वासुदेवमाहात्म्यम् - अध्याय १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कन्द उवाच ॥
उत्प्रेक्षन्तो जायमानं मंथितारोऽथ तेऽखिलाः ॥
आयांतं ददृशुर्द्दूरादन्ति धन्वन्तरिं श्रियः ॥१॥
सुधाभृतं हेमकुम्भं दृष्ट्वा चाऽस्य करे धृतम् ॥
असुराः सहसा ब्रह्मन्नुत्प्लुत्य जगृहुश्च तम् ॥२॥
तत्रापि बलिनो ये ते गृहीत्वा दुद्रुवुस्ततः ॥
तान्दुर्बला न्यषेधन्त नीतिवाक्यैरनुद्रुताः ॥३॥
अहो नैवमधर्मो वः कार्यो धर्मपरायणैः ॥
समश्रमेभ्यो देवेभ्यो दत्त्वा पेयं न चान्यथा ॥४॥
अनादृत्येति तद्वाक्यं ययुर्दूरं त्वरान्विताः ॥
तत्रापि तेषामन्योन्यं कराकृष्टिर्महत्यभूत्॥५॥
अहं पूर्वमहं पूर्वं न त्वं न त्वं पिबाम्यहम् ॥
इत्थं विवदमानास्ते नापुस्तत्प्राशनक्षणम् ॥६॥
अथ देवा म्लानवक्त्रा दृष्ट्वा दैत्यैर्हृता सुधाम् ॥
अशक्तास्तत्प्रतीकारे शरणं प्रापुरच्युतम् ॥७॥
पाहिपाहि जगन्नाथ नष्टं सर्वस्वमेव नः ॥
दैत्यैर्हृता सुधा सर्वा का गतिर्न्नो भविष्यति ॥८॥
सुधापानादृतेप्येते हन्तुमस्मानलं क्षमाः ॥
पीतेऽमृते तु तैरद्य किं करिष्यामहे वयम् ॥९॥
स्कन्द उवाच ॥
निशम्य दैन्यं देवानां भगवान्भक्तकार्यकृत् ॥
मा भैष्टेति सुरानुक्त्वा सुधामादित्सदासुरात् ॥१०॥
स्त्रीरूपमद्भुतं धृत्वा सर्वलोकविमोहनम् ॥
दैत्यान्तिकमुपागत्य चक्रे कन्दुकखेलनम् ॥११॥
ते तु तद्रूपमालोक्य मोहिताः कामविह्वलाः ॥
त्यक्त्वा परस्परोन्मर्द्दं तामुपेत्याब्रुवन्वचः ॥१२॥
सुधाकुम्भमिमं भद्रे गृहीत्वा त्वं विभज्य नः ॥
सर्वान्पायय सुश्रोणि वयं कश्यपसूनवः ॥१३॥
इत्युक्त्वा तं ददुस्तस्मै तेऽनिच्छन्त्या अपि स्त्रियै ॥
सा प्राह मम विश्रम्भो न कार्यः स्वैरिणी ह्यहम् ॥१४॥
अकार्यं वः कृतं ह्येतद्विभजिष्ये निजेच्छया॥
इत्युक्ता अपि ते मूढा यथेष्टं कुर्विति ब्रुवन्॥१५॥
ततस्तदाज्ञया सर्वे देवा दैत्याश्च वासुकिः ॥
निषेदुः पंक्तिशस्तत्र स्वस्वमण्डलमाश्रिताः ॥१६॥
पंक्तिबंधोद्यतेष्वेषु मोहिनी सा तु दूरतः ॥
सम्मुखं देवपंक्तीनां हेमासन उपाविशत् ॥१७॥
स्वांतिके चामृतघटं निधाय स्त्रैणलीलया ॥
इतस्ततो वीक्षमाणा तस्थौ निःस्पृहवत्क्षणम् ॥१८॥
विप्रचित्तिमुखास्तर्हि ये वै दानवयूथपाः ॥
संदिग्धचित्ता मोहिन्यामासन्देवांतिकस्थितेः ॥१९॥
शनैरुपेत्य तद्दृष्टिं वञ्चयित्वा सुधाघटम् ॥
जह्रुः पुनर्दुरात्मानो रहो गत्वा पिपासवः ॥२०॥
नरनारायणौ तत्र मुनिभिः सह चागतौ ॥
आस्तां तौ ददृशाते तान्दानवान्हरतोऽमृतम् ॥२१॥
नारायणेनेरितोऽथ नरस्तान्सहसारुणत् ॥
बलादाच्छिद्य तत्कुम्भं मोहिन्यै स ददौ द्रुतम् ॥२२॥
ततो नरं हन्तुकामा आत्तशस्त्रास्तु दानवाः ॥
आपतन्पंक्तिविक्षेपो ह्यसुराणामभून्महान् ॥२३॥
तदा नरोपि भगवान्देवदैत्यनरैरपि ॥
अजेयो निर्भयो ह्येकः साकं तैर्युयुधे बली ॥२४॥
एतस्मिन्नन्तरे देवान्पंक्तिस्थान्मोहिनीवपुः ॥
अपाययत्सुधां विष्णुः सर्वशो लघुचङ्क्रमः ॥२५॥
तत्रापि दानवो राहुः सूर्याचन्द्रमसान्तरे ॥
प्रविश्य देवतापंक्तावुपाविशदलक्षितः ॥२६॥
तत्रागतायां मोहिन्यां सिञ्चन्त्यां तन्मुखे सुधाम् ॥
दृशाऽसूसुचतां तस्यै पुष्पवन्तावुभौ च तम् ॥२७॥
स्मृत्यागतेन चक्रेण तर्ह्येवाऽस्य च सामृतम् ॥
शिरश्चिच्छेदातिमहन्मायायोषिद्वपुः प्रभुः ॥२८॥
तच्छैलशृङ्गप्रतिमं ग्रसल्लोकान्नदद्भृशम् ॥
ग्रहत्वे स्थापयामास लोकानां शान्तये हरिः ॥२९॥
देवान्सुधां पाययित्वा जगृहे पौरुषीं तनुम् ॥
भगवानथ देवास्तु युयुधुः सह दानवैः ॥३०॥
उदन्वतस्तटे युद्धं देवानामसुरैः सह ॥
सुधापानातिबलिनामासीद्विष्णुसहायिनाम् ॥३१॥
तस्मिंस्तु तुमुले युद्धे नरेणेन्द्रादिभिश्च ते ॥
निहन्यमाना असुराः पलाय्य विविशू रसाम् ॥३२॥
सूर्यश्चास्तं गतस्तावत्सर्वे देवगणास्ततः ॥
श्रियोन्तिकमुपाजग्मुस्तद्दर्शनमहोत्सवाः ॥३३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये देवतामृतपानवर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP