वासुदेवमाहात्म्यम् - अध्याय ११

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कन्द उवाच ॥
ब्रह्मरुद्रौ महेन्द्रादीन्संधानायाऽसुरैः सह॥
आज्ञाप्य जग्मतुः स्वंस्वं धाम देवा रसां मुने ॥१॥
समयोचितभाषाविद्वासवो नीतियुक्तिभिः ॥
प्रलोभ्य फलभागेन सन्धिं चक्रेऽसुरैः सह ॥२॥
ततो देवासुरगणा मिलिता वारिधेस्तटे ॥
महौषधीरुपानीय बहुशो निदधुर्द्रुतम् ॥३॥
मन्दराद्रिमुपेत्याऽथ नानौषधिविराजितम् ॥
मूलादुत्पाट्य ते सर्वे नेतुमब्धिं समुद्यताः ॥४॥
एकादशसहस्राणि योजनानां भुवि स्थितम् ॥
नोद्धर्तुमशकंस्ते तं तदानीं तुष्टुवुर्हरिम् ॥५॥
एतद्विदित्वा भगवान्संकर्षणमहीश्वरम् ॥
अजिज्ञपत्तमुद्धर्तुं बद्धमूलं महीधरम् ॥६॥
फूत्कारमात्रेणैकेन स तु सद्यस्तमीश्वरः ॥
बहिश्चिक्षेप तत्स्थानाद्योजनद्वितयान्तरे ॥७॥
अत्याश्चर्यं तदालोक्य हृष्टाः सर्वे सुरासुराः ॥
तदन्तिकमुपाजग्मुर्द्धावन्तश्च कृतारवाः ॥८॥
बलिनो यत्नवन्तोपि परिघोपमबाहवः ॥
उद्धृत्य नेतुं नो शेकुर्विषण्णा विफलश्रमाः ॥९॥
ज्ञात्वा सुरगणान्खिन्नान्भगवान्सर्वदर्शनः ॥
तार्क्ष्यमाज्ञापयामास नेतुं तमुदधिं द्रुतम् ॥१०॥
सहावरणमप्यण्डं लीलया धर्त्तुमीश्वरः ॥
मनोवेगः स तत्रेत्य निजत्रोट्यैव तं गिरिम् ॥
उत्पाट्य सागरतटे निधाय हरिमाययौ ॥११॥
ततः संहृष्टमनसः सर्वे कश्यपनन्दनाः ॥
वासुकिं चाह्वयामासुः सुधाभागप्रतिज्ञया ॥१२॥
स तत्रागादथो सर्वे तेऽब्धिं मन्थितुमुद्यताः ॥
तानपान्निधिरागत्य मूर्त्तिमानब्रवीद्वचः ॥१३॥
यदि दास्यथ मे यूयममृतांशं सुरासुराः ॥
सोढास्मि विपुलं तर्हि मन्दरभ्रमणार्द्दनम् ॥१४॥
तथेति ते प्रतिज्ञाय क्षिप्त्वादावोषधीलताः ॥
परिविव्युर्न्नागराजं तस्मिन्काञ्चनपर्वते ॥१५॥
ततो देवा हृदि हरिं सस्मरुः कार्यसिद्धये ॥
स्मृतमात्रः स तत्राऽगादच्युतः सर्वदर्शनः ॥१६॥
तमालोक्यामरगणा मुदिताः फणिनां पतेः ॥
पुरोभागं गृहीत्वैव तस्थुस्तेनानुमोदिताः ॥१७॥
देवतापक्षपातित्वं सूचयन्स्वस्य च प्रभुः ॥
यत्र देवास्तत्र तस्थौ ततो दैत्यास्तु चुक्रुधुः ॥१८॥
तपोविद्यावयोज्येष्ठा अधोभागममङ्गलम् ॥
कथं तिरश्चो गृह्णीमो नेदृङ्मूर्खा वयं त्विति ॥१९॥
सह देवैस्ततो विष्णुः स्वयं तान्मानयन्निव ॥
प्रहस्य दत्त्वा प्राग्भागं सुरान्पुच्छमजिग्रहत् ॥२०॥
महाहिविषफूत्कारदाहादमररक्षणम् ॥
चरित्रमेतच्छ्रीभर्तुरिति दैत्या न ते विदुः ॥२१॥
तत उत्तोलयामासुः स्वर्णसान्वालिभास्वरम् ॥
मन्दरं काश्यपेयास्ते चर्मिकाबद्धकच्छकाः ॥२२॥
द्वाविंशतिसहस्राणि योजनानां तमुच्छ्रितम् ॥
अम्भोनिधौ निदधिरे क्रोशन्तोत्यर्थमुत्सुकाः ॥२३॥
धार्यमाणोप्यनाधारस्तैरद्रिरतिगौरवात् ॥
ययावधस्तलं सद्यस्तदासंस्तेऽतिविह्वलाः ॥२४॥
तदा स भगवान्साक्षात्सर्वथा भक्तकार्यकृत् ॥
स्तूयमानोमरैरद्रिमुद्दघ्रे कमठाकृतिः ॥२५॥
उत्थितं तमवेक्ष्याशु सर्वे फुल्लहृदाननाः ॥
बभूवुश्च स्थिरः सोऽभूत्कूर्मपृष्ठेतिविस्तृते ॥२६॥
ततो ममन्थुस्तरसा यावद्बलमपांनिधिम् ॥
श्रमफूत्कारवदना देवादयोऽदयम् ॥२७॥
भ्राम्यमाणात्ततस्त्वद्रेर्बहवोन्यपतन्दुमाः ॥
ऊर्द्ध्वद्रुघर्षजो वह्निस्तत्स्थ सिंहादिमादहत् ॥२८॥
तत्र नाना जलचरा विनिपिष्टा महाद्रिणा ॥
विलयं समुपाजग्मुः शतशः क्षीरवारिधौ ॥२९॥
सांवर्त्तकमहामेघसङ्घगर्ज्जितवन्महान् ॥
आसीन्मंथननादश्च प्रतिध्वनिविवर्द्धितः ॥३०॥
अत्याकर्षणखिन्नाङ्गवासुकर्म्मुखकृत्कृतैः ॥
हतौजसोऽतिखिन्नाश्च दैत्या निङ्गालवद्बभुः ॥३१॥
अविषह्यं विषाग्निं च मर्षन्ति बहुधा मुहुः ॥
लम्बन्ते स्माहिराजस्य सहस्रं वदनान्यधः ॥३२॥
दधार सहसा तानि भगवन्प्रेरितो विभुः ॥
संकर्षणो महातेजाः सहमानो विषानलम् ॥३३॥
सहस्रमेकं वर्षाणां मथ्यमानात्पयोनिधेः ॥
हालाहलं विषमभूदुत्सर्पद्विदिशो दिशः ॥३४॥
यदाहुः कालकूटाख्यं सर्वलोकातिदाहकम् ॥
तेन दन्दह्यमानाङ्गास्ते तु चक्रुः पलायनम् ॥३५॥
ततो ब्रह्मा प्रजेशाश्च देवाः सर्वेप्युमापतिम् ॥
प्रार्थयंस्तस्य पानार्थं स्तुवन्तः स्तुतिभिर्मुने ॥३६॥
भगवानथ तं प्राह सुराणामग्रजो भवान् ॥
भवतीत्यग्रजं वार्द्धेर्गृहाणेदं विषं शिव ॥३७॥
देवानां स भयं दृष्ट्वा करुणश्चाज्ञया हरेः ॥
आकर्षद्योगकलया विषं पाणितलेऽखिलम् ॥३८॥
पपौ तत्कण्ठमध्ये च शोषयामास तत्क्षणम् ॥
नीलकण्ठ इति ख्यातः शंकराख्यश्च पऽभवत्॥ ३९॥
पास्यतस्तस्य पाणेर्ये पतिता भुविबिन्दवः ॥
तान्नागा वृश्चिकाद्याश्च जगृहुः काश्चनौषधीः ॥४०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्येऽमृतमन्थने विषोत्पत्तिर्नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP