वासुदेवमाहात्म्यम् - अध्याय १९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कन्द उवाच ॥
ततः स ददृशे देवौ पुराणावृषिसत्तमौ ॥
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥१॥
तेजसाप्यधिकौ सूर्यात्सर्वलोकविरोचनात् ॥
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥२॥
पद्मचिह्नभुजौ तौ च पादयोश्चक्रलक्षणौ॥
व्यूढोरस्कौ दीर्घभुजौ सितसूक्ष्मघनांशुकौ ॥३॥
स्वास्यौ पृथुललाटौ च सुभ्रुवौ शुभनासिकौ ॥
शुभलक्षणसंपन्नौ दिव्यमूर्त्ती घनप्रभौ ॥४॥
विनयेनान्तिकं प्राप्य तयोः कृत्वा प्रदक्षिणाम् ॥
भक्त्या प्रणम्य साष्टाङ्गं तस्थौ प्राञ्जलिरग्रतः ॥५॥
ततस्तौ तपसां वासौ यशसां तेजसामपि ॥
ऋषी पौर्वाह्णिकस्यान्ते विधेर्मौनं विहाय च ॥६॥
प्रीत्या नारदमव्यग्रौ पाद्यार्घ्याभ्यां समार्चताम् ॥
पीठयोरुपविष्टौ तौ कौशयोर्नारदश्च सः॥७॥
तेषु तत्रोपविष्टेषु स देशोभिव्यराजत ॥
आज्याहुतिमहाज्वालैर्यज्ञवाटोग्निभिर्यथा ॥८॥
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् ॥
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुसत्कृतम् ॥९॥
श्रीनारायण उवाच ॥
अपि ब्रह्मन्स भगवान्परमात्मा सनातनः ॥
ब्रह्मधाम्नि त्वया दृष्ट आवयो कारणं परम् ॥१०॥
नारद उवाच ॥
भगवंस्त्वत्प्रसादेन तमहं परमेश्वरम् ॥
वासुदेवं समालोके स्थितमक्षरधामनि ॥११॥
इह चैवागतस्तेन विसृष्टो वां निषेवितुम् ॥
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥१२॥
श्रीनारायण उवाच ॥
धन्योस्यनुगृहीतोसि यत्ते दृष्टः स्वयं प्रभुः ॥
नहि तं दृष्टवान्ब्रह्मन्कश्चिद्देवोपि वा ऋषिः ॥१३॥
भक्त्यैकान्तिकया तस्य प्राप्ता अक्षरसाम्यताम्॥
ये हि भक्तास्त एवैनं पश्यन्त्यखिलकारणम्॥१४॥
स दिव्यमूर्त्तिर्भगवान्दुर्द्दर्शः पुरुषोत्तमः ॥
नारदैतद्धि मे सत्यं वचनं समुदाहृतम् ॥१५॥
नान्यो भक्तात्प्रियतरो लोके तस्यास्ति कश्चन ॥
ततः स्वयं दर्शितवांस्तवात्मानं द्विजोत्तम ॥१६॥
तेजःपुञ्जाभिरुद्धांगो गुणातीताद्भुताकृतिः ॥
अखण्डानन्दरूपश्च सदा शुद्धोऽच्युतोस्ति सः ॥१७॥
रूपवर्णवयोवस्थाः प्राकृता नैव तस्य हि ॥
सर्वं तस्यास्ति तद्दिव्यं सर्वोपकरणानि च ॥
एकान्तिकानां भक्तानां स एव परमा गतिः ॥१८॥
आत्मब्रह्मैक्यसंपन्नैर्विनिवृत्तगुणैरपि ॥
क्रियते वासुदेवस्य भक्तिरित्थंगुणो हि सः ॥१९॥
माहात्म्यमस्य को वक्तुं शक्नुयात्परमात्मनः ॥
अचिन्त्यानन्तशक्तीनामधिपस्य महामुने ॥२०॥
आत्मात्मा चाक्षरात्मा च ह्येष आकाशनिर्मलः ॥
दिव्यदृगीक्ष्यः सन्मात्रः पुरुषो वसुदेवजः ॥२१॥
समस्तकल्याणगुणो निर्गुणश्चेश्वरेश्वरः ॥
परया विद्यया वेद्य उपास्यो ब्रह्मवित्प्रभुः ॥२२॥
दिव्यमूर्त्तिं तमीशानं तपसैकान्तिकेन च ॥
यः प्रीणयति धर्मेण स धन्यतम उच्यते ॥२३॥
तस्मात्त्वमपि देवर्षे धर्मेणैकान्तिकेन तम् ॥
आराधयन्निहैवांग कंचित्कालं तपः कुरु ॥२४॥
तपसैवाऽतिशुद्धात्मा माहात्म्यं तस्य सत्पतेः ॥
यथावज्ज्ञास्यति भवान्प्रोच्यमानं मयाऽखिलम् ॥२५॥
सर्वार्थसाधनं विद्धि तपस्तद्धृदयं मुने ॥
नातप्तभूरितपसा स वशीक्रियते प्रभुः ॥२६॥
॥ स्कन्द उवाच ॥
एवमुक्तो भगवता नरनारायणेन सः ॥
प्रीतस्तपः कर्त्तुमिच्छँस्तमुवाच महामतिः ॥२७॥
इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुऽदेवमाहात्म्ये नारदनरनारायणसमागमो नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP