वासुदेवमाहात्म्यम् - अध्याय १

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अथ श्रीवासुदेवमाहात्म्यं प्रारभ्यते ॥

॥ शौनक उवाच ॥
जीवानां श्रेयसे सौते बहुधा साधनानि ते ॥
धर्मो ज्ञानं च वैराग्यं योगादीन्युदितानि नः ॥१॥
इतिहासैर्बहुविधैर्विस्पष्टार्थानि तानि च ॥
सर्वाण्यपि महाबुद्धे श्रुतान्यस्माभिरादरात् ॥२॥
सर्वेषां मनुजानां तु दुष्कराण्येव तानि तु ॥
बाहुल्याच्चान्तरायाणां तत्सिद्धिरपि दुर्ल्लभा ॥३॥
प्रयत्नेनाति महता पुरुषैद्धेंर्य्यशालिभिः ॥
साधितान्यपि सिध्यन्ति तानि कालेन भूयसा ॥४॥
अतो भवान्द्विजातीनामाश्रमाणां च सर्वशः ॥
ब्रवीतु सुकरोपायं स्त्रीशूद्रादेरपीह नः ॥५॥
कृतेन येनाप्यल्पेन येन केनापि देहिना ॥
अन्तरायैरविहतं महदेव फलं भवेत् ॥६॥
मोक्षस्य साधनं तादृक्सुविचार्य्य महामते ॥
हिताय सर्वजीवानां कृपया वक्तुमर्हसि ॥७॥
प्रसादाद्बलदेवस्य व्यासस्य जनकस्य च ॥
जानासि सर्वमेव त्वं तन्नो ब्रूहि बुभुत्सतः ॥८॥
सौतिरुवाच ॥
महर्षिरपि सावर्णिरेवमेव हि शौनक ॥
विनीतः स्कन्दमप्राक्षीत्पुनः शङ्करनन्दनम् ॥९॥
सावर्णिरुवाच ॥
श्रुता नानाविधा धर्म्माः साङ्ख्यज्ञानं च नैकधा ॥
योगादीनि त्वदुक्तानि साधनानि मया गुह ॥१०॥
सुदुष्कराणि मन्येऽहं तानि त्वस्मादृशां किल ॥
महतामपि चान्येषां कृच्छ्रसाध्यानि वै चिरात् ॥११॥
अतो वर्णाश्रमवतां श्रेयस्कृत्सुकरं च यत् ॥
साधनं तच्छ्रेष्ठतमं वक्तुमर्हसि मेऽधुना ॥१२॥
सौतिरुवाच ॥
इति पृष्टो मुनीन्द्रेण तेन जिज्ञासुना गुहः ॥
वासुदेवं हृदि ध्यायन्कार्त्तिकेयः स ऊचिवान् ॥१३॥
स्कन्द उवाच ॥शृणु ब्रह्मन्प्रवक्ष्येऽहं श्रुतं पितृमुखान्मया ॥
सर्वेषामपि जीवानां सुकरं मोक्षसाधनम् ॥१४॥
देवताप्रीणनसमं स्वेष्टसिद्धिमभीप्सताम् ॥
नास्त्यन्यसाधनं किञ्चिद्वर्णाश्रमवतामिह ॥१५॥
अप्यल्पं सुकृतं कर्म्म देवसंबन्धतः कृतम् ॥
फलं ददाति निर्विघ्नं महदेव हि तन्नृणाम् ॥१६॥
दैवं पित्र्यं स्वधर्म्मश्च काम्यं कर्म्मापि यच्च तत् ॥
देवतायास्तु संबन्धात्सद्यः स्यादिष्टसिद्धिदम् ॥१७॥
साङ्ख्ययोग विरागादि प्रागुक्तं यच्च दुष्करम् ॥
तदपि स्याद्धि सुकरमनेनैवाशु सिद्धिदम् ॥१८॥
देवस्याराधनेनैव यतः सिद्ध्यति वाञ्छितम् ॥
अतः सर्वैर्य्यथाशक्ति प्रीत्याराध्यः स मानवैः ॥१९॥
सावर्णिरुवाच॥
देवा वहुविधा प्रोक्तास्त्वया षण्मुख मे पुरा ॥
नानाविधा वर्णिताश्च तदाराधनरीतयः॥२०॥
तत्फलानि च सर्वाणि त्वयोक्तानि पृथक्पृथक् ॥
स्वर्गादिप्राप्तिमुख्यानि कालग्रस्तानि तानि तु ॥२१॥
निवृत्तिधर्म्मिणां ब्रह्मा ह्युपास्तेर्य्योगिनां गुह ॥
जनादिलोकाप्तिफलं द्विपरार्द्धान्तनश्वरम्॥२२॥
दुष्कराणीह संसाध्य कर्म्माणि पुरुकृच्छ्रतः॥
क्षयिष्णुफललाभश्चेत्तर्हि किं तदुपार्जनैः॥२३॥
कालेन नाश्यते येषां वपुः स्थानबलादिकम्॥
तेषां न रोचते मह्यमुपासाऽत्र दिवौकसाम्॥२४॥
यः स्वयं निर्भयोऽन्येषां भयहर्त्ता सनातनः ॥
नित्यधामाऽक्षयफलप्रदाता भक्तवत्सलः ॥२५॥
यस्य प्रसादात्सर्वेषां सर्व एव मनोरथाः ॥
 सिद्ध्येयुश्चाञ्जसैवाऽत्र तं देवं वद मे गुह ॥२६॥
तदाराधनरीतिं च सुकरां शिष्टसंमताम् ॥
ब्रूहि सर्वां विशेषेण जिज्ञासामीदमञ्जसा ॥२७॥
सौतिरुवाच ॥
इत्थं महर्षिणा तेन संपृष्टो भगवान्गुहः ॥
सुप्रसन्न उवाचेदं मानयंस्तमुदारधीः ॥२८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये सावर्णिप्रश्नो नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP