वासुदेवमाहात्म्यम् - अध्याय २५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीनारायण उवाच ॥
वैराग्यस्याथ ते वच्मि लक्षणं मुनिसत्तम ॥
क्षयिष्णुवस्तुष्वरुचिः सर्वथेति तदीरितम् ॥१॥
आरभ्य मायापुरुषात्सर्वा ह्याकृतयस्तु याः ॥
कालशक्त्या भगवतो नाश्यन्ते ताश्च तद्वशाः ॥२॥
प्रत्यक्षेणानुमानेन शाब्देन च विवेकिभिः ॥
असत्यता कृतीनां च निश्चिता सत्यतात्मनाम् ॥३॥
नित्येन प्रलयेनैष कालो नैमित्तिकेन च ॥
प्राकृतिकेन रूपेण चरत्यात्यन्तिकेन च ॥४॥
देहिदेहा इमे नित्यं क्षीयन्ते परिणामिनः ॥
क्रमेण दृश्यते यत्र बाल्यतारुण्यवार्द्धकम् ॥५॥
सूक्ष्मत्वान्नेक्ष्यते तत्तु गतिर्दीपार्चिषो यथा ॥
फलवृद्धिर्वाऽनुपदं जायमाना द्रुमे यथा ॥६॥
तस्यांतस्यामवस्थायां दुःखं च महदीक्ष्यते ॥
जाग्रदादिष्ववस्थासु दुःखं चैव पुनःपुनः ॥७॥
दुःखमाध्यात्मिकं भूरि दृश्यते चाधिभौतिकम् ॥
आधिदैविकमप्यत्र दुःखमेवास्ति देहिनाम् ॥८॥
हाहा ममार मत्पुत्रो हा पत्नी म्रियते मम ॥
तातं मेऽभक्षयद्व्याघ्रो दष्टा सर्पेण मे वधूः ॥९॥
महासौधोग्निना दग्धो हाहा सोपस्करोऽद्य मे ॥
स्वकुटुम्बं कथं पोक्ष्ये नावर्षत्पाकशासनः ॥१०॥
सस्यैः समृद्धं मत्क्षेत्रं हाहा दग्धं हिमाग्निना ॥
ह्रियन्ते तस्करैर्गावः सर्वस्वं मम लुण्ठितम् ॥११॥
नृपेण दण्डितोऽत्यर्थं शत्रुणा हाऽतिताडितः ॥
किं करोमि च कं ब्रूयां माता मे व्यभिचारिणी ॥१२॥
विषं पास्यामि हाहाऽद्य मत्पत्नीं शत्रुराकृषत् ॥
हा स्वसा मे हृता म्लेच्छैर्हाहाऽरिः प्राप मर्मभित् ॥१३॥
प्रिये ज्वरातिव्यथया यमदूता इमे हहा ॥
इत्थं रोरूयमाणा हि दृश्यन्ते सर्वतो जनाः ॥१४॥
अवस्थानां शरीरस्य जन्ममृत्यू प्रतिक्षणम् ॥
कालेन प्राप्नुवद्भिः स्वं प्रारब्धं दुःखमश्यते ॥१५॥
प्रारब्धान्ते मृत्युदुःखं भवत्यप्रतिमं हि तत् ॥
मृत्वापि च महद्दुःखं प्राप्यते यमयातनाः ॥१६॥
ततो जरायुजोद्भिज्जस्वेदजाण्डजयोनिषु ॥
भूत्वाभूत्वा यथाकर्म म्रियते दुःखितैः पुनः ॥१७॥
नित्यः प्रलय एवं ते कीर्त्तितः सूक्ष्मया दृशा ॥
स ज्ञेयोऽथ मुने वच्मि लयं नैमित्तिकाभिधम् ॥१८॥
निमित्तीकृत्य रजनीं भवेद्विश्वसृजस्तु यः ॥
नैमित्तिकः स कथितो लयो दैनंदिनश्च सः ॥१९॥
चतुर्युगानां साहस्रं दिनं विश्वसृजो मुने ॥
निशा च तावती तस्य तद्द्वयं कल्प उच्यते ॥२०॥
एकैकस्मिन्दिने तस्य चतुर्दश चतुर्दश ॥
भवन्ति मनवो ब्रह्मन्धर्मसेत्वभिरक्षकाः ॥२१॥
आद्यः स्वायम्भुवस्तत्र मनुः स्वारोचिषस्ततः ॥
उत्तमस्तामसश्चाऽथ रैवतश्चाक्षुषस्ततः ॥२२॥
श्राद्धदेवश्च सावर्णि भौत्यो रौच्यस्ततः परम् ॥
ब्रह्मसावर्णिनामा च रुद्रसावर्णिरेव च ॥२३॥
मेरुसावर्णिसंज्ञोऽथ दक्षसावर्णिरन्तिमः ॥
चतुर्दशैते मनवः प्रोक्ता ब्रह्मैकवासरे ॥२४॥
एकैकस्य मनोः कालो युगानां चैकसप्ततिः ॥
दिव्यैर्द्वादशसाहस्रैर्युगकालश्च वत्सरैः ॥२५॥
चतुर्दशस्यैव मनोरन्तरेन्तमुपेयुषि ॥
सायंसंध्या विश्वसृजो जायते मुनिसत्तम ॥२६॥
दिनावसाने वैराजः शक्तीराकर्षति स्थितेः ॥
वैराजात्मा तदा रुद्रस्त्रिलोकीं हर्तुमीहते ॥२७॥
आदौ भवत्यनावृष्टिरत्युग्रा शतवार्षिकी ॥
तदाल्पसारसत्त्वानि क्षीयन्ते सर्वशो भुवि ॥२८॥
सांवर्त्तकस्य चार्कस्य रश्मयोऽत्युल्बणा रसम् ॥
आपातालात्पिबन्त्याशु धरण्यां सर्वमेव हि ॥२९॥
सारसं चैव नादेयं सामुद्रं चाम्बु सर्वशः ॥
शोषयित्वाऽखिलाँल्लोकान्सोऽर्को नयति संक्षयम् ॥३०॥
ततो भवति निःस्नेहा नष्टस्थावरजङ्गमा ॥
कूर्मपृष्ठोपमा भूमिः शुष्का संकुचिता भृशम् ॥३१॥
कालाग्निरुद्रः शेषस्य मुखादुत्पद्यते ततः ॥
अधोलोकान्सप्तभूमिं भुवः स्वश्च दहत्यसौ ॥३२॥
निर्दग्धलोकदशको ज्वालावर्त्तभयंकरः ॥
उद्वासितमहर्लोकः कालाग्निः परिवर्त्तते ॥३३॥
गताधिकारास्त्रिदशा भुवःस्वर्गनिवासिनः ॥
महर्लोकाज्जनं यान्ति वह्निज्वालाभृशार्दिताः ॥३४॥
निवृत्तिधर्मा ऋषयः प्राप्ताः सिद्धदशां तु ये ॥
भूतलात्तेपि तर्ह्येव ऋषिलोकं प्रयान्ति च ॥३५॥
उत्तिष्ठन्ति ततो घोरा व्योम्नि सांवर्त्तका घनाः ॥
महागजकुलप्रख्यास्तडित्वन्तोऽतिनादिनः ॥३६॥
धूम्रवर्णाः पीतवर्णा केचित्कुमुदसन्निभाः ॥
लाक्षारसनिभाः केचिच्चाषपत्रनिभास्तथा ॥३७॥
शमयित्वा महावह्निं शतं वर्षाण्यहर्न्निशम् ॥
वर्षमाणाः स्थूलधाराः स्तनन्तस्ते घना घनाः ॥
ब्रह्माण्डस्यान्तरालं च पूरयन्ति ध्रुवावधि ॥३८॥
एकार्णवजले तस्मिन्वैराजपुरुषः स तु॥
अनिरुद्धात्मकः शेते नागेन्द्रशयने प्रभुः ॥३९॥
तदा देवाश्च ऋषयो रजःसत्त्वतमोवशाः ॥
ये ते सह विरिञ्चेन स्वकीयगुणकर्षिताः ॥
प्रविश्य तस्य जठरे शेरते दीर्घनिद्रया ॥४०॥
ये तु ब्रह्मात्मैक्यभावा वशीकृतगुणत्रयाः ॥
निवृत्तेनैव धर्मेण वासुदेवमुपासते ॥४१॥
महरादिषु लोकेषु ते चतुर्षु कृतालयाः ॥
तं वैराजं संस्तुवन्तो निवसन्ति यथासुखम् ॥४२॥
नारायणः स भगवान्स्वरूपं परमात्मनः ॥
चिन्तयन्वासुदेवाख्यं शेते वै योगनिद्रया ॥४३॥
निशान्ते ब्रह्मणा साकं सर्वे ते तस्य जाठराः ॥
उत्पद्यन्ते यथापूर्वं यथाकर्माधिकारिणः ॥४४॥
एवं नैमित्तिको नाम त्रिलोकीक्षयलक्षणः ॥
प्रलयः कथितस्तुभ्यं प्राकृतं कीर्त्तयाम्यथ ॥४५॥
य एष कल्पः कथितस्तादृशानां शतत्रयम् ॥
षष्ट्याधिकं च यः कालो वेधसः स तु वत्सरः ॥४६॥
पञ्चाशता तैः परार्द्धो ब्रह्मायुस्तद्द्वयं मतम् ॥
पराख्यकाले संपूर्णे महान्भवति संक्षयः ॥४७॥
संहाररुद्ररूपेण संहृत्य स्वं विराड्वपुः ॥
स्वपरं निर्गुणं रूपं वैराजो यातुमिच्छति ॥४८॥
तदा भवत्यनावृष्टिः पूर्ववच्छतवार्षिकी ॥
साङ्कर्षणश्च कालाग्निर्दहत्यण्डमशेषतः ॥४९॥
सांवर्त्तकास्ततो मेघा वर्षन्त्यति भयानकाः ॥
शतं वर्षाणि धाराभिर्मुसलाकृतिभिर्मुने ॥५०॥
महदादेर्विकारस्य विशेषान्तस्य संक्षयः ॥
सर्वस्यापि भवत्येव वासुदेवेच्छया ततः ॥५१॥
आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मकं गुणम् ॥
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥५२॥
ग्रसतेम्बुगुणं तेजो रसं तल्लीयते ततः ॥
रूपं तेजोगुणं वायुर्ग्रसते लीयतेऽथ तत् ॥५३॥
वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः ॥
प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम् ॥५४॥
भूतादिस्तद्गुणं शब्दं ग्रसते लीयते च खम् ॥
इन्द्रियाणि विलीयन्ते तैजसाहंकृतौ ततः ॥५५॥
अहङ्कारे विलीयन्ते सात्त्विके देवता मनः ॥
यद्यद्यस्मात्समुत्पन्नं तत्तत्तस्मिन्हि लीयते ॥५६॥
अहंकारो महत्तत्त्वे त्रिविधोपि प्रलीयते ॥
तत्प्रधाने च तत्पुंसि स मूलप्रकृतौ ततः ॥५७॥
एष प्राकृतिको नाम प्रलयः परिगीयते ॥
तिरोभवन्ति जीवेशा यत्राऽव्यक्ते हरीच्छया ॥५८॥
यदा च माया पुरुषौ कालोऽत्यक्षरतेजसि ॥
तदिच्छया तिरो यान्ति स त्वेको वर्तते प्रभुः ॥
तदा स प्रलयो ज्ञेयो नारदात्यन्तिकाभिधः ॥५९॥
इत्थं प्रभोः कालशक्त्या लयैरेतैश्चतुर्विधैः ॥
असद्बद्ध्वाऽखिलं तत्राऽरुचिर्वैराग्यमुच्यते ॥६०॥
वासुदेवेतरान्देवान्कालमायावशीकृतान् ॥
विदित्वा तेषु च प्रीतिं हित्वा तस्यैव नित्यदा ॥
गाढस्नेहेन या सेवा सा भक्तिरिति गीयते॥६१॥
श्रवणं कीर्तनं तस्य स्मृतिश्चरणसेवनम् ॥
पूजा प्रणामो दास्यं च सख्यं चात्मनिवेदनम् ॥६२॥
इत्येतैर्न्नवभिर्भावैर्यः सेवेत तमादरात्॥
अनन्यया धिषणया स हि भक्त इतीर्यते ॥६३॥
त्रिभिः स्वधर्मप्रमुखैर्युक्ताभक्तिरियं मुने॥
धर्म एकान्तिक इति प्रोक्तो भागवतश्च सः॥६४॥
साक्षाद्भगवतः सङ्गात्तद्भक्तानां च वेदृशाम् ॥
धर्मो ह्येकान्तिकः पुम्भिः प्राप्यते नान्यथा क्वचित् ॥६५॥
नैतादृशं परं किञ्चित्साधनं हि मुमुक्षताम् ॥
निःश्रेयसकरं पुंसां सर्वाभद्रविनाशनम् ॥६६॥
एकान्तधर्मसिद्ध्यर्थं क्रियायोगपरो भवेत् ॥
पुमान्स्याद्येन नैष्कर्म्यं कर्मणां मुनिसत्तम ॥६७॥
एतन्मया वेदपुराणगुह्यं तत्त्वं परं प्रोक्तमघौघनाशम् ॥
एकाग्रया शुद्धधियावधार्य सच्छ्रद्धया चेतसि ते महर्षे ॥६८॥
न वासुदेवात्परमस्ति पावनं न वासुदेवात्परमस्ति मङ्गलम् ॥
न वासुदेवात्परमस्ति दैवतं न वासुदेवात्परमस्ति वाञ्छितम् ॥६९॥
यन्नामधेयं सकृदप्यबुद्ध्या देहावसानेपि गृणाति योऽत्र ॥
स पुष्कसोप्याशु भवप्रवाहाद्विमुच्यते तं भज वासुदेवम् ॥७०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये वैराग्यभक्तिनिरूपणं नाम पञ्चविंशोऽध्यायः ॥२५॥
N/A
References : N/A
Last Updated : November 12, 2024
TOP