वासुदेवमाहात्म्यम् - अध्याय १८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीभगवानुवाच ॥
दर्शनं मम यज्जातं तव तत्तु महामुने ॥
नित्यैकान्तिकभक्तत्वान्निर्दम्भत्वान्मदिच्छया ॥१॥
अहिंसा ब्रह्मचर्यं च त्वयि नित्यं च तद्द्वयम् ॥
स्वधर्मोपशमौ चैव वैराग्यं चात्मवेदनम् ॥२॥
सत्सङ्गोऽष्टाङ्गयोगश्च सर्वथेन्द्रियनिग्रहः ॥
मुन्यन्नवृत्तिश्च तपः सर्वव्यसनहीनता ॥३॥
मदेकान्तिकभक्तिश्च महात्म्यज्ञानपूर्विका ॥
वर्त्तते तेन मामत्र पश्यसि त्वं हि सुव्रत ॥४॥
ईदृग्लक्षणसंपन्ना ये स्युरन्येपि मानवाः ॥
तेपि मामीदृशं विप्र पश्यन्त्येकान्तिकप्रियम् ॥५॥
असावहमिह ब्रह्मन्नस्मिन्नक्षरधामनि ॥
राधालक्ष्मीयुतो नित्यं वसामि स्वाश्रितैः सह ॥६॥
वासुदेवस्वरूपोहं सर्वकर्मफलप्रदः ॥
अन्तर्यामितया वर्त्ते स्वतन्त्रः सर्वदेहिनाम् ॥७॥
वैकुण्ठाख्यं महाधाम्नि लक्ष्म्या सह चतुर्भुजः ॥
वसामि नन्दगरुडमुख्यैः साकं च पार्षदैः ॥८॥
धाम्नि तेजोमये दिव्ये श्वेतद्वीपेऽन्वहं भुवि ॥
ददामि श्वेतमुक्तेभ्यः पञ्चकालं स्वदर्शनम् ॥९॥
कुर्वेऽनिरुद्धप्रद्युम्नसंकर्षणसमाह्वयैः ॥
स्वरूपैर्नैककोट्यण्डसर्गस्थित्यप्ययानहम् ॥१०॥
सर्गारम्भे मया ब्रह्मा सृष्टो नाभिसरोरुहात् ॥
तपसाराधयामास स मां यज्ञैश्च नारद ॥११॥
ततस्तस्मै प्रसन्नोऽहं प्राददामीप्सितान्वरान् ॥
ब्रह्मन्प्रास्यसि सामर्थ्यं प्रजानां त्वं विसर्जने ॥१२॥
आज्ञायामेव ताः सर्वास्तव स्थास्यन्ति मद्वरात् ॥
वेदाश्चापि स्फुरिष्यन्ति तव बुद्धौ सनातनाः ॥१३॥
ज्ञानं च मत्स्वरूपस्य यथावत्ते भविष्यति ॥
त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन ॥१४॥
सुरासुरगणानां च मुनीनां च महात्मनाम् ॥
त्वमेव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि ॥१५॥
असाध्ये यत्र कार्ये च मोहमेष्यसि तत्त्वहम्॥
प्रादुर्भूय करिष्यमि स्मृतमात्रस्त्वया विधे ॥१६॥
सृज्यमाने त्वया विश्वे नष्टां पृथ्वीं महार्णवे ॥
आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ॥
हिरण्याक्षं निहत्यैव दैतेयं बलगर्वितम् ॥१७॥
दिनान्ते तव मत्स्योहं भूत्वा क्षोणीं तरीमिव ॥
सहौषधिं धारयिष्ये मन्वादींश्च निशावधि ॥१८॥
सुधायै मथ्नतामब्धिं काश्यपानां निराश्रयम् ॥
मन्थानं कूर्मरूपोहं धास्ये पृष्ठे च मन्दरम् ॥१९॥
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं विधे ॥
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ॥२०॥
विरोचनस्य बलवान्बलिः पुत्रो महासुरः ॥
भविष्यति स शक्रं च स्वाराज्याच्च्यावयिष्यति ॥२१॥
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ ॥
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात् ॥२२॥
ततो राज्यं प्रदास्यामि देवेन्द्राय दिवः पुनः ॥
देवताः स्थापयिष्यामि स्वेषु स्थानेष्वहं विधे ॥
बलिं चैव करिष्यामि पातालतलवासिनम् ॥२३॥
कर्दमाद्देवहूत्यां च भूत्वाऽथ कपिलाभिधः ॥
प्रवर्तयिष्ये कालेन नष्टं सांख्यं विरागयुक् ॥२४॥
दत्तो भूत्याऽनसूययामत्रेरान्विक्षिकीं ततः ॥
प्रह्लादायोपदेक्ष्यामि विद्यां च यदवे विधे ॥२५॥
मेरुदेव्यां सुतो नाभेर्भूत्वाहमृषभो भुवि ॥
धर्मं पारमहंस्याख्यं वर्तयिष्ये सनातनम् ॥२६॥
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः ॥
क्षत्रं चोत्सादयिष्यामि भग्नसेतुकदध्वगम्॥२७॥
सन्धौ तु समनुप्राप्ते त्रेताया द्वापरस्य च ॥
कौशल्यायां भविष्यामि रामो दशरथादहम् ॥२८॥
सीताभिधाना लक्ष्मीश्च भवित्री जनकात्मजा ॥
उद्वहिष्यामि तामैशं भंक्त्वा धनुरहं महत् ॥२९॥
ततो रक्षःपतिं घोरं देवर्षिद्रोहकारिणम् ॥
सीतापहारिणं संख्ये हनिष्यामि सहानुजम् ॥३०॥
तस्य मे तु चरित्राणि वाल्मीक्याद्या महर्षयः ॥
तदा गास्यन्ति बहुधा यच्छ्रुतेः स्यादघक्षयः ॥३१॥
द्वापरस्य कलेश्चैव सन्धौ पर्यवसानिके ॥
भूभारासुरनाशार्थं पातुं धर्मं च धार्मिकान् ॥
वसुदेवाद्भविष्यामि देवक्यां मथुरापुरे ॥३२॥
कृष्णोहं वासुदेवाख्यस्तथा संकर्षणो बलः ॥
प्रद्युम्नश्चाऽनिरुद्धश्च भविष्यन्ति यदोः कुले ॥३३॥
गोपस्य वृषभानोस्तु सुता राधा भविष्यति ॥
वृन्दावने तया साकं विहरिष्यामि पद्मज ॥३४॥
लक्ष्मीश्च भीष्मकसुता रुक्मिण्याख्या भविष्यति ॥
उद्वहिष्यामि राजन्यान्युद्धे निर्जित्य तामहम् ॥३५॥
धर्मद्रुहोऽसुरान्हत्वा तदाविष्टांश्च भूपतीन् ॥
धर्मं संस्थापयन्नेव करिष्ये निर्भरां भुवम् ॥३६॥
येन केनापि भावेन यस्य कस्यापि मानसम् ॥
मयि संयोक्ष्यते तंतं नेष्ये ब्रह्मगतिं पराम् ॥३७॥
धर्मं भुवि स्थापयित्वा कृत्वा यदुकुलक्षयम् ॥
पश्यतां सर्वदेवानामन्तर्द्धास्ये भुवस्ततः ॥३८॥
कृष्णस्य मम वीर्याणि कृष्णद्वैपायनादयः ॥
गास्यन्ति बहुधा ब्रह्मन्सद्यः पापहराणि हि ॥३९॥
कृष्णद्वैपायनो भूत्वा पराशरमुनेः सुतः ॥
शाखाविभागं वेदस्य करिष्यामि तरोरिव ॥४०॥
वैदिकं विधिमाश्रित्य त्रिलोकीपरिपीडकान् ॥
छलेन मोहयिष्यामि भूत्वा बुद्धोऽसुरानहम् ॥४१॥
मया कृष्णेन निहताः सार्जुनेन रणेषु ये ॥
प्रवर्तयिष्यन्त्यसुरास्ते त्वधर्मं यदा क्षितौ ॥४२॥
धर्मदेवात्तदा भक्तादहं नारायणो मुनिः॥
जनिष्ये कोशले देशे भूमौ हि सामगो द्विजः॥४३॥
मुनिशापान्नृतां प्राप्तानृषींस्तात तथोद्धवम्॥
ततोऽवितासुरेभ्योऽहं सद्धर्मं स्थापयन्नज॥४४॥
जनान्म्लेच्छमयान्भूमौ कलेरन्ते महैनसः ॥
कल्की भूत्वा हनिष्यामि विचरन्दिव्यवाजिना ॥४५॥
यदा यदा च वेदोक्तो धर्मो नाशिष्यतेऽसुरैः॥
प्रादुर्भावो भविष्यो मे तद्रक्षायै तदा तदा ॥४६॥
तस्माच्चिन्तां विहायैव प्रजाः सृज यथा पुरा ॥
एतान्दत्त्वा वरांस्तस्मा अहमन्तर्हितोऽभवम् ॥४७॥
यथा तस्मै वरा दत्तास्तथैव च मया कृतम् ॥
कुर्वे करिष्ये च मुने निजशक्तिभिरञ्जसा ॥४८॥
एवंविधस्य मे ब्रह्मन्नीशितुः सर्वदेहिनाम् ॥
दर्शनं दुर्लभं जातं तवैकान्तिकभक्तितः ॥४९॥
वरं वरय मत्तस्त्वं स्वाभीष्टं मुनिसत्तम ॥
प्रसन्नोस्मि भृशं तुभ्यं नाफलं मम दर्शनम्॥५०॥
स्कन्द उवाच ॥
श्रुत्वेति भगवद्वाक्यं नारदो मुनिसत्तमः ॥
मन्यमानो निजं धन्यं तमुवाच प्रभुं मुने॥५१॥
दर्शनादेव ते स्वामिन्संपूर्णो मे मनोरथः ॥
इदं हि दुर्लभं मन्ये सर्वेषामपि देहिनाम् ॥५२॥
अतस्ते च त्वदीयानां त्वद्धाम्नोस्याऽमृतस्य च ॥
साक्षात्समीक्षणादन्यत्प्राप्यं मे नास्ति वांछितम् ॥५३॥
इतोन्यद्दुर्लभं क्वापि नास्ति ब्रह्माण्डगोलके ॥
यदहं परितुष्टात्ते प्रार्थयेयमिहाच्युत ॥५४॥
लोकान्तरसुखं यत्तद्वैदिकैरेव कर्मभिः ॥
दैवैः पित्र्यैश्च लभ्येत तच्चाप्यस्ति हि नश्वरम् ॥५५॥
नेच्छामि तदहं किञ्चित्सुखं त्वत्तः परं प्रभो ॥
वरमेकं तु याचे त्वत्स्वेप्सितं वरदर्षभात् ॥५६॥
तवाऽथ तव भक्तानां सदैव गुणगायने ॥
अत्युत्सुकास्तु मे बुद्धिस्त्वयि प्रीतिविवर्द्धिनी ॥५७॥
॥ स्कन्द उवाच ॥
तथास्त्विति प्रतिश्रुत्य कृष्णस्तेनेति याचितम् ॥
गानोपयुक्तां महतीं वीणां दत्त्वाऽब्रवीत्पुनः ॥५८॥
श्रीभगवानुवाच ॥
अधुना गच्छ देवर्षे विशालां बदरीमितः ॥
तत्र धर्मात्मजं भक्त्या मामाराधय सुव्रत ॥५९॥
त्वं ह्येकान्तिकभक्तोसि मम निष्कपटान्तरः ॥
तेन त्वामधिकं मन्ये विधेरपि पितुस्तव ॥६०॥
यादृशोऽहं च यद्रूपो यावांश्च महिमा मम ॥
विदुस्तत्सर्वमपि मे भक्ता एकान्तिका मुने ॥६१॥
हृदि चिन्त्योहमेवास्मि सतां तेषां च ते मम ॥
तेषामिष्टं न मत्तोऽन्यन्मम तेभ्यो न किञ्चन ॥६२॥
यथा पतिव्रता नार्यो वशीकुर्वन्ति सत्पतिम् ॥
निजैर्गुणैस्तथा भक्ता वशीकुर्वन्ति मामपि ॥६३॥
अनुयामि श्रिया साकं तानहं परवानिव ॥
यत्रयत्र च ते सन्ति तत्रतत्राहमस्मि हि ॥६४॥
सत्संगादेव मत्प्राप्तिर्भवेद्भुवि मुमुक्षताम् ॥
नान्योपायेन देवर्षे सत्यमित्यवधारय ॥६५॥
मामेव यर्हि शरणं मानुषाः प्राप्नुवन्ति ये ॥
तर्ह्येव ते विमुच्यन्ते मायाया जीवबन्धनात् ॥६६॥
मां प्रपन्नस्तु पुरुषो येन केनापि भावतः ॥
यथेष्टं सुखमाप्नोति न तु संसृतिमन्यवत् ॥६७॥
स्कन्द उवाच ॥
एवमुक्तो भगवता प्राप्तोऽनुग्रहमीप्सितम् ॥
प्रणम्य साश्रुनयनः पर्यावर्तत नारदः ॥६८॥
तमेव वीणया गायञ्छ्वेतमुक्तमपश्यत ॥
प्राग्वत्स्वाग्रे चलन्तं तमन्वगच्छद् द्विजर्षभ ॥६९॥
सद्यः श्वेतं महाद्वीपं प्राप्य श्वेतान्प्रणम्य तान् ॥
निवृत्तो नारदो ब्रह्मंस्तरसा मेरुमागमत् ॥७०॥
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् ॥
निपपात च खात्तूर्णं विशालां बदरीमनु ॥७१॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवावतारादिकथनंनामाऽष्टादशोऽध्यायः ॥१८॥
N/A
References : N/A
Last Updated : November 12, 2024
TOP