वासुदेवमाहात्म्यम् - अध्याय ८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
सावर्णिरुवाच ॥
महर्षिवारितैर्द्देवैस्त्यक्ते हिंसामये मखे ॥
पुनः कथं संप्रवृत्ता मखाः सर्वत्र तादृशाः ॥१॥
देवेष्वृषिषु भूपेषु प्राचीनाधुनिकेषु च ॥
सनातनः शुद्धधर्मो विपर्यासं कथं गतः ॥२॥
अत्र मे संशयो भूयान्संजातोऽद्य षडानन ॥
त्वं सर्वशास्त्रतत्त्वज्ञस्तमपाकर्त्तुमर्हसि ॥३॥
स्कन्द उवाच ॥
कालो बलीयान्बलिनां भिद्यन्ते तेन बुद्धयः ॥
कामक्रोधरसास्वादलोभमानवतां मुने ॥४॥
अतिक्रमेण महतां यथार्थहितभाषिणाम् ॥
क्रोधमानवशात्पुंसां नश्यन्त्येव च सद्धियः ॥५॥
अकार्यमपि ते कर्तुं तदानीं तु बुधा अपि ॥
प्रवर्त्तन्तेऽनुतप्यन्ते बम्भ्रम्यन्तेऽथ संसृतौ ॥६॥
कामादिभिर्विहीना ये सात्वताः क्षीणवासनाः ॥
तेषां तु बुद्धिभेदाय क्वापि कालो न शक्नुते ॥७॥
अनाश्रितस्तु सद्धर्मं पुमान्कश्चन कर्हिचित् ॥
संसृतेर्म्मुच्यते नैव सत्यमेतद्वचो मम ॥८॥
प्रवृत्तिं हिंस्रयज्ञादेरथ ते द्विजसत्तम ॥
कथयामि यथा पूर्वं मयाऽश्रावि पितुर्मुखात् ॥९॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
नारायणस्य माहात्म्यं यत्र लक्ष्म्याश्च कीर्तितम् ॥१०॥
मुनीनां बृहतां तेषामतिक्रमणदोषतः ॥
इन्द्रस्यासीद्विश्वजितः सद्बुद्धिविलयो मुने ॥११॥
दुर्वासाः शंकरस्यांशस्तपस्वी मुनिरेकदा ॥
चरन्यदृच्छया लोकान्पुष्पभद्रां नदीं ययौ ॥१२॥
जलक्रीडार्थमायांतीं स्वर्गात्तत्र सखीवृताम् ॥
विद्याधरस्य सुमतेरङ्गनां स समैक्षत ॥१३॥
स्वर्गङ्गाहेमकमलैर्ग्रथितामतिसौरभाम् ॥
दधतीं दक्षिणे पाणौ स्रजं मदकलाभिधाम् ॥१४॥
तामवेक्ष्य मुनिस्तस्याः समीपमुपगम्य सः ॥
उन्मत्तवद्ययाचे तां स्रजं विद्याधरीधृताम्॥१५॥
सापि प्रणम्य तं सद्यो माहात्म्यं तस्य जानती ॥
तत्कंठे धारयामास मालां तां परमादरात् ॥१६॥
ततः प्रीतमना गच्छन्गायन्नुन्मत्तवन्मुनिः ॥
ददर्श पथि देवेन्द्रमायान्तं तां महानदीम् ॥१७॥
अप्सरोभिश्च गन्धर्वैः सतालं मधुरस्वरम् ॥
उपगीयमानविजयमधिरूढं गजाधिपम् ॥१८॥
रम्भामधुरसंगीतश्रवणानन्दनिर्वृतम् ॥
तन्मुखाब्जस्थिरदृशं छत्रचामरशोभितम् ॥१९॥
अनवेक्षमाणमात्मानं तं दृष्ट्वा सोऽत्रिनन्दनः ॥
स्वकण्ठस्थां स्रजं तस्मिंश्चिक्षेपोन्मत्तवद्धसन् ॥२०॥
इन्द्रोप्यधर्मसर्गेण समाविष्टः पुरैव यत् ॥
ततस्तदा कामवशस्तां न्यधाद्गजकुम्भयोः ॥
तत्सौरभाकृष्टचेताः करीन्द्रः शुण्डयाऽकृषत् ॥२१॥
करात्सा पतिता भूमौ तां च गच्छन्करी पदा ॥
ममर्द्द पश्यतस्तस्य महर्षेस्तपसां निधेः ॥२२॥
ततः क्रुद्धः स दुर्वासाः प्रलयाग्न्यरुणेक्षणः ॥
प्राहेन्द्रं मत्त दुष्टात्मन्स्तब्धोसि कामलम्पट ॥२३॥
श्रियो धाम स्रजं प्रीत्या मद्दत्तां नाभिनन्दसि ॥
प्रणाममपि रे मूढ न करोषि त्वमुन्मदः ॥२४॥
न वीक्षसे मामपि त्वं त्वादृङ्मत्तैकशिक्षकम् ॥
त्रैलोक्यराज्यप्राप्तान्ध्यः सम्यक्त्वां शिक्षयेऽधुना ॥२५॥
यस्याः प्रसादात्त्रैलोक्यराज्यसौख्यं त्वमाप्तवान् ॥
सैव श्रीः सत्रिलोकं त्वां हित्वा लीनाऽस्तु सागरे ॥२६॥
वज्रपातोपमं वाक्यं तन्निशम्यैव तत्क्षणम् ॥
गजादुत्प्लुत्य विमदस्तदंघ्र्योर्न्यपतद्धरि ॥२७॥
प्रार्थयामास च मुहुः प्रणमंस्तं सवेपथुः ॥
प्रसादं मयि दासे त्वं कृपालो कर्तुमर्हसि ॥२८॥
तं प्राहाऽथ स रे शक्र नाहं वै गौतमो मुनिः ॥
अक्षमासारसर्वस्वं दुर्वाससमवेहि माम् ॥२९॥
अन्ये ते मुनयो दुष्टास्तावकास्तेऽनुवर्त्तिनः ॥
अहं तु त्वादृशान्कीटान्गणये नैव निःस्पृहः ॥३०॥
ज्वलज्जटाकलापाच्च भ्रुकुटीकुटिलेक्षणात् ॥
को वा न बिभियान्मत्तो ब्रह्माण्डे पापकर्मकृत् ॥३१॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये देवेन्द्रशापो नामाऽष्टमोऽध्यायः ॥८॥
N/A
References : N/A
Last Updated : November 12, 2024
TOP