वासुदेवमाहात्म्यम् - अध्याय २३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीनारायण उवाच ॥
वानप्रस्थस्य वक्ष्यामि नियमानथ ते मुने ॥
तृतीय आयुषो भागे तृतीयाश्रम ईरितः ॥१॥
अनुकूला स्वसेवायां विरक्ता च तपःप्रिया ॥
यदि पत्नी भवेत्तर्हि तया सह वनं विशेत् ॥२॥
अन्यथा तु सुतादिभ्यस्तस्याः पोषणरक्षणम् ॥
आदिश्य स्वयमेकाकी विरक्तो वनमाविशेत् ॥३॥
निर्भयो निवसेत्तत्र तपोरुचिरतन्द्रितः ॥
कुर्यादुटजमग्न्यर्थं स्वयं तु बहिरावसेत् ॥४॥
भवेत्पञ्चतपा ग्रीष्म उदवासश्च शैशिरे ॥
आसारषाट्च वर्षासु जितक्रोधो जितेन्द्रियः ॥५॥
वासश्च तार्णं पार्णं वा वसीताजिनवल्कलम् ॥
भुञ्जीत ऋषिधान्यानि वन्यं कन्दफलादि वा ॥६॥
अग्निपक्वं वार्कपक्वमपक्वं वापि भक्षयेत् ॥
अभावे त्वेष दन्तानामश्मोलूखलकुट्टितम् ॥७॥
स्वयमेवाहरेदन्नं यथाकालं दिनेदिने ॥
काले पराहृतं वापि गृह्णीयान्नान्यदा क्वचित्॥ ८॥
कालेपि कृष्टपच्यं तु न गृह्णीयादनापदि ॥
वन्यैरेवाग्निकार्यं च धान्यैः कुर्वीत पूर्ववत् ॥९॥
रक्षेत्कमण्डलुं दण्डमग्निहोत्रपरिच्छदान्॥
केशरोमश्मश्रुनखान्धारयेन्मलिनान्दतः ॥१०॥
अंगान्यमर्दयन्स्नायाद्भूतले च शयीत सः ॥
देशकाल बलावस्थानुसारेण तपश्चरेत् ॥११॥
फेनपाश्चौदुम्बराश्च वालखिल्यास्तथैव च ॥
वैखानसेति कथिताश्चतुर्द्धा वनवासिनः ॥१२॥
यथाशक्ति द्वादशाब्दानष्टौ वा चतुरो वने ॥
वसेद्द्वावेकमेवापि ततः संन्यासमाश्रयेत् ॥१३॥
यदि स्यात्तीव्रवैराग्यं तर्हि न्यासो हितावहः ॥
वसेत्तत्रैवाऽन्यथा तु यावज्जीवं वने द्विजः ॥१४॥
यथाविधि कृतत्यागस्तुरीयाश्रममास्थितः ॥
साच्छादनं तु कौपीनं कन्थामेकां च धारयेत्॥१५॥
दण्डं कमण्डलुं चाम्बुगालनं बिभृयाच्च सः ॥
सदाचारद्विजगृहे काले भिक्षां समाचरेत् ॥१६॥
न कुर्यात्प्रत्यहं भिक्षामेकस्यैव गृहे यतिः ॥
रसलुब्धो भवेन्नेव सकृच्च मितभुग्भवेत् ॥१७॥
वनस्थाश्रमिणो भिक्षां प्रायो गृह्णीत भिक्षुकः ॥
तदन्धसातिशुद्धेन शुद्ध्यत्येवाऽस्य यन्मनः ॥१८॥
घ्राणेपि मांससुरयोः पाराकं व्रतमाचरेत् ॥
शौचाचारविशुद्धः स्याच्छूद्रादींश्चापि न स्पृशेत् ॥१९॥
नित्यं कुर्याद्विष्णुपूजा मद्याद्विष्णोर्न्निवेदितम्॥
द्वादशार्णं जपेद्विष्णोरष्टाक्षरमनुं च वा ॥२०॥
असद्वादं न कुर्वीत वृत्त्यर्थं नाचरेत्कथाम् ॥
असच्छास्त्रे न सक्तः स्यान्नोपजीवेच्च जीविकाम् ॥२१॥
सच्छास्त्रमभ्यसेच्चासौ बन्धमोक्षानुदर्शनम् ॥
मठादीन्नैव बध्नीयादहन्ताममते त्यजेत् ॥२२॥
चातुर्मास्यं विनैकत्र वसेन्नाऽसावनापदि ॥
आत्मनश्च हरे रूपं विद्याज्ज्ञानेन तत्त्वतः ॥२३॥
कामं क्रोधं भयं वैरं धनधान्यादिसंग्रहम् ॥
नैव कुर्यात्पालयेत यमांश्च नियमान्यतिः ॥२४॥
तीव्रज्ञानविरागाभ्यां संपन्नोपि यतिर्ध्रुवम् ॥
स्त्रीवित्तभूषासद्वस्त्रसंसर्गाद्भ्रष्टतां व्रजेत् ॥२५॥
पुष्प चन्दनतैलादिसुगन्धिद्रव्यवर्जनम् ॥
त्यागी कुर्वीतान्यथा तु भवेद्देहात्मधीः स वै ॥२६॥
आहारो यस्य यावांस्तं तावान्स्त्रीकाम आविशेत् ॥
अतो मितं नीरसं च भोजनं त्यागिनो हितम् ॥२७॥
न श्राव्या ग्राम्यवार्त्ता च मोक्षसिद्धिमभीप्सता ॥
नश्येद्यच्छ्रवणान्नॄणां सद्यो विष्णुकथा रुचिः ॥२८॥
अपि चित्रमयीं नारीं त्यागी नेक्षेत न स्पृशेत् ॥
स्त्र्याकारदर्शनादेव भ्रष्टा भूरि तपस्विनः ॥२९॥
कुटीचको बहूदश्च हंसः परमहंसकः ॥
एवं चतुर्द्धा कथितो यतिर्वैराग्यभेदतः ॥३०॥
काषायवाससो ये मे भविष्याः साधवश्च तैः ॥
कार्यं मदर्थपाकादि तुर्याश्रमस्थितैरपि ॥३१॥
श्रीवासुदेवभक्ता ये तीव्रवैराग्यशालिनः ॥
तेषां धर्मस्तु तत्सेवा प्रोक्ताहस्सु च रात्रिषु ॥३२॥
एकोपि च क्षणस्तेषां ज्ञानविज्ञानभूयसाम् ॥
भक्तिं नवविधां विष्णोर्विना व्यर्थो न वै भवेत् ॥३३॥
सर्वेर्गुणैरुपेतोपि भगवद्विमुखो यदि ॥
स्वजनोपि भवेत्तं तु जह्युरेव हि वैष्णवाः ॥३४॥
प्रासादिकं हरेरन्नं प्रोक्षितं तत्पदाम्बुना ॥
भुञ्जीरंस्तुलसीमिश्रं प्रत्यहं सात्वता जनाः ॥३५॥
स्त्रीणां च स्त्रीषु सक्तानां प्रसंगो विष्णुचिन्तकैः ॥
सर्वथैव परित्याज्यो भवेत्तद्ध्यानमन्यथा ॥३६॥
भगवन्तं वासुदेवं विनैकमितरः पुमान् ॥
कोपि नास्त्येव यो नारीं समीक्ष्य न विमुह्यति ॥३७॥
यत्र स्थित्या मुहुः स्त्रीणां स्यातां शब्दश्रुतीक्षणे ॥
त्यागी तत्र वसेन्नैव वसन्धर्मच्युतो भवेत् ॥३८॥
कामो लोभो रसास्वादः स्नेहो मानस्तथा च रुट् ॥
एते त्याज्याः प्रयत्नेन षड्दोषाः संसृतिप्रदाः ॥३९॥
प्रोक्तेषु धर्मेष्वेतेषु यस्ययस्य च्युतिर्भवेत्॥
यथाशक्ति यथाशास्त्रं कार्या तत्तस्य निष्कृतिः॥४०॥
इत्थं चतुर्णां वर्णानामाश्रमाणां च नारद॥
धर्माः संक्षेपतः प्रोक्ता वैष्णवानां च ते मया॥४१॥
वर्णी यतिश्च धर्मस्थो ब्रह्मलोकमुपैति वै॥
ऋषिलोकं वनस्थश्च गृहस्थः स्वर्गमाप्नुयात् ॥४२॥
भक्त्या सहैताञ्छ्रीविष्णोराचरेयुस्तु ये जनाः ॥
ते तु सर्वेपि देहान्ते विष्णुलोकमवाप्नुयुः ॥४३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये वनस्थयतिधर्मनिरूपणं नाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP