा शशविषाणादि। तथा नोपलभ्यते ब्राहृ। तस्माद्विशेषतोऽग्रहणान्नास्तीति।
तन्न, आकाशादिकारणत्वाद्ब्राहृणः। न नास्ति ब्राहृ। कस्मादाकाशादि हि सर्वं कार्यं ब्राहृणो जातं गृह्रते। यस्माच्च जायते किंचित्तदस्तीति दृष्टं लोके;यथा घटाङ्कुरादिकारणं मृद्बीजादि। तस्मादाकाशादिकारणत्वादस्ति ब्राहृ।
न चासतो जातं किंचिद् गृह्रते लोके कार्यम्। असतश्चेन्नामरूपादि कार्यं निरात्मकत्वान्नोपलभ्येत। उपलभ्यते तु;तस्मादस्ति ब्राहृ। असतश्चेत्कार्यं गृह्रमाणमप्यसदन्वितमेव तत् स्यात्। न चैवम्;तस्मादस्ति ब्राहृ तत्र। "कथमसतः सज्जायेत"(छा.उ.६।२।२) इति श्रुत्यन्तरमसतः। सज्जन्मासंभवमान्वाचष्टे न्यायतः तस्मात्सदेव ब्राहृेति युक्तम्।
तद्यदि मृद्बीजादिवत्कारणं स्यादचेतनं तर्हि?
न, कामयितृत्वात्। न हि कामयित्रचेतनमस्ति लोके। सर्वज्ञं हि ब्राहृेत्यवोचाम। अतः कामयितृत्वोपपत्तिः।
कामयितृत्वादस्मदादिवदनाप्तकाममिति चेत्?
न, स्वातन्त्र्यात्। यथान्यान् परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति न तथा ब्राहृणः प्रवर्तकाः कामाः। कथं तर्हि सत्यज्ञानलक्षणाः स्वात्मभूतत्वाद्विशुद्धा न तैब्र्राहृ प्रवत्र्यते। तेषां तु तत्प्रवर्तकं ब्राहृ प्राणिकर्मापेक्षया। तस्मात्स्वातन्त्र्यं कामेषु ब्राहृणः। अतो नानाप्तकामं ब्राहृ।
साधनान्तरानपेक्षत्वाच्च। किं च यथान्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिरिक्तकार्यकरणसाधनान्तरापेक्षाश्च न तथा ब्राहृणो निमित्ताद्यपेक्षत्वम्। किं तर्हि
स्वात्मनोऽनन्याः।
तदेतदाह सोऽकामयत स आत्मा यस्मादाकाशः संभूतोऽकामयत कामितवान्। कथम्?बहुस्यां बहु प्रभूतं स्यां भवेयम्। कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्यादित्युच्यते।
प्रजायेयोत्पद्येय। न हि पुत्रोत्पत्त्यवार्थान्तरविषयं बहुवचनम्, कथं तर्हि?आत्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या। यदात्मस्थे अनभिव्यक्ते नामरूपे व्याक्रियेते तदा नामरूपे आत्मस्वरूपापरित्यागेनैव ब्राहृणाप्रविभक्तदेशकाले सर्वावस्थासु व्याक्रियेते तदा तन्नामरूपव्याकरणं ब्राहृणो बहुभवनम्। नान्यथा निरवयवस्य ब्राहृणो बहुत्वापत्तिरुपपद्यतेऽल्पत्वं वा। यथाकाशस्याल्पत्वं बहुत्वं च वस्त्वान्तरकृतमेव। अतस्तद्द्वारेणैवात्मा बहु भवति।
न ह्रात्मनोऽन्यदनात्मभूतं तत्प्रविभक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते। अतो नामरूपे सर्वावस्थे ब्राहृणैवात्मवती, न ब्राहृ तदात्मकम्। ते तत्प्रत्याख्याने न स्त एवेति तदात्मके उच्येते। ताभ्यां चोपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग्ब्राहृ।
स आत्मैवंकामः संस्तपोऽतप्यत। तप इति ज्ञानमुच्यते। "यस्य ज्ञानमयं तपः"
(मु.उ.१।१।८) इति श्रुत्यन्तरात्। आप्तकामत्वाच्चेतरस्यासंभव एव तपसः। तत्तपोऽतप्यत तप्तवान्। सृज्यमानजगद्रचनादिविषयामालोचनामकरोदात्मेत्यर्थः।
स एवमालोच्य तपस्तप्त्वा प्राणिकर्मादिनिमित्तानुरूपमिदं सर्वं जगद्देशतः कालतो नाम्ना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैरनुभूयमानमसृजत सृष्टवान्। यदिदं किं च यÏत्क चेदमविशिष्टम्। तदिदं जगत्सृष्ट्वा किमकरोदित्युच्यते - तदेव सृष्टं जगदनुप्राविशदिति।
तत्रैतच्चिन्त्यं कथमनुप्राविशदिति। किं यः रुाष्टा स तेनैवात्मनानुप्राविशदुतान्येनेति किं तावद्युक्तम्?क्त्वाप्रत्ययश्रवणाद्यः रुाष्टा स एवानुप्राविशदिति।
ननु न युक्तं मृद्वच्चेत्कारणं ब्राहृ तदात्मकत्वात्कार्यस्य। कारणमेव हि कार्यात्मना परिणतमित्यतोऽप्रविष्ट इव कार्योत्पत्तेरूध्र्वं पृथक्कारणस्य पुनः प्रवेशोऽनुपपन्नः। न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोस्ति। यथा घटे चूर्णात्मना मृतोऽनुप्रवेश एवमन्येनात्मना नामरूपकार्येऽनुप्रवेश आत्मन इति चेच्छØत्यन्तराच्च "अनेन जीवेनात्मनानुप्रविश्य"(छा.उ.६।३।२) इति।
नैवं युक्तमेकत्वाद्ब्राहृणः मृदात्मनस्त्वनेकत्वात्सावयवत्वाच्च युक्तो घटे मृदश्चूर्णात्मनानुप्रवेशः। मृदश्चूर्णस्याप्रविष्टदेशवत्त्वाच्च। न त्वात्मन एकत्वे सति निरवयवत्वादप्रविष्टदेशाभावाच्च प्रवेश उपपद्यते। कथं तर्हि प्रवेशः स्यात्?युक्तश्चप्रवेशः श्रुतत्वात्तदेवानुप्राविशदिति।
सावयवमेवास्तु तर्हि। सावयवत्वान्मुखे हस्तप्रवेशवन्नामरूपकार्ये जीवात्मनानुप्रवेशो युक्त एवेति चेत्?
नाशून्यदेशत्वात्। न हि कार्यात्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेणात्मशून्यः प्रदेशोऽस्ति यं प्रविशेज्जीवात्मना। कारणमेव चेत्प्रविशेज्जीवात्मत्वं जह्राद्यथा घटो मृत्प्रवेशे घटत्वं जहाति। तदेवानुप्राविशदिति च श्रुतेर्न कारणानुप्रवेशो युक्तः।
कार्यान्तरमेव स्यादिति चेत्?तदेवानुप्राविशदिति जीवात्मरूपं कार्यं नामरूपपरिणतं कार्यान्तरमेवापद्यत इति चेत्?
न;विरोधात्। न हि धटो घटान्तरमापद्यते। व्यतिरेकश्रुतिविरोधाच्च। जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन्। तदापत्तौ मोक्षासंभवाच्च। न हि यतो मुच्यमान -स्तदेवापद्यते। न हि श्रृङ्खलापत्तिर्बद्धस्य तस्करादेः।
बाह्रान्तर्भेदेन परिणतमिति चेत्तदेव कारणं ब्राहृ शरीराद्याधारत्वेन तदन्तर्जीवात्मनाधेयत्वेन च परिणतमिति चेत्?
न;बहिःष्ठस्य प्रवेशोपपत्तेः। न हि यो यस्यान्तःस्थः स एव तत्प्रविष्ट उच्यते। बहिःष्ठस्यानुप्रवेशः स्यात्प्रवेशशब्दार्थस्यैवं दृष्टत्वात्। यथा गृहं कृत्वा प्राविशदिति।
जलसूर्यकादिप्रतिबिम्बवत्प्रवेशः स्यादिति चेन्न;अपरिच्छिन्नत्वादमूर्तत्वाच्च। परिच्छिन्नस्य मूर्तस्यान्यस्यान्यत्र प्रसादस्वभावके जलादौ सूर्यकादिप्रतिबिम्बोदयः स्यात्। न त्वात्मनः;अमूर्तत्वादाकाशादिकारणस्यात्मनो व्यापकत्वात्। तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च प्रतिबिम्बवत्प्रवेशो न युक्तः।
एवं तर्हि नैवास्ति प्रवेशो न च गत्यन्तरमुपलभामहे 'तदेवानुप्राविशत्'इति श्रुतेः। श्रुतिश्च
नोऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम्। न चास्माद्वाक्याद्यत्नवतामपि विज्ञानमुत्पद्यते। हन्त तह्र्रनर्थकत्वाद्पोह्रमेतद्वाक्यम् 'तत्सृष्ट्वा तदेवानुप्राविशत्'इति।
न, अन्यार्थत्वात्। किमर्थमस्थाने चर्चा। प्रकृतो ह्रन्यो विवक्षितोऽस्य वाक्यस्यार्थोऽस्ति म स्मर्तव्यः। "ब्राहृविदाप्नोति परम्"(तै.उ.२।१।१) "सत्यं ज्ञानमनन्तं ब्राहृ"(तै.उ.२।१।१) "यो वेद निहितं गुहायाम्"(तै.उ.२।१।१) इति तद्विज्ञानं च विवक्षितं प्रकृतं च तत्। ब्राहृस्वरूपानुगमाय चाकाशाद्यन्नमयान्तं कार्यं प्रदर्शितं ब्राहृानुगमश्चारब्धः। तत्रान्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणमयस्तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायां प्रवेशितस्तत्र चानन्दमयो विशिष्ट आत्मा प्रदर्शितः।
अतः परमानन्दमयलिङ्गाधिगमद्वारेणानन्दविवृद्ध्यवसान आत्मा ब्राहृ पुच्छं प्रतिष्ठा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते। न ह्रन्यत्रोपलभ्यते ब्राहृ निर्विशेषत्वात्। विशेषसंबन्धो ह्रुपलब्धिहेतुर्दृष्टः यथा राहोश्चन्द्रार्कविशिष्टसंबन्धः। एवमन्तःकरणगुहात्मसंबन्धो ब्राहृण उपलब्धिहेतुः। संनिकर्षादवभासात्मकत्वाच्चान्तःकरणस्य।
यथा चालोकविशिष्टा घटाद्युपलब्धिरेवं बुद्धिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात्तस्मादुपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव। तद्वृत्तिस्थानीये त्विह पुनस्तत्सृष्ट्वा तदेवानुप्राविशदित्युच्यते।
तदेवेदमाकाशादिकारणं कार्यं सृष्ट्वा तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौद्रष्टृ श्रोतृ मन्तृ विज्ञात्रित्येवं विशेषवदुपलभ्यते। स एव तस्य प्रवेशस्तस्मादस्ति तत्कारणं ब्राहृ। अतोऽस्तित्वादस्तीत्येवोपलब्धव्यं तत्।
तत्कार्यमनुप्रविश्य, किम्?सच्च मूर्तं त्यच्चामूर्तमभवत्। मूर्तामूर्ते ह्रव्याकृतनामरूपे आत्मस्थे अन्तर्गतेनात्मना व्याक्रियेते व्याकृते मूर्तामूर्तशब्दवाच्ये। ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वात्मा ते अभवदित्युच्यते।
किं च निरुक्तं चानिरुक्तं च। निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यो
देशकालविशिष्टतयेदं तदित्युक्तमनिरुक्तं तद्विपरीतं निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे। यथा सच्च त्यच्च प्रत्यक्षपरोक्षे, तथा निलयनं चानिलयनं च। निलयनं नीडमाश्रयो मूर्तस्यैव धर्मः। अनिलयनं तद्विपरीतममूर्तस्यैव धर्मः।
त्यदनिरुक्तानिलयनान्यमूर्तधर्मत्वेऽपि व्याकृतिविषयाण्येव। सर्गोत्तरकालभावश्रवणात्। त्यदिति प्राणाद्यनिरुक्तं तदेवानियनं च अतो विशेषणान्यमूर्तस्य व्याकृतविषयाण्येवैतानि।
विज्ञानं चेतनमविज्ञानं तद्रहितमचेतनं पाषाणादि सत्यं च व्यवहारविषयमधिकारान्न परमार्थसत्यम्। एकमेव हि परमार्थसत्यं ब्राहृ। इह पुनव्र्यवहारविषयमापेक्षिकं सत्यम्, मृगतृष्णिकाद्यनृतापेक्षयोदकादि सत्यमुच्यते। अनृतं च तद्विपरीतम्। किं पुनः?एतत्सर्वमभवत्, सत्यं परमार्थसत्यम्। किं पुनस्तत्?ब्राहृ, सत्यं ज्ञानमनन्तं ब्राहृेति प्रकृतत्वात्।
यस्मात्सत्त्यदादिकं मूर्तामूर्तधर्मजातं यÏत्कचेदं सर्वमविशिष्टं विकारजातमेकमेव सच्छब्दवाच्यं ब्राहृाभवत्तद्व्यतिरेकेणाभावान्नामरूपविकारस्य, तस्मात्तद्ब्राहृ सत्यमित्याचक्षते ब्राहृविदः।
अस्ति नास्तीत्यनुप्रश्नः प्रकृतस्तस्य प्रतिवचनविषय एतदुक्तमात्माकामयत बहु स्यामिति। स यथाकामं चाकाशादिकार्यं सत्यदादिलक्षणं सृष्ट्वा तदनुप्रविश्य पश्यञ्श्रृण्वन्मन्वानो विजानन् बह्वभवत्तस्मात्तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन् ह्मदयगुहायां निहितं तत्प्रत्ययावभासविशेषेणोपलभ्यमानमस्ति इत्येवं विजानीयादित्युक्तं भवति।
तदेतस्मिन्नर्थे ब्रााहृणोक्त एष श्लोको मन्त्रो भवति। यथा पूर्वेषु अन्नमयाद्यात्मप्रकाशकाः पञ्चस्वप्येवं सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारेण भवति ॥२.६.१॥
इति ब्राहृानन्दवल्ल्यां षष्ठोऽनुवाकः ॥६॥

====================
सप्तम अनुवाक
असद्वा इदमग्र आसीत्। ततो वै सदजायत। तदात्मनँ#्स्वयमकुरुत। तस्मात्तत्सुकृतमुच्यत इति। यद्वै तत्सुकृतं रसो वै सः। रसँ#्ह्रेवायं लब्ध्वानन्दी भवति। को ह्रेवान्यात्कः। प्राण्याद् यदेष आकाश आनन्दो न स्यात्। एष ह्रेवानन्दयाति। यदा ह्रेवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति। यदा ह्रेवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति। तत्त्वेव भयं विदुषो मन्वानस्य। तदप्येष श्लोको भवति ॥२.७.१॥
असद्वा इदमग्र आसीत्। असदिति व्याकृतनामरूपविशेषविपरीतरूपमव्याकृतं ब्राहृोच्यते। न पुनरत्यन्तमेवासत्। न ह्रस्तः सज्जन्मास्ति। इदमिति नामरूपविशेषवद्व्याकृतं जगदग्रे पूर्वं प्रागुत्पत्तेब्र्राहृेवासच्छब्दवाच्यमासीत्। ततोऽसतो वै सत्प्रविभक्तनामरूपविशेषमजायतोत्पन्नम्।
किं ततः प्रविभक्तं कार्यमिति पितुरिव पुत्रः, नेत्याह। तदसच्छब्दवाच्यं स्वयमेवात्मानमेवाकुरुत कृतवत्। यस्मादेवं तस्माद्ब्राहृैव सुकृतं स्वयंकर्तृच्यते। स्वयंकर्तृ ब्राहृेति प्रसिद्धं लोके सर्वकारणत्वात्।
यस्माद्वा स्वयमकरोत्सर्वं सर्वात्मना तस्मात्पुण्यरूपेणापि तदेव ब्राहृ कारणं सुकृतमुच्यते।
सर्वथापि तु फलसंबन्धादिकारणं सुकृतशब्दवाच्यं प्रसिद्धं लोके। यदि पुण्यं यदि वान्यत्सा प्रसिद्धिर्नित्ये चेतनवत्कारणे सत्युपपद्यते। तस्मादस्ति तद्ब्राहृ सुकृतप्रसिद्धेः। इतश्चास्ति। कुतः?रसत्वात्। कुतो रसत्वप्रसिद्धिब्र्राहृणः इत्यत आह -
यद्वै तत्सुकृतम्। रसो वै सः। रसो नाम तृप्तिहेतुरानन्दकरो मधुराम्लादिः प्रसिद्धो लोके। रसमेवायं लब्ध्वा प्राप्यानन्दी सुखी भवति। नासत् आनन्दहेतुत्वं दृष्टं लोके बाह्रानन्दसाधनरहिता अप्यनीहा निरेषणा ब्रााहृणा बाह्ररसलाभादिव सानन्दा दृश्यन्ते विद्वांसः;नूनं ब्राहृेव रसस्तेषाम्। तस्मादस्ति तत्तेषामानन्दकारणं रसवद्ब्राहृ।
इतश्चास्ति, कुतः?प्राणनादिक्रियादर्शनात्। अयमपि हि पिण्डो जीवतः प्राणेन प्राणित्यपानेनापानिति। एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैर्निर्वत्र्यमाना दृश्यन्ते। तच्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं संभवति। अन्यत्रादर्शनात्।
तदाह - तद्यदि एष आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यान्न भवेत्को ह्रेव लोकेऽन्यादपानचेष्टां कुर्यादित्यर्थः। कः प्राण्यात्प्राणनं वा कुर्यात्तस्मादस्ति तद्ब्राहृ। यदर्थाः
कार्यकरणप्राणनादिचेष्टास्तत्कृत एव चानन्दो लोकस्य।
कुतः?एष ह्रेव पर आत्मा आनन्दयात्यानन्दयति सुखयति लोकं धर्मानुरूपम्। स एवात्मानन्दरूपोऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः। भयाभयहेतुत्वाद्विद्वदविदुषोरस्ति तद्ब्राहृ। सद्वस्त्वाश्रयणेन ह्रभयं भवति। नासद्वस्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते।
कथमभयहेतुत्वमित्युच्यते - यदा ह्रेव यस्मादेष साधक एतस्मिन्ब्राहृणि किंविशिष्टेऽदृश्ये दृश्यं नाम द्रष्टव्यं विकारो दर्शनार्थत्वाद्विकारस्य। न दृश्यमदृश्यमविकारइत्यर्थः। एतस्मिन्नदृश्येऽविकारेऽविषयभूते अनात्म्येऽशरीरे। यस्माददृश्यं तस्मादनात्म्यं यस्मादनात्म्यं तस्मादनिरुक्तम्। विशेषो हि निरुच्यते विशेषश्च विकारः। अविकारं च ब्राहृ,
सर्वविकारहेतुत्वात्तस्मादनिरुक्तम्। यत एवं तस्मादनिलयनं निलयनं नीड आश्रयो न निलयनमनिलयनमनाधारं तस्मिन्नेतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने सर्वकार्यधर्मविलक्षणे ब्राहृणीति वाक्यार्थः। अभयमिति क्रियाविशेषणम्। अभयामिति वा लिङ्गान्तरं परिणम्यते। प्रतिष्ठां स्थितिमात्मभावं विन्दते लभते। अथ तदा स तस्मिन्नानात्वस्य भयहेतोरविद्याकृतस्यादर्शनादभयं गतो भवति।
स्वरूपप्रतिष्ठो ह्रसौ यदा भवति तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति। अन्यस्य ह्रन्यतो भयं भवति नात्मन एवात्मनो भयं युक्तम्। तस्मादात्मैवात्मनोऽभयकारणम्। सर्वतो हि निर्भया ब्रााहृणा दृश्यन्ते सत्सु भयहेतुषु तच्चायुक्तमसति भयत्राणे ब्राहृणि। तस्मात्तेषामभयदर्शनादस्ति तदभयकारणं ब्राहृेति।
कदासावभयं गतो भवति साधको यदा नान्यत्पश्यत्यात्मनि चान्तरं भेदं न कुरुते तदाभयं गतो भवतीत्यभिप्रायः। यदा पुनरविद्यावस्थायां हि यस्मादेषोऽविद्यावानविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयचन्द्रवत्पश्यत्यात्मनि चैतस्मिन् ब्राहृणि उदपि, अरमल्पमप्यन्तरं छिद्रं भेददर्शनं कुरुते। भेददर्शनमेव हि भयकारणमल्पमपि भेदं पश्यतीत्यर्थः। अथ तस्माद्भेददर्शनाद्धेतोरस्य भेददर्शिन आत्मनो भयं भवति। तस्मादात्मैवात्मनो भयकारणमविदुषः।
तदेतदाह। तद्ब्राहृ त्वेव भयं भेददर्शिनो विदुष ईश्वरोऽन्यो मत्तोऽहमन्यः संसारी इत्येवं
विदुषो भेददृष्टमीश्वराख्यं तदेव ब्राहृाल्पमप्यन्तरं कुर्वतो भयं भवत्येकत्वेनामन्वानस्य। तस्माद्विद्वानप्यविद्वानेवासौ योऽयमेकमभिन्नमात्मतत्त्वं न पश्यति।
उच्छेदहेतुदर्शनाद्ध्युच्छेद्याभिमतस्य भयं भवति। अनुच्छेद्यो ह्रुच्छेदहेतुस्तत्रासत्युच्छेदहेतावुच्छेद्ये न तद्दर्शनकार्यं भयं युक्तम्। सर्वं च जगद्भयवद् दृश्यते। तस्माज्जगतो भयदर्शनाद्गम्यते नूनं तदस्ति भयकारणमुच्छेदहेतुरनुच्छेद्यात्मकं यतो जगद्विभेतीति। तदेतस्मिन्नप्यर्थ एष श्लोको भवति ॥१॥
इति ब्राहृानन्दवल्ल्यां सप्तमोऽनुवाकः ॥७॥

====================
अष्टम अनुवाक
भीषस्माद्वातः पवते। भीषोदेति सूर्यः। भीषास्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम इति। सैषानन्दस्य मीमाँसा भवति। युवा स्यात्साधुयुवाध्यायक आशिष्ठो दृढिष्ठो बलिष्ठस्तस्येयं पृथिवी
सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुष आनन्दः। ते ये शतं मानुषा आनन्दाः ॥१॥
स एको मनुष्यगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं मनुष्यगन्धर्वाणामानन्दाः। स एको देवगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवगन्धर्वाणामानन्दः। स एकः पितृणां चिरलोकलोकानामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं पितृणां चिरलोकलोकानामानन्दाः। स एक आजानजानां देवानामानन्दः ॥२॥
श्रोत्रियस्य चाकामहतस्य। ते ये शतमाजानजानां देवानामानन्दाः। स एकः कर्मदेवानां देवानामानन्दः। ये कर्मणा देवानपियन्ति। श्रोत्रियस्य चाकामहतस्य। ते ये शतं कर्मदेवानां देवानामानन्दाः। स एको देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवानामानन्दाः। स एक इन्द्रस्यानन्दः ॥३॥
श्रोत्रियस्य चाकामहतस्य। ते ये शतमिन्द्रस्यानन्दाः। स एको बृहस्पतेरानन्दः। श्रोत्रियस्य
चाकामहतस्य। ते ये शतं बृहस्पतेरानन्दाः। स एकः प्रजापतेरानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं प्रजापतेरानन्दाः। स एको ब्राहृण आनन्दः। श्रोत्रियस्य चाकामहतस्य ॥४॥
आनन्दः। श्रोत्रियस्य चाकामहतस्य ॥४॥
भीषा भयेनास्माद्वातः पवते। भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति। वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते। तद्युक्तं प्रशास्तरि सति यस्मान्नियमेन तेषां प्रवर्तनम्। तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्राहृ। यतस्ते भृत्या इव राज्ञोऽस्माद्ब्राहृणो भयेन प्रवर्तन्ते। तच्च भयकारणमानन्दं ब्राहृ।
तस्यास्य ब्राहृण आनन्दस्यैषा मीमांसा विचारणा भवति। किमानन्दस्य मीमांस्यमित्युच्यते। किमानन्दो विषयविषयिसंबन्धजनितो लौकिकानन्दवदाहोस्वित् स्वाभाविक इत्येवमेषानन्दस्य मीमांसा।
तत्र लौकिक आनन्दो बाह्राद्ध्यात्मिकसाधनसंपत्तिनिमित्त उत्कृष्टः। स य एष निर्दिश्यते ब्राहृानन्दानुगमार्थम्। अनेन हि प्रसिद्धेनानन्देन व्यावृत्तविषबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते।
लौकिकोऽप्यानन्दोब्राहृानन्दस्यैव मात्रा अविद्यया तिरस्क्रियमाणे विज्ञान उत्कृष्यमाणायां
चाविद्यायां ब्राहृादिभिः कर्मवशाद्यथाविज्ञानं विषयादिसाधनसंबन्धवशाच्च विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः संपद्यते। स एवाविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिष्वकामहतविद्वत्च्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणोत्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्राहृण आनन्द इति। निरस्ते त्वविद्याकृते विषयविषयिविभागे विद्यया स्वाभाविकः परिपूर्ण एक आनन्दोऽद्वैतो भवतीत्येतमर्थं विभावयिष्यन्नाह।
युवा प्रथमवयाः। साधुयुवेति साधुश्चासौ युवा चेति यूनो विशेषणम्। युवाप्यसाधुर्भवति साधुरप्ययुवातो विशेषणं युवा स्यात्साधुयुवेति। अध्यायकोऽधीतवेदः। आशिष्ठ आशास्तृतमः। दृढिष्ठो दृढतमः। बलिष्ठो बलवत्तमः। एवमाध्यात्मिकसाधनसंपन्नः। तस्येयं पृथिव्युर्वी सर्वा वित्तस्य
वित्तेनोपभोगसाधनेन दृष्टार्थेनादृष्टार्थेन च कर्मसाधनेन संपन्ना पूर्णा राजा पृथिवीपतिरित्यर्थः। तस्य च य आनन्दः स एको मानुषो मनुष्याणां प्रकृष्ट एक आनन्दः।
ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः। मानुषानन्दाच्छतगुणेनोत्कृष्टो मनुष्यगन्धर्वाणामानन्दो भवति। मनुष्याः सन्तः कर्मविद्याविशेषाद्गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः। ते
ह्रन्तर्धानादिशक्तिसंपन्नाः सूक्ष्मकार्यकरणाः। तस्मात्प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्तिसाधनसंपत्तिश्च। ततोऽप्रतिहन्यमानस्य प्रतीकारवतो मनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः। तत्प्रसादविशेषात्सुखविशेषाभिव्यक्तिः। एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेनानन्दोत्कर्ष उपपद्यते।
प्रथमं त्वकामहताग्रहणं मनुष्यविषयभोगकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणेनानन्दोत्कर्षौ मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम्। साधुयुवाध्यायक इति श्रोत्रियत्वावृजिनत्वे गृह्रेते। ते ह्रविशिष्टे सर्वत्र। अकामहतत्वं तु विषयोत्कर्षाकर्षतः सुखोत्कर्षापकर्षाय विशेष्यते। अतोऽकामहतग्रहणम्, तद्विशेषतः शतगुणसुखोत्कर्षोपलब्धेरकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम्। व्याख्यातमन्यत्।
देवगन्धर्वा जातित एव। चिरलोकलोकानामिति पितॄणां विशेषणम्। चिरकालस्थायी लोको येषां पितॄणां ते चिरलोकलोका इति। आजान इति देवलोकस्तस्मिन्नाजाने जाता आजानजा देवाः स्मार्तकर्मविशेषतो देवस्थानेषु जाताः।
कर्मदेवा ये वैदिकेन कर्मणाग्निहोत्रादिना केवलेन देवानपियन्ति। देवा इति त्रयÏस्त्रशद्धविर्भुजः। इन्द्रस्तेषां स्वामी तस्याचार्यो बृहस्पतिः। प्रजापतिर्विराट्। त्रैलोक्यशरीरो ब्राहृा समष्टिव्यष्टिरूपः संसारमण्डलव्यापी।
यत्रैत आनन्दभेदा एकतां गच्छन्ति धर्मश्च तन्निमित्तो ज्ञानं च तद्विषयमकामहतत्वं च निरतिशयं यत्र स एष हिरण्यगर्भो ब्राहृा, तस्यैष आनन्दः श्रोत्रियेणावृजिनेनाकामहतेन च सर्वतः प्रत्यक्षमुपलभ्यते। तस्मादेतानि त्रीणि साधनानीत्यवगम्यते। तत्र श्रोत्रियत्वावृजिनत्वे नियते अकामहतत्वं तूत्कृष्यत इति प्रकृष्टसाधनतावगम्यते।
तस्याकामहतत्वप्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्राहृण आनन्दो यस्य परमानन्दस्य मात्रैकदेशः।
"एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति"(बृ.उ.४।३।३२) इति श्रुत्यन्तरात्। स एष आनन्दो यस्य मात्राः समुद्राम्भस इव विप्रुषः प्रविभक्तो यत्रैकतां गताः स एष परमानन्दः
स्वभाविकोऽद्वैतत्वादानन्दानन्दिनोश्चाविभागोऽत्र ॥१-४॥
तदेतन्मीमांसाफलमुपसंह्यियते -
स यश्चायं पुरुषे यश्चासावादित्ये स एकः। स य एवंविदस्माल्लोकात्प्रेत्य। एतमन्नमयमात्मानमुपसंक्रामति। एतं प्राणमयमात्मानमुपसंक्रामति। एतं मनोमयमात्मानमुपसंक्रामति। एतं विज्ञानमयमात्मानमुपसंक्रामति। एतमानन्दमयमात्मानमुपसंक्रामति। तदप्येष श्लोको भवति ॥५॥
यो गुहायां निहितः परमे व्योम्न्याकाशादिकार्यं सृष्ट्वान्नमयान्तं तदेवानुप्रविष्टः स य इति निर्दिश्यते। कोऽसौ?अयं पुरुषे, यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टो
यस्यैकदेशं ब्राहृादीनि भूतानि सुखार्हाण्युपजीवन्ति स यश्चासावादित्य इति निर्दिश्यते। स एको भिन्नप्रदेशस्थघटाकाशैकत्ववत्।
ननु तन्निर्देशे स यश्चायं पुरुष इत्यविशेषतोऽध्यात्मं न युक्तो निर्देशः, यश्चायं दक्षिणेऽक्षन्निति तु युक्तः, प्रसिद्धत्वात्।
न, पराधिकारात्। परो ह्रात्मात्राधिकृतोऽदृश्येऽनात्म्ये भीषास्माद्वातः पवते सैषानन्दस्य मीमांसेति। न ह्रकस्मादप्रकृतो युक्तो निर्देष्टुम्। परमात्मविज्ञानं च विवक्षितम्। तस्मात्पर एव निर्दिश्यते 'स एकः'इति।
नन्वानन्दस्य मीमांसा प्रकृता तस्या अपि फलमुपसंहर्तव्यम्। अभिन्नः स्वाभाविक आनन्दः परमात्मैव न विषयविषयिसंबन्धजनित इति।
ननु तदनुरूप एवायं निर्देशः 'स यश्चायं पुरुषे यश्चासावादित्ये स एकः'इति भिन्नाधिकरणस्थविशेषोपमर्देन।
नन्वेवमप्यादित्यविशेषग्रहणमनर्थकम्।
नानर्थकम्, उत्कर्षापकर्षापोहार्थत्वात्। द्वैतस्य हि मूर्तामूर्तलक्षणस्य पर उत्कर्षः सवित्रभ्यन्तर्गतः स चेत्पुरुषगतविशेषोपमर्देन परमानन्दमपेक्ष्य समो भवति न कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्यभयं प्रतिष्ठां विन्दत इत्युपपन्नम्।
अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः। कार्यरसलाभप्राणनाभयप्रतिष्ठाभयदर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्राहृोत्यपाकृतोऽनुप्रश्न एकः। द्वावन्यावनुप्रश्नौ विद्वदविदुषोब्र्राहृप्राप्त्यप्राप्तिविषयौ तत्र विद्वान्समश्नुते न समश्नुत इत्यनुप्रश्नोऽन्त्यस्तदपाकरणायोच्यते :मध्यमोऽनुप्रश्नोऽन्त्यापाकरणादेवापाकृत इति तदपाकरणाय न यत्यते।
स यः कश्चिदेवं यथोक्तं ब्राहृ उत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीत्येवं वेत्तीत्येवंवित्। एवंशब्दस्य प्रकृतपरामर्शार्थत्वात् स किम्?अस्माल्लोकात्प्रेत्य दृष्टादृष्टेष्टविषयसमुदायो ह्रयं लोकस्तस्माल्लोकात्प्रेत्य प्रत्यावृत्त्य निरपेक्षो भूत्वैवं यथाव्याख्यातमन्नमयमात्मानमुपसंक्रामति। विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं न पश्यति। सर्वं स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः।
ततोऽभ्यन्तरमेतं प्राणमयं सर्वान्नमयात्मस्थमविभक्तम्। अथैतं मनोमयं विज्ञानमयमानन्दमयमात्मानमुपसंक्रामति। अथादृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते।
तत्रैतच्चिन्त्यम्। कोऽयमेवंवित्कथं वा संक्रामतीति। किं परस्मादात्मनोऽन्यः संक्रमणकर्ता प्रविभक्त उत स एवेति।
किं ततः?
यद्यन्यः स्याच्छØतिविरोधः। "तत्सृष्ट्वा तदेवानुप्राविशत्"(तै.उ.२।६।१) "अन्योऽसावन्योऽहमस्मीति। न स वेद"(बृ.उ.१।४।१०) "एकमेवाद्वितीयम्"(छा.उ.६।२।१) "तत्त्वमसि"(छा.उ.६।८।१६) इति। अथ स एव, आनन्दमयात्मानमुपसंक्रामतीति कर्मकर्तृत्वानुपपत्तिः, परस्यैव च संसारित्वं पराभावो वा।
यद्युभयथा प्राप्तो दोषो न परिहर्तुं शक्यत इति व्यर्था चिन्ताः। अथान्यतरस्मिन्पक्षे
दोषाप्राप्तिस्तृतीये वा पक्षेऽदुष्टे स एव शास्त्रार्थं इति व्यर्थैव चिन्ता।
न;तन्निर्धारणार्थत्वात्। सत्यं प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरÏस्मस्तृतीये वा पक्षेऽदुष्टेऽवधृते व्यर्था चिन्ता स्यान्न तु सोऽवधृत इति तदवधारणार्थत्वादर्थवत्येवैषा चिन्ता।
सत्यमर्थवती चिन्ता शास्त्रार्थावधारणार्थत्वात्। चिन्तयसि च त्वं न तु निर्णेष्यसि।
किं न निर्णेतव्यमिति वेदवचनम्?
न।
कथं तर्हि?
बहुप्रतिपक्षत्वात्। एकत्ववादी त्वम्, वेदार्थपरत्वात्, बहवो हि नानात्ववादिनो वेदबाह्रास्त्वत्प्रतिपक्षाः। अतो ममाशङ्कां न निर्णेष्यसीति।
एतदेव मे स्वस्त्ययनं यन्मामेकयोगिनमनेकयोगिबहुप्रतिपक्षमात्थ। अतो जेष्यामि सर्वान्, आरभे च चिन्ताम्।
स एव तु स्यात्तद्भावस्य विवक्षितत्वात्। तद्विज्ञानेन परमात्मभावो ह्रत्र विवक्षितो ब्राहृविदाप्नोति परमिति। न ह्रन्यस्यान्यभावापत्तिरुपपद्यते। ननु तस्यापि तद्भावापत्तिरनुपपन्नैव? न;अविद्याकृततादात्म्यापोहार्थत्वात्। या हि ब्राहृविद्यया स्वात्मप्राप्तिरुपदिश्यते साविद्याकृतस्यान्नादिविशेषात्मन आत्मत्वेनाध्यारोपितस्यानात्मनोऽपोहार्था।
कथमेवमर्थतावगम्यते?
विद्यामात्रोपदेशात्। विद्यायाश्च दृष्टं कार्यमविद्यानिवृत्तिस्तच्चेह विद्यामात्रमात्मप्राप्तौ साधनमुपदिश्यते।
मार्गविज्ञानोपदेशवदिति चेत् तदात्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः। कस्मात्?देशान्तरप्राप्तौ मार्गविज्ञानोपदेशदर्शनात्। न हि ग्राम एव गन्तेति चेत्?
न, वैधम्र्यात्। तत्र हि ग्रामविषयं विज्ञानं नोपदिश्यते। तत्प्राप्तिमार्गविषयमेवोपदिश्यते विज्ञानम्। न तथेह ब्राहृविज्ञानं व्यतिरेकेण साधनान्तरविषयं विज्ञानमुपदिश्यते।
उक्तकर्मादिसाधनापेक्षं ब्राहृविज्ञानं परप्राप्तौ साधनमुपदिश्यत इति चेन्न, नित्यत्वान्मोक्षस्येत्यादिना प्रत्युक्तत्वात्। श्रुतिश्च तत्सृष्ट्वा तदेवानुप्राविशदिति कार्यस्थस्य तदात्मत्वं दर्शयति। अभयप्रतिष्ठोपपत्तेश्च। यदि हि विद्यावान्स्वात्मनोऽन्यन्न पश्यति ततोऽभयं प्रतिष्ठां विन्दत इति स्याद्भयहेतोः परस्यान्यस्याभावात्। अन्यस्य चाविद्याकृतत्वे विद्ययावस्तुत्वदर्शनोपपत्तिस्तद्धि द्वितीयस्य चन्द्रस्य सत्त्वं यदतैमिरिकेण चक्षुष्मता न गृह्रते।
नैवं न गृह्रत इति चेत्?
न सुषुप्तसमाहितयोरग्रहणात्
सुषुप्तेऽग्रहणमन्यासक्तवदिति चेत्?
न सर्वाग्रहणात्। जाग्रत्स्वप्नयोरन्यस्य ग्रहणात्सत्त्वमेवेति चेन्न;अविद्याकृतत्वाज्जाग्रस्वप्नयोः;यदन्यग्रहणं जाग्रत्स्वप्नयोस्तदविद्याकृतमविद्याभावेऽभावात्।
सुषुप्तेऽग्रहणमप्यविद्याकृतमिति चेत्?
न, स्वाभाविकत्वात्। द्रव्यस्य हि तत्त्वमविक्रिया परानपेक्षत्वात्। विक्रिया न तत्त्वं परापेक्षत्वात्। न हि कारकापेक्षं वस्तुनस्तत्त्वम्। सतो विशेषः कारकापेक्षः, विशेषश्च विक्रिया।
जाग्रत्स्वप्नयोश्च ग्रहणं विशेषः। यद्धि यस्य नान्यापेक्षं स्वरूपं तत्तस्य तत्त्वम्, यदन्यापेक्षं न तत्तत्त्वम्, अन्याभावेऽभावात्। तस्मात्स्वाभाविकत्वाज्जाग्रत्स्वप्नवन्न सुषुप्ते विशेषः।
येषां पुनरीश्वरोऽन्य आत्मनः कार्यं चान्यत्तेषां भयानिवृत्तिर्भयस्यान्यनिमित्तत्वात्। सतश्चान्यस्यात्महानानुपपत्तिः। न चासत आत्मलाभः। सापेक्षस्यान्यस्य भयहेतुत्वमिति चेन्न,
तस्यापि तुल्यत्वात्। यदधर्माद्यनुसहायीभूतं नित्यमनित्यं वा निमित्तमपेक्ष्यान्यद्भयकारणं स्यात्तस्यापि तथाभूतस्यात्महानाभावाद्भयानिवृत्तिः, आत्महाने वा सदसतोरितरेतरापत्तौ सर्वत्रानाश्वास एव।
एकत्वपक्षे पुनः सनिमित्तस्य संसारस्य अविद्याकल्पितत्वाददोषः। तैमिरिकदृष्टस्य हि द्वितीयचन्द्रस्य नात्मलाभो नाशो वास्ति। विद्याविद्ययोस्तद्धर्मत्वमिति चेन्न, प्रत्यक्षत्वात्। विवेकाविवेकौ रूपादिवत्प्रत्यक्षावुपलभ्येते
अन्तःकरणस्थौ। न हि रूपस्य प्रत्यक्षस्य सतो द्रष्टृधर्मत्वम्। अविद्या च स्वानुभवेन रूप्यते मूढोऽहमविविक्तं मम विज्ञानमिति।
तथा विद्याविवेकोऽनुभूयते। उपदिशन्ति चान्येभ्य आत्मनो विद्याम्। तथा चान्येऽवधारयन्ति तस्मान्नामरूपपक्षस्यैव विद्याविद्ये नामरूपे च नात्मधर्मौ। "नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्राहृ"(छा.उ.८।१४।१) इति श्रुत्यन्तरात्। ते च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते न परनार्थतो विद्यमाने।
अभेदे "एतमानन्दमयमात्मानमुपसंक्रामति"(तै.उ.२।८।५) इति कर्मकर्तृत्वानुपपत्तिरिति चेत्?
न;विज्ञानमात्रत्वात्संक्रमणस्य। न जलूकादिवत्संक्रमणमिहोपदिश्यते, किं तर्हि? विज्ञानमात्रं संक्रमणश्रुतेरर्थः।
ननु मुख्यमेव संक्रमणं श्रूयत उपसंक्रामतीति चेत्
न;अन्नमयोऽदर्शनात्। न ह्रन्नमयमुपसंक्रामतो बाह्रादस्माल्लोकाज्जलूकावत्संक्रमणं दृश्यतेऽन्यथा वा।
मनोमयस्य बहिर्निर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्यात्मसंक्रामणमिति चेत्?
न;स्वात्मनि क्रियाविरोधादन्योऽन्नमयमन्यमुपसंक्रामतीति प्रकृत्य मनोमयो विज्ञानमयो वास्वात्मानमेवोपसंक्रामतीति विरोधः स्यात्। तथा नानन्दमयस्यात्मसंक्रामणमुपपद्यते। तस्मान्न प्राप्तिः संक्रमणं नाप्यन्नमयादीनामन्यतमकर्तृकम्।
पारिशेष्यादन्नमयाद्यानन्दमयान्तात्मव्यतिरिक्तकर्तृकं ज्ञानमात्रं च संक्रमणमुपपद्यते।
ज्ञानमात्रत्वे चानन्दमयान्तःस्थस्यैव सर्वान्तरस्याकाशाद्यन्नमयान्तं कार्यं सृष्ट्वानुप्रविष्टस्य ह्मदयगुहाभिसंबन्धादन्नमयादिष्वनात्मस्वात्मविभ्रमः संक्रमणेनात्मविवेकविज्ञानोत्पत्त्या विनश्यति। तदेतस्मिन्नविद्याविभ्रमनाशे संक्रमणशब्द उपचर्यते न ह्रन्यथा सर्वगतस्यात्मनः संक्रमणमुपपद्यते।
वस्त्वन्तराभावाच्च। न च स्वात्मन एव संक्रमणम्। न हि जलूकात्मानमेव संक्रामति। तस्मात्सत्यं ज्ञानमनन्तं ब्राहृेति। यथोक्तलक्षणात्मप्रतिपत्त्यर्थमेव बहुभवनसर्गप्रवेशरसलाभाभयसंक्रमणादि परिकल्प्यते ब्राहृणि सर्वव्यवहारविषये, न तु परमार्थतो निर्विकल्पे ब्राहृणि कश्चिदपि विकल्प उपपद्यते।
तमेतं निर्विकल्पमात्मानमेवंक्रमेणोपसंक्रम्य विदित्वा न बिभेति कुतश्चनाभयं प्रतिष्ठां विन्दत इत्येतस्मिन्नर्थेऽप्येष श्लोको भवति। सर्वस्यैवास्य प्रकरणस्यानन्दवल्ल्यर्थस्य संक्षेपतः प्रकाशनायैष मन्त्रो भवति ॥५॥
इति ब्राहृानन्दवल्ल्यामष्टमोऽनुवाकः।
नवम अनुवाक
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। आनन्दं ब्राहृणो विद्वान् न बिभेति कुतश्चनेति। एतँ#्ह वाव न तपति। किमहँ साधु नाकरवम्। किमहं पापमकरवमिति। स य एवं विद्वानेते आत्मानँस्पृणुते। उभे ह्रेवैष एते आत्मानँस्पृणुते। य एवं वेद। इत्युपनिषद् ॥१॥
यतो यस्मान्निर्विकल्पाद्यथोक्तलक्षणादद्वयानन्दादात्मनो वाचोऽभिधानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पेऽद्वयेऽपि ब्राहृणि प्रकाशनाय प्रयुज्यमानान्यप्राप्याप्रकाश्यैव निवर्तन्ते स्वसामथ्र्याद्धीयन्ते--
मन इति प्रत्ययो विज्ञानम्। तच्च यत्राभिधानं वृत्तमतीन्द्रियेऽप्यर्थे तदर्थे च प्रवर्तते प्रकाशनाय। यत्र च विज्ञानं तत्र वाचः प्रवृत्तिः। तस्मात्सहैव वाङ्मनसयोरभिधानप्रत्ययोः प्रवृत्तिः सर्वत्र।
तस्माद्ब्राहृप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचो यस्मादप्रत्ययविषयादनभिधेयाददृश्यादविशेषणात्सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते तं ब्राहृण आनन्दं श्रोत्रियस्यावृजिनस्याकामहतस्य सर्वैषणाविनिर्मुक्तस्यात्मभूतं विषयविषयिसंबन्धविनिर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं ब्राहृणो विद्वान्यथोक्तेन विधिना न बिभेति कुतश्चन निमित्ताभावात्।
न हि तस्माद्विदुषोऽन्यद्वस्त्वन्तरमस्ति भिन्नं यतो बिभेति। अविद्यया यदोदरमन्तरं कुरुते, अथ तस्य भयं
भवतीति ह्रुक्तम्। विदुषश्चाविद्याकार्यस्य तैमिरिकदृष्टद्वितीयश्चन्द्रवन्नाशाद्भयनिमित्तस्य न बिभेति कुतश्चनेति युज्यते।
मनोमयो चोदाह्मतो मन्त्रो मनसो ब्राहृविज्ञानसाधनत्वात्। तत्र ब्राहृत्वमध्यारोप्य तत्स्तुत्यर्थं न बिभेति कदाचनेति भयमात्रं प्रतिषिद्धमिहाद्वैतविषये न बिभेति कुतश्चनेति भयनिमित्तमेव
प्रतिषिध्यते।
नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च?
नैवम् ;कथमित्युच्यते - एतं यथोक्तमेवंविदम्, ह वावेत्यवधारणार्थौ, न तपति नोद्वेजयति च संतापयति। कथं पुनःसाध्वकरणं पापक्रिया च न तपतीत्युच्यते। किं कस्मात्साधुशोभनं कर्म नाकरवं न कृतवानस्मीति पश्चात्संतापो भवत्यासन्ने मरणकाले। तथा किं कस्मात्पापं प्रतिषिद्धं कर्माकरवं कृतवानस्मीति च नरकपतनादिदुःखभयात्तापो भवति। ते एते साध्वकरणपापक्रिये एवमेनं न तपतो यथाविद्वांसं तपतः।
कस्मात्पुनर्विद्वांसं न तपत इत्युच्यते - स य एवं विद्वानेते साध्वसाधुनी तापहेतू इत्यात्मानं स्पृणुते प्रीणयति बलयति वा परमात्मभावेनोभे पश्यतीत्यर्थः। उभे पुण्यपापे हि यस्मादेवमेष विद्वानेत्ते आत्मानमात्मरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वात्मानं स्पृणुत एव। को य एवं वेद यथोक्तमद्वैतमानन्दं ब्राहृ वेद तस्यात्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके जन्मान्तरारम्भके न भवतः।
इतीयमेवं यथोक्तास्यां वल्ल्यां ब्राहृविद्योपनिषत्सर्वाभ्यो विद्याभ्यः परमरहस्यं दर्शितमित्यर्थः।
परं श्रेयोऽस्यां निषण्णमिति ॥१॥
इति ब्राहृनन्दवल्ल्यां नवमोऽनुवाकः

N/A

References : N/A
Last Updated : January 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP