वासुदेवमाहात्म्यम् - अध्याय ४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कन्द उवाच ॥
स एवमुक्तोत्मविदां वरिष्ठो नारायणेनोत्तमपूरुषेण ॥
जगाद वाक्यं जगतां गरिष्ठं तमच्युतं लोकहिताधिवासम् ॥१॥
नारद उवाच ॥
श्रुतं मया देव समं त्वयोक्तमृष्याकृतिच्छादितभूरिधाम्ना ॥
तवैव लीला सकलेयमीश सर्वेश्वरस्येति विदामि चित्ते ॥२॥
त्वद्दर्शनेनैव हि पूर्णकामो भवामि भूमन्स्वहृदीप्सितेन ॥
तथाप्यहं तत्तव पूर्वरूपं प्रभो दिदृक्षामि हि कौतुकं मे ॥३॥
श्रीनारायण उवाच ॥
न तत्स्वरूपं मम दानयज्ञयोगैश्च वैदेस्तपसापि दृश्यम् ॥
एकान्तिकैर्भक्तवरैस्तु भक्त्या ह्यनन्यया नारद दृश्यते तत् ॥४॥
भक्तिस्तव त्वस्ति मयि ह्यनन्या ज्ञानं च वैराग्ययुतं स्वधर्मः ॥
अतश्च तद्दर्शनमाप्स्यसि त्वं सुरेश्वराद्यैरपि यद्दुरापम् ॥५॥
त्वदीयभक्त्याऽतितरा प्रसन्नस्त्वाज्ञापयाम्यद्य तदीक्षणाय ॥
सितान्तरीपं व्रज तत्र तेऽयं मनोरथः सेत्स्यति विप्रवर्य ॥६॥
स्कन्द उवाच ॥
श्रुत्वेति वाचं परमेष्ठिपुत्रः सोप्यर्च्चयित्वा तमृषिं पुराणम् ॥
खमुत्पपातोत्तमयोगयुक्तस्ततोधिमेरौ सहसा निपेते ॥७॥
तस्यावतस्थे च मुनिर्मुहूर्त्तमेकान्तमासाद्य गिरेः स शृंगे ॥
आलोकयन्नुत्तरपश्चिमेन ददर्श चात्यद्भुतमन्तरीपम् ॥८॥
क्षीरोदधेरुत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः ॥
देदीप्यमानो विततेन सर्वतो ज्योतिश्चयेनातिसि तेन नित्यम् ॥९॥
आम्रैरनेकैरसनैरशोकैराम्रातकैर्निम्बकदम्बनीपैः ॥
बिल्वैर्मधूकैः सुरदारुभिश्च प्लक्षैर्वटैः किंशुकचन्दनैश्च ॥१०॥
सर्ज्जैश्च शालैः पनसैस्तमालैर्मुनिद्रुमैः केतकचम्पकैश्च ॥
कुन्दैश्च जातीसुरमल्लिकाभिद्रुमैर्वृतः पुष्पफलावनम्रैः ॥११॥
कल्पद्रुमाणां बहुभिश्च वृन्दैः सुवर्णरम्भाक्रमुकालिभिश्च ॥
महद्भिरुद्यानवरैरनेकैः सरित्सरोभिर्विकचाम्बुजैश्च ॥
हंसादिभिः पक्षिवरैः सुशब्दैर्गणैर्मृगाणां रुचिरैश्चलद्भिः ॥१२॥
सर्वेपि जीवाः किल यत्र मुक्ता वसन्ति च स्थावरजङ्गमाश्च ॥
तं वीक्षमाणेन च तेन दृष्टा भक्तोत्तमाः श्रीपुरुषोत्तमस्य ॥१३॥
अतीन्द्रिया निर्गतसर्वपापा निष्यन्दहीनाश्च सुगन्धिनश्च ॥
द्विबाहवः केपि चतुर्भुजाश्च श्वेताश्च केचिन्नवनीरदाभाः॥१४॥
पद्मच्छदाक्षाः सममानगात्राः सुरूपदिव्यावयवाः सुसाराः ॥
विकीर्णकेशाश्च सदा किशोरा सद्भिश्च चिह्नैर्न्निखिलैरुपेताः ॥१५॥
सरोजरेखाङ्कितपाणिपादाः षडूर्मिहीना मिहिरातितेजसः ॥
सितांशुका ध्यानपराश्च सौम्याः कालोपि येभ्यो भयमेति नित्यम् ॥१६॥
सावर्णिरुवाच ॥
अतीन्द्रिया निरातङ्का अनिष्यन्दाः सुगन्धिनः ॥के ते नराः कथं जातास्तादृशाः का च तद्गतिः ॥१७॥
श्वेतद्वीपः पयोम्भोधौ वर्त्तते हि धरातले ॥तद्वासिनामपि कथं प्रोक्ताऽतीन्द्रियता त्वया ॥१८॥
ये ब्रह्मण्यक्षरे धाम्नि सच्चिदानन्दरूपिणि॥ स्थिताः स्युश्चिन्मया मुक्तास्ते तथा स्युर्न्नहीतरे ॥१९॥
एतं मे संशयं छिन्धि परं कौतूहलं हि मे ॥त्वं हि सर्वकथाभिज्ञस्ततस्त्वामाश्रितोस्मयहम् ॥२०॥
स्कन्द उवाच ॥
एकान्तोपासनेनैव प्राक्कल्पेषु रमापतेः ॥ये ब्रह्मभावं संप्राप्ता अजरामरतां गताः ॥२१॥
अक्षराख्याः पुमांसस्ते श्वेतद्वीपेऽत्र धामनि ॥सेवितुं वासुदेवं तं स्थिता देवर्षिणेक्षिताः ॥२२॥
प्राप्ते प्रलयकाले तु पुनश्चाक्षरधामनि ॥स्थास्यन्ति ते स्वतन्त्राश्च कालमायाभयोज्झिताः ॥२३॥
अत्रापि पुरुषा ये तु मायाजाता अतः क्षराः ॥तेपि सद्भिः साधनैर्वै जायन्ते तादृशाः किल ॥२४॥
अहिंसया च तपसा स्वधर्मेण विरागतः ॥वासुदेवस्य माहात्म्यज्ञानेनैवात्मनिष्ठया ॥२५॥
भक्त्या परमया नित्यं प्रसङ्गेन महात्मनाम् ॥हरिसेवाविहीनानां मुक्तीनामप्यनिच्छया ॥२६॥
सिद्धीनामणिमादीनां सर्वासां चाप्यकांक्षया ॥अन्योन्यं श्रुतिकीर्तिभ्यां श्रीहरेर्जन्मकर्मणाम् ॥
भवन्ति तादृशा नूनं पुरुषा मुनिसत्तम ॥२७॥
जगत्सर्गे जायमानेप्येते कालवशात्क्वचित् ॥न जायन्ते स्वतंत्रत्वान्न नश्यन्ति लयेऽन्यवत् ॥२८॥
अत्र ते कथयिष्यामि कथां पौराणिकीं मुने ॥यथात्रत्योपि मनुजस्तथा भावमुपेयिवान् ॥२९॥
विस्तीर्णैषा कथा ब्रह्मञ्छ्रुता मे पितृसन्निधौ ॥सैषाद्य तव वक्तव्या कथासारो हि स स्मृतः ॥३०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्वेतद्वीपमुक्तवर्णनं नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP