वासुदेवमाहात्म्यम् - अध्याय २६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कन्द उवाच ॥
एकान्तधर्मविवृतिं श्रुत्वा भगवतोदिताम् ॥
प्रहृष्टमानसो भूयस्तं पप्रच्छ स नारदः ॥१॥
नारद उवाच ॥
धर्म एकान्तिकः स्वामिंस्त्वया सम्यगुदीरितः ॥
तमाश्रुत्य महान्हर्षो जातोस्ति मम मानसे ॥२॥
सिद्धये तस्य भवता क्रियायोगो य उच्यते ॥
तमहं बोद्धुमिच्छामि भगवंस्तव संमतम् ॥३॥
॥ श्रीनारायण उवाच ॥
पूजाविधिः क्रियायोगो वासुदेवस्य कीर्त्त्यते ॥
स तु वेदेषु तन्त्रेषु बहुधैवास्ति वर्णितः ॥४॥
भक्तानां रुचिवैचित्र्यात्तथा बहुविधत्वतः ॥
वासुदेवस्य मूर्तीनां बहुधा सोऽस्ति विस्तृतः ॥५॥
साकल्येनोच्यमानस्य पारो नायाति तस्य वै ॥
अतः संक्षेपतस्तुभ्यं वच्मि भक्तिविवर्द्धनम् ॥६॥
प्राप्ता ये वैष्णवीं दीक्षां वर्णाश्चत्वार आश्रमाः ॥
चातुर्वर्ण्यस्त्रियश्चैते प्रोक्ता अत्राधिकारिणः ॥७॥
वेदतन्त्रपुराणोक्तैर्मन्त्रैर्मूलेन च द्विजाः ॥
पूजेयुर्दीक्षिता योषाः सच्छूद्रा मूलमन्त्रतः ॥
मूलमन्त्रस्तु विज्ञेयः श्रीकृष्णस्य षडक्षरः ॥८॥
स्वस्वधर्मं पालयद्भिः सर्वेरेतैर्यथाविधि ॥
पूजनीयो वासुदेवो भक्त्या निष्कपटान्तरैः ॥९॥
आदौ तु वैष्णवीं दीक्षां गृह्णीयात्सद्वरोः पुमान् ॥
सदैकान्तिकधर्मस्थाद्ब्रह्मजातेर्दयानिधेः ॥१०॥
संपन्नो ज्ञानभक्तिभ्यां स्वधर्मरहितस्तु यः ॥
स गुरुन्नैव कर्तव्यः स्त्रीहृतात्मा च कर्हिचित् ॥११॥
प्राप्ता स्त्रैणाद्गुरोर्दीक्षा ज्ञानं भक्तिं च कर्हिचित् ॥
फलेन्नैव यथाऽपत्यं युवतिः षण्ढसंगिनी ॥१२॥
प्राप्यातः सद्गुरोर्दीक्षां तुलसीमालिकां गले ॥
ललाटादौ चोर्द्ध्वपुण्ड्रं गोपीचन्दनतो धरेत् ॥१३॥
विष्णुपूजारुचिर्भक्तो गुरोरेवागमोदितम् ॥
पूजाविधिं सुविज्ञाय ततः पूजनमारभेत् ॥१४॥
रात्र्यन्तयाम उत्थाय भक्तो ब्राह्मेक्षणेऽथ वा ॥
मुहूर्तार्धं हृदि ध्यायेत्केशवं क्लेशनाशनम् ॥१५॥
कीर्त्तयित्वाऽभिधास्तस्य तदीयानां च नाडिकाम्॥
ततः शौचविधिं कृत्वा दन्तधावनमाचरेत् ॥१६॥
अंगशुद्धिस्नानमादौ कृत्वा स्नायात्समन्त्रकम्॥
गृहीत्वा शुचिमृत्स्नादीन्कुर्यात्स्नानांगतर्पणम्॥१७॥
परिधायांशुके धौते उपविश्यासने शुचौ ॥
कृत्वोर्द्ध्वपुण्ड्रं कुर्वीत संध्यां होमं जपादि च ॥१८॥
वस्त्रचन्दनपुष्पादीनुपहारांस्ततोऽखिलान् ॥
आहरेन्मांसमदिराद्यशुचिस्पर्श वर्जितान्॥१९॥
देवेभ्यो वा पितृभ्यश्चाप्यन्येभ्यो न निवेदितान् ॥
अनाघ्रातांश्च मनुजैः केशकीटादिवर्जितान्॥२०॥
संस्थाप्य तान्दक्षपार्श्वे पूजोपकरणानि च ॥
उद्वर्त्य दीपमाज्येन कुर्यात्तैलेन वा ततः ॥२१॥
कौशे वौर्णे च वस्त्रादौ विकाष्ठे शुद्ध आसने ॥
उपाविशेद्वासुदेवप्रतिमासन्निधौ ततः ॥२२॥
शैली धातुमयी दार्वी लेख्या मणिमयी च वा ॥
प्रतिमा स्यात्सिता रक्ता पीता कृष्णाऽथ वा मुने ॥२३॥
कृष्णस्य सा तु कर्तव्या द्विभुजा वा चतुर्भुजा ॥
मुरलीं धारयेत्तत्र द्विभुजायाः करद्वये ॥२४॥
अथ वा दक्षहस्तेऽस्याश्चक्रं शंखं तथेतरे ॥
पद्मं वा धारयेद्दक्षे पाणावभयमुत्तरे ॥२५॥
द्वितीयायास्तु हस्तेषु दक्षिणाधःकरक्रमात् ॥
गदाब्जदरचक्राणि धारयेन्मुनिसत्तम ॥२६॥
द्विविधाया अपि हरेर्मूर्तेर्वामे श्रियं न्यसेत् ॥
मुरलीधरवामे तु राधां रासेश्वरीं न्यसेत् ॥२७॥
अप्येषा द्विविधा मूर्त्तिरखण्डा शुभलक्षणा ॥
सर्वावयवसंपन्ना भवेदर्च्चकसिद्धिदा ॥२८॥
लक्ष्मीस्तु द्विभुजा कार्या वासुदेवस्य सन्निधौ ॥
दधती पंकजं हस्ते वस्त्रालंकारशोभना ॥२९॥
लक्ष्मीवद्राधिकापि स्याद्द्विभुजा चारुहासिनी ॥
पङ्कजं पुष्पमालां वा दधती पाणिपङ्कजे ॥३०॥
अचला च चला चेति द्विविधा प्रतिमा हरेः ॥
तत्राद्यायां न कर्तव्यमावाहनविसर्जनम्॥३१॥
तदङ्गदेवतानां च कार्यं नावाहनाद्यपि ॥
न च दिङ्नियमोऽर्चायां तस्याः स्थेयं तु सम्मुखे ॥३२॥
शालग्रामेप्येवमेव कार्यं नावाहनादि च ॥
अन्यत्र चलमूलौ तु कर्तव्यं तत्तदर्चकैः ॥३३॥
तत्रापि दार्व्या लेख्यायां जलस्पर्शोनुलेपनम् ॥
नैव कार्यं पूजकेन कर्तव्यं परिमार्जनम् ॥३४॥
उदङ्मुखः प्राङ्मुखो वा चलायां सम्मुखोऽथ वा ॥
यथाशक्ति यथालब्धैरुपहारैर्यजेद्धरिम् ॥३५॥
श्रद्धानिश्छद्मभक्तिभ्यामर्पितेनाम्बुनापि सः ॥
प्रीतस्तुष्यति विश्वात्मा किमुताऽखिलपूजया ॥३६॥
पुंसा श्रद्धादिहीनेन रत्नहेमाद्यलंक्रियाः ॥
चतुर्विधं चाप्यन्नाद्यं दत्तं गृह्णाति नो मुदा ॥३७॥
तस्माद्भक्तिमता कार्यं पुंसा स्वश्रेयसे मुने ॥
श्रीकृष्णस्यार्च्चनं नित्यं सर्वाभीष्टाशुदायिनः ॥३८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगाधिकारादिनिरूपणं नाम षड्विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP