संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वासुदेवमाहात्म्यम्| अध्याय ६ वासुदेवमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ वासुदेवमाहात्म्यम् - अध्याय ६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ६ Translation - भाषांतर ॥ सावर्णिरुवाच ॥स हि भक्तो भगवत आसीद्राजा महान्वसुः ॥किं मिथ्याऽभ्यवदद्येन दिवो भूविवरं गतः ॥१॥केनोद्धृतः पुनर्भूमेः शप्तोऽसौ पितृभिः कुतः ॥कथं मुक्तस्ततो भूप इत्येतत्स्कन्द मे वद् ॥२॥स्कन्द उवाच ॥शृणु ब्रह्मन्कथामेतां वसोर्वास वरोचिषः ॥यस्याः श्रवणतः सद्यः सर्वपापक्षयो भवेत् ॥३॥स्वायम्भुवान्तरे पूर्वमिन्द्रो विश्वजिदाह्वयः ॥आररम्भे महायज्ञमश्वमेधाभिधं मुने ॥४॥निबद्धाः पशवोऽजाद्याः क्रोशन्तस्तत्र भूरिशः ॥सर्वे देवगणाश्चापि रसलुब्धास्तदासत ॥५॥क्षेमाय सर्वलोकानां विचरन्तो यदृच्छया ॥महर्षय उपाजग्मुस्तत्र भास्करवर्च्चसः ॥६॥संमानिता सुरगणैः पाद्यार्घ्यस्वागतादिभिः ॥ते बृहन्मुनयोऽपश्यन्मेध्यांस्तान्क्रोशतः पशून् ॥७॥सात्त्विकानामपि च तं देवानां यज्ञविस्तरम् ॥हिंसामयं समालोक्य तेऽत्याश्चर्यं हि लेभिरे ॥८॥धर्मव्यतिक्रमं दृष्ट्वा कृपया ते द्विजोत्तमाः ॥महेन्द्रप्रमुखानूचुर्देवान्धर्मधियस्ततः ॥९॥महर्षय ऊचुः ॥देवैश्च ऋषिभिः साकं महेन्द्राऽस्मद्वचः शृणु ॥यथास्थितं धर्मतत्त्वं वदामो हि सनातनम् ॥१०॥यूयं जगत्सर्गकाले ब्रह्मणा परमेष्ठिना ॥सत्त्वेन निर्मिताः स्थो वै चतुष्पाद्धर्मधारकाः ॥११॥रजसा तमसा चासौ मनूंश्चैव नराधिपान् ॥असुराणां चाधिपतीनसृजद्धर्मधारिणः ॥१२॥सर्वेषामथ युष्माकं यज्ञादिविधिबोधकम् ॥ससर्ज श्रेयसे वेदं सर्वाभीष्टफलप्रदम् ॥१३॥अहिंसैव परो धर्मस्तत्र वेदेऽस्ति कीर्त्तितः ॥साक्षात्पशुवधो यज्ञे नहि वेदस्य संमतः ॥१४॥चतुष्पादस्य धर्मस्य स्थापने ह्येव सर्वथा ॥तात्पर्यमस्ति वेदस्य न तु नाशेऽस्य हिंसया ॥१५॥रजस्तमोदोषवशात्तथाप्यसुरपा नृपाः ॥मेध्येनाजेन यष्टव्यमित्यादौ मतिजाड्यतः ॥छागादिमर्थं बुबुधुर्व्रीह्यादिं तु न ते विदुः ॥१६॥सात्त्विकानां तु युष्माकं वेदस्यार्थो यथा स्थितः ॥ग्रहीतव्योन्यथा नैव तादृशी च क्रियोचिता ॥१७॥यादृशो हि गुणो यस्य स्वभावस्तस्य तादृशः ॥स्वस्वभावानुसारेण प्रवृत्तिः स्याच्च कर्मणि ॥१८॥सात्त्विकानां हि वो देवः साक्षाद्विष्णू रमापतिः ॥अहिंसयज्ञेऽस्ति ततोऽधिकारस्तस्य तुष्टये ॥१९॥प्रत्यक्षपशुमालभ्य यज्ञस्याचरणं तु यत् ॥धर्मः स विपरीतो वै युष्माकं सुरसत्तमाः ॥२०॥रजस्तमोगुणवशादासुरीं संपदं श्रिताः ॥युष्माकं याजका ह्येते सन्त्यवेदविदो यथा ॥२१॥तत्सङ्गादेव युष्माकं साम्प्रतं व्यत्ययो मतेः ॥जातस्तेनेदृशं कर्म प्रारब्धमिति निश्चितम् ॥२२॥राजसानां तामसानामासुराणां तथा नृणाम् ॥यथागुणं भैरवाद्या उपास्याः सन्ति देवताः ॥२३॥स्वगुणानुगुणात्मीयदेवतातुष्टये भुवि ॥हिंस्रयज्ञविधानं यत्तेषामेवोचितं हि तत् ॥२४॥तत्रापि विष्णुभक्ता ये दैत्यरक्षोनरादयः ॥तेषामप्युचितो नास्ति हिंस्रयज्ञः कुतस्तु वः ॥२५॥यज्ञशेषो हि सर्वेषां यज्ञकर्मानुतिष्ठताम् ॥अनुज्ञातो भक्षणार्थं निगमेनैव वर्तते ॥२६॥सात्त्विकानां देवतानां सुरामांसाशनं क्वचित् ॥अस्माभिस्त्वीक्षितं नैव न श्रुतं च सतां मुखात् ॥२७॥तस्माद्व्रीहिभिरेवासौ यज्ञः क्षीरेण सर्पिषा ॥मेध्यैरन्नरसैश्चाऽन्यैः कार्यो न पशुहिंसया ॥२८॥तत्रापि बीजैर्यष्टव्यमजसंज्ञामुपागतैः ॥त्रिवर्षकालमुषितैर्न्न येषां पुनरुद्गमः ॥२९॥अद्रोहश्चायलोभश्च दमो भूतदया तपः ॥ब्रह्मचर्यं तथा सत्यमदम्भश्च क्षमा धृतिः ॥३०॥सनातनस्य धर्मस्य रूपमेतदुदीरितम् ॥तदतिक्रम्य यो वर्तेद्धर्मघ्नः स पतत्यधः ॥३१॥॥ स्कन्द उवाच ॥इत्थं वेदरहस्यज्ञैर्महामुनिभिरादरात् ॥बोधिता अपि सन्नीत्या स्वप्रतिज्ञाविघाततः ॥तद्वाक्यं जगृहुर्नैव तत्प्रामाण्यविदोपि ते ॥३२॥ ॥महद्व्यतिक्रमात्तर्हि मानक्रोधमदादयः ॥विविशुस्तेष्वधर्मस्य वंश्याश्छिद्रगवेषिणः ॥३३॥अजश्छागो न बीजानीत्यादि वादिषु तेष्वथ ॥विमनस्स्वृषिवर्येषु पुनस्तान्बोधयत्सु च ॥३४॥राजोपरिचरः श्रीमांस्तत्रैवागाद्यदृच्छया ॥तेजसा द्योतयन्नाशा इन्द्रस्य परमः सखा ॥३५॥तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् ॥ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम् ॥३६॥एष भूमिपतिः पूर्वं महायज्ञान्सहस्रशः ॥चक्रे सात्वततन्त्रोक्तविधिनारण्यकेन च ॥३७॥येषु साक्षात्पशुवधः कस्मिंश्चिदपि नाऽभवत् ॥न दक्षिणानुकल्पश्च नाप्रत्यक्षसुरार्च्चनम् ॥३८॥अहिंसाधर्मरक्षाभ्यां ख्यातोसौ सर्वतो नृपः ॥अग्रणीर्विष्णुभक्तानामेकपत्नीमहाव्रतः ॥३९॥ईदृशो धार्मिकवरः सत्यसन्धश्च वेदवित् ॥कथंचिन्नान्यथा ब्रूयाद्वाक्यमेष महान्वसुः ॥४०॥एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा ॥अपृच्छन्सहसाऽभ्येत्य वसुं राजानमुत्सुकाः ॥४१॥देवमहर्षय ऊचुः ॥भो राजन्केन यष्टव्यं पशुना होस्विदौषधैः ॥एतं नः संशयं छिन्धि प्रमाणं नो भवान्मतः ॥४२॥स्कन्द उवाच ॥स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः ॥कस्य वः को मतः पक्षो ब्रूत सत्यं समाहिताः ॥४३॥महर्षय ऊचुः ॥धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप ॥देवानां तु पशुः पक्षो मतं राजन्वदात्मनः ॥४४॥स्कन्द उवाच ॥देवानां तु मतं ज्ञात्वा वसुस्तत्पक्षसंश्रयात् ॥छागादिपशुनैवेज्यमित्युवाच वचस्तदा ॥४५॥एवं हि मानिनां पक्षमसन्तं स उपाश्रितः ॥धर्मज्ञोप्यवदन्मिथ्या वेदं हिंसापरं नृपः ॥४६॥तस्मिन्नैव क्षणे राजा वाग्दोषादन्तरिक्षतः ॥अधः पपात सहसा भूमिं च प्रविवेश सः॥महतीं विपदं प्राप भूमिमध्यगतो नृपः॥स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाश्रयात्॥४८॥मोचयित्वा पशून्त्सर्वांस्ततस्ते त्रिदिवौकसः ॥हिंसाभीता दिवं जग्मुः स्वाश्रमांश्च महर्षयः॥४९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णव खण्डे श्रीवासुदेवमाहात्म्ये वेदस्यहिंसापरत्वोक्त्या उपरिचरवसोरधःपातवर्णनं नाम षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP