वासुदेवमाहात्म्यम् - अध्याय १२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कन्द उवाच ॥
ततो हृष्टाः काश्यपेया मन्थस्थानमुपेत्य ते ॥
पुनर्वर्षसहस्रं च मन्थन्ति स्म पयोनिधिम् ॥१॥
मथ्यमानात्तथा सिन्धोः सर्वेस्तैरपि किञ्चन ॥
नासीच्च शिथिला आसन्मंथितारः श्वसन्मुखाः ॥२॥
वासुकिश्च महासर्पः प्राणवैक्लव्यमाप्तवान् ॥
मन्थकाले मन्दरोपि नैकत्रासीत्स्थिरस्थितिः ॥३॥
सर्वान्दृष्ट्वा निरुत्साहान्प्रद्युम्नो विण्वनुज्ञया ॥
देवासुराहिराजेषु प्रविश्य बलमादधौ ॥४॥
अनिरुद्धोपि तर्ह्येव तमाक्रम्य नगाधिपम्॥
सहस्रबाहुभिस्तस्थौ महाचल इवाऽपरः ॥५॥
ततो ममन्थुस्तरसा संप्राप्तपरमोजसः ॥
सविस्मया महाब्धिं ते सुरासुरगणा मुदा ॥६॥
नारायणानुभावेन नापुर्द्देवादयः श्रमम् ॥
शुशुभे मन्थनं तच्च सममाकर्षणात्तदा ॥७॥
मथ्यमाने महाम्भोधौ सुस्रुवुः परितस्तदा ॥
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥८॥
तथाभूतादम्बुनिधेराविरासीत्कलानिधिः ॥
कान्त्यौषधीनामध्यक्षः सर्वासां य उदीर्यते ॥९॥
ततो गवामधिष्ठात्री सर्वासामपि कामधुक् ॥
हविर्द्धान्यभवद्धेनुः शीतांशुसदृशद्युतिः ॥१०॥
अश्वः श्वेतोऽथाविरासीद्धयानामधिदेवता ॥
ऐरावतश्च नागेन्द्रश्चतुर्द्दन्तः शशिप्रभः ॥११॥
पारिजातो दिव्यतरुस्तरुराजस्ततोऽभवत् ॥
मणिरत्नं कौस्तुभाख्यं पद्मरागमभूत्ततः ॥१२॥
ततोऽभवन्नप्सरसो रूपलावण्यभूमयः ॥
सुरा देवी ततो जज्ञे सर्वमादकदेवता ॥१३॥
आसीदथ धनुः शार्ङ्गं सर्वशस्त्राधिदैवतम् ॥
वाद्याधिदैवतं शंखः पाञ्चजन्यस्ततोऽभवत् ॥१४॥
तत्र चन्द्रः पारिजातस्तथैवाप्सरसां गणः ॥
आदित्यपथमाश्रित्य तस्थुरेते तु तत्क्षणम् ॥१५॥
वारुणीमश्वराजं च दैत्येशा जगृहुर्द्रुतम् ॥
ऐरावतं देवराजो जग्राहानुमताद्धरेः ॥१६॥
कौस्तुभश्च धनुः शंखो विष्णुमेव प्रपेदिरे ॥
हविर्द्धानीं तु ते सर्वे तापसेभ्यो ददुस्तदा ॥१७॥
मथ्यमानात्पुनः सिन्धोः साक्षाच्छ्रीरभवत्स्वयम् ॥
आनन्दयन्ती स्वदृशा त्रिलोकीं हतवर्चसम् ॥१८॥
तां ग्रहीतुं तु सर्वेपि सुरासुरनरादयः ॥
ऐच्छंस्तस्याः प्रतापात्तु शेकेन्त्येतुं न कश्चन ॥१९॥
ततस्तां पद्महस्तत्वाच्छ्रीं विदित्वैव वासवः ॥
आनन्दं परमं प्राप ब्रह्माद्या ये च तद्विदः ॥२०॥
तावत्तत्राम्बुधिः साक्षादेत्य तां हैम आसने॥
कन्या ममेयमित्युक्त्वा गृहीत्वाङ्क उपाविशत्॥२१॥
पुनरब्धेर्मथ्यमानादधिकं बलिभिश्च तैः ॥
सुधार्थिभिर्द्धैर्यवद्भिरपि नैवाभवत्सुधा ॥२२॥
तदा शिथिलयत्नास्ते निराशा अमृतोद्भवे ॥
प्रम्लानवक्त्राः खिन्नाश्च बभूवुः काश्यपा मुने ॥२३॥
दृष्ट्वा तथाविधांस्तांश्च भगवान्करुणानिधिः ॥
उद्युक्तोभूत्स्वयं ब्रह्मन्मन्थनाय हसन्विभुः ॥२४॥
रत्नकाञ्चीदृढाबद्धकक्षपीताम्बरद्युतिः ॥
द्वाभ्यां द्वाभ्यामहिं मध्ये दोर्भ्यामुभयतोग्रहीत् ॥२५॥
धृताहिवदना दैत्यास्तस्थुरेकत एव ते ॥
एकतो धृततत्पुच्छा देवास्तस्थुस्तदाखिलाः ॥२६॥
तन्मध्यगश्च भगवान्ममन्थाब्धिं स लीलया ॥
ददानो नयनानन्द चञ्चत्करविभूषणः ॥२७॥
ब्रह्मा सहर्षिप्रवरैरन्तरिक्षस्थितस्तदा ॥
अवाकिरत्तं कुसुमैः कुर्वञ्जयजयध्वनिम् ॥२८॥
मथ्यमानात्ततः सिन्धोर्ज्जज्ञे धन्वन्तरिः पुमान् ॥
विष्णोरंशेन गौरांगः सुधाकुम्भं करे दधत् ॥२९॥
घृतादीनां हि सर्वेषां रसानां सारमुत्तमम् ॥
अमृतं तद्गृहीत्वाऽसौ श्रियोन्तिकमुपाययौ ॥३०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्येऽमृतमन्थने चतुर्दशरत्नोत्पत्तिर्नाम द्वादशोऽध्यायः ॥१२॥
N/A
References : N/A
Last Updated : November 12, 2024
TOP