वासुदेवमाहात्म्यम् - अध्याय २०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
भगवन्ब्रूहि मे धर्ममेकान्तं तव संमतम् ॥
प्रीयते येन विश्वात्मा वासुदेवः स सर्वदा ॥१॥
श्रीनारायण उवाच ॥
साधु पृष्टं त्वया ब्रह्मन्मतिस्ते विमला किल ॥
मयि स्निग्धाय भक्ताय तुभ्यं गुह्यमपि ब्रुवे ॥२॥
धर्म एष मया प्रोक्तः कल्पस्यादौ विवस्वते ॥
तमेव कथये तुभ्यं सनातनमहं मुने ॥३॥
स्वधर्मज्ञानवैराग्यैः सह लक्ष्मीवदीश्वरे ॥
तस्मिन्ननन्या भक्तिर्या धर्म एकान्तिकः स वै ॥४॥
तेनैवातिप्रसन्नः स्याद्गोलोकाधिपतिः स्वयम् ॥
जायते स च भक्तोपि परिपूर्णमनोरथः ॥५॥
॥ नारद उवाच ॥
लक्षणानि बुभुत्सामि स्वधर्मादेः पृथक्पृथक् ॥
शास्त्रयोनेरहं त्वत्तो वक्तुं तानि त्वमर्हसि ॥६॥
निगमागमशास्त्राणां सर्वेषामपि सत्पते ॥
मूलं त्वमेक एवासि येषु धर्मः सनातनः ॥७॥
त्वमेव साक्षाद्भगवान्वासुदेवोऽक्षरात्परः ॥
श्रेयसे सर्वभूतानां वर्तसेऽत्र दयानिधिः ॥८॥
त्वत्तोऽन्ये तु स्वस्वभावगुणतन्त्रा ह्यजादयः ॥
यथावन्न विजानीयुर्द्धर्मादींस्त्वमतो वद ॥९॥
स्कन्द उवाच ॥
इति देवर्षिणा पृष्टो भगवान्धर्मनन्दनः ॥
स्वधर्मादीन्क्रमेणैव कथयामास सर्ववित् ॥१०॥
श्रीनारायण उवाच ॥
वर्णानामाश्रमाणां च सदाचारः पृथक्पृथक् ॥
सामान्यः सविशेषश्च स्वधर्मः स उदीर्यते ॥११॥
नृणां साधारणं धर्मं सर्वेषामादितः शृणु ॥
अहिंसा परमो धर्मस्तत्रादिम उदाहृतः ॥१२॥
स्वमुख्यधर्मवृत्योरप्यद्रोहो मनसापि यः ॥
सति गत्यन्तरे प्राणिमात्रस्यापीति सा मता ॥१३॥
सत्या वाग्भूतमात्रस्य द्रोहो न स्याद्यया तथा ॥
तपश्च शास्त्रविहितभोगसंकोचलक्षणम् ॥१४॥
बाह्यमाभ्यन्तरं चेति द्विविधं शौचकर्म च ॥
अनादानं परस्वस्य परोक्षं वा छलेन च ॥१५॥
यथोचितं ब्रह्मचर्यकामलोभक्रुधां जयः ॥
मुदा वित्तार्पणं पात्रे तुष्टिर्लब्धेन दैवतः ॥१६॥
तीर्थे क्षेत्रे च यज्ञादौ चतुर्वर्गाप्तयेपि वा ॥
आत्मनो वा परस्यापि सर्वथा घातवर्जनम् ॥१७॥
जातिभ्रंशकराणां च कर्मणां परिवर्जनम् ॥
पाणिपादोदरोपस्थवाचां संयमनं तथा ॥१८॥
सर्वेषां व्यसनानां च वर्जनं मद्यमांसयोः ॥
व्यभिचारान्निवृत्तिश्च कुलसद्धर्मपालनम् ॥१९॥
एकादशीनां सर्वासां यमैः साकमुपोषणम् ॥
हरेर्जन्मदिनानां च व्रताचरणमञ्जसा ॥२०॥
आर्जवं साधुसेवा च विभज्याऽन्नादिभोजनम् ॥
भक्तिर्भगवतश्चेति धर्माः साधारणा नृणाम् ॥२१॥
ब्रह्मक्षत्रविशः शूद्रा वर्णाश्चत्वार ईरिताः ॥
तेषां पृथक्पृथग्धर्मान्विशेषान्वच्मि ते मुने ॥२२॥
शमो दमः क्षमा शौचमास्तिक्यं भक्तिरीशितुः ॥
तपो ज्ञानं च विज्ञानं विप्रधर्मः स्वभावजः ॥२३॥
शूरत्वं धैर्यमौदार्य बलं तेजः शरण्यता॥
गोविप्रसाधुरक्षेज्या धर्माः क्षत्रस्य कीर्त्तिताः ॥२४॥
राज्ञस्त्वेतेऽथ नीत्यैव प्रजानां परिपालनम् ॥
धर्मसंस्थापनं भूमौ धर्मा दण्डार्हदण्डनम् ॥२५॥
आस्तिक्यं दाननिष्ठा च साधुब्राह्मणसेवनम् ॥
अतुष्टिरर्थोपचये धर्मा वैश्यस्य चोद्यमः ॥२६॥
द्विजातीनां च देवानां सेवा निष्कपटं गवाम् ॥
विशेषधर्मः कथितः शूद्रस्य मुनिसत्तम ॥२७॥
अध्यापनं याजनं च विशुद्धाच्च प्रतिग्रहः ॥
विप्रस्य जीविका प्रोक्ता तत्रान्त्या त्वापदि स्मृता ॥२८॥
याजनेऽध्यापने वापि दोषदर्शी द्विजोत्तमः ॥
यस्तस्याऽन्यापि विहिता वृत्तिरस्ति चतुर्विधा ॥२९॥
शिलोञ्छ नित्ययाच्ञा च शालीनं चोचिता कृषिः ॥
श्रेयसी पूर्वपूर्वाऽत्र ज्ञातव्या द्विजसत्तमैः ॥३०॥
विप्रो जीवेद्वैश्यवृत्त्या सत्यामापदि नारद ॥
अथ वा क्षत्रवृत्त्यापि श्ववृत्त्या न तु कर्हिचित् ॥३१॥
शस्त्रेण जीवेत्क्षत्रं तु सर्वतो धर्मरक्षया ॥
आपन्नो वैश्यवृत्त्यैव विप्ररूपेण वा चरेत् ॥३२॥
करादानादिनृपतेरविप्राद्वृत्तिरीरिता ॥
देशकालानुसारेण रञ्जयित्वाऽखिलाः प्रजाः ॥३३॥
आपत्कालेपि क्षत्रस्य ब्राह्मणस्येव सर्वथा ॥
विगर्हिता नीचसेवा स्वतेजःक्षयकारिणी ॥३४॥
कृषिवाणिज्यगोरक्षा तुरीया वृद्धिजीवनम् ॥
वैश्यस्य जीविका प्रोक्ता शूद्रवृत्तिस्तथापदि ॥३५॥
शूद्रो जीवेद्द्विजातीनां सेवालब्धधनेन च ॥
आपत्काले तु कार्वादेर्जीविकावृत्तिमाश्रयेत् ॥३६॥
आपन्मुक्तस्तु सर्वोपि प्रायश्चित्तं यथोचितम् ॥
विधाय स्वस्ववृत्त्यैव पुनर्वर्त्तेत मुख्यया ॥३७॥
चातुर्वर्ण्यं सतां संगं कुर्यान्न त्वसतां क्वचित् ॥
मुक्तिप्रदोस्ति सत्संगः कुसंगो निरयप्रदः ॥३८॥
कामं क्रोधं रसास्वादं जित्वा मानं च मत्सरम् ॥
निर्दम्भं विष्णुभक्ता ये ते सन्तः साधवो मताः ॥३९॥
स्त्रियां स्त्रैणे रसास्वादे सक्ताश्च धनगृध्नवः ॥
हिंस्रा दम्भकृताटोपा भक्ताभासा ह्यसाधवः ॥४०॥
असाधुष्वासुरी संपद्दैवी संपत्तु साधुषु ॥
सहजास्तीति निश्चित्य सेव्या सन्तः सुखेप्सुभिः ॥४१॥
यादृशां यस्य संगः स्याच्छास्त्राणां वा नृणामपि ॥
बुद्धिः स्यात्तादृशी तस्य कार्योऽतो नासतां हि सः ॥४२॥
ये साधुसेवारुचयः पुरुषा निजशक्तितः ॥
अप्राप्यं नास्ति तेषां वै किमप्यैश्वर्यमूर्जितम् ॥४३॥
स्वधर्मस्था अपि सतां द्रोहिणो ये तु मानवाः ॥
सद्गतिं नैव ते यान्ति क्वापि केनापि कर्मणा ॥४४॥
महापूजारता विष्णोर्भक्ता अपि सतां यदि ॥
द्रोहं कुर्युस्तदा तेषु न प्रसीदति स क्वचित् ॥४५॥
सद्द्रोहिणस्तु देहान्ते यांयां योनिं ब्रजन्ति च ॥
तत्रतत्र क्षुधारोगैः पीड्यन्ते जीवितावधि ॥४६॥
सतामतिक्रमादेव पुण्यानां महतामपि ॥
सद्यः क्षयः स्यात्सर्वेषामायुषः संपदामपि ॥४७॥
तस्मात्सेवा सतां कार्या सर्वैरपि सुखेप्सुभिः ॥
पुण्यतीर्थानि सेव्यानि पूज्या विप्राश्च धेनवः ॥४८॥
तीर्थानि देवप्रतिमा निन्देयुर्ये कुबुद्धयः ॥
तेषां तु जारजातानां वंशोच्छेदो भवेद्ध्रुवम् ॥४९॥
एकस्मिंस्तर्पिते विप्रे सद्भोज्यैर्दक्षिणादिभिः ॥
तर्पितं स्याज्जगत्सर्वं हरिस्तुष्यति च स्वयम् ॥५०॥
एकस्मिन्ब्राह्मणे द्रुग्धे द्रुग्धं स्यात्सकलं जगत्॥
तस्माच्छक्त्या पूजनीया ब्राह्मणा विष्णुरूपिणः॥५१॥
गवामंगेषु तिष्ठन्ति सर्वे देवगणा अपि॥
तथा सर्वाणि तीर्थानि तासु तिष्ठन्ति सर्वदा ॥५२॥
गव्यर्च्चितायामेकस्यां सर्वे देवाः समर्च्चिताः ॥
कृतानि स्युश्च सर्वाणि तीर्थान्यपि च नारद ॥५३॥
एकस्या अपि गोर्द्रोहे कृते क्वापि प्रमादतः ॥
द्रुग्धाः स्युर्देवताः सर्वास्तीर्थान्यपि च कृत्स्नशः ॥५४॥
तस्माच्चातुर्वर्ण्य जनैर्यथोक्तविधिसंस्थितैः ॥
भवितव्यं प्रयत्नेन त्रेतव्यं च निषेधतः॥५५॥
चातुर्वर्ण्येतरे ये तु तेषां वृत्तिः कुलोचिता ॥
चौर्यहिंसाद्यधर्मेण रहितैव हितावहा ॥५६॥
वर्णधर्मा इति प्रोक्ताः संक्षेपेण मया मुने ॥
चतुर्णामाश्रमाणां च धर्मानथ वदामि ते ॥५७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये चातुर्वर्ण्यधर्मनिरूपणं नाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP