संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वासुदेवमाहात्म्यम्| अध्याय २२ वासुदेवमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ वासुदेवमाहात्म्यम् - अध्याय २२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २२ Translation - भाषांतर ॥ श्रीनारायण उवाच ॥गृही बुभूषुर्गुरवे दक्षिणां स्वस्य शक्तितः ॥दत्त्वा तदाज्ञयैवाऽसौ समावर्त्तनमाचरेत् ॥१॥ततः कुलोचितां योषां वयसोनामरोगिणीम् ॥पुँल्लक्षणेन रहितामपापां विधिनोद्वहेत् ॥२॥स्वाधिकारानुसारेण कृष्णसंप्रीतयेऽन्वहम् ॥देवर्षिपितृभूतानि यजेत विधिना ततः॥३॥स्नानं संध्यां जपं होमं स्वाध्यायं विष्णुपूजनम् ॥तर्पणं वैश्वदेवं च कुर्याच्चातिथ्यमन्वहम् ॥४॥कुर्यात्पुण्यं यथाशक्ति न्यायार्जितधनेन च ॥अनासक्तः पोष्यवर्गं पुष्णीयान्न तु पीडयेत् ॥५॥देहं च दैहिकान्वासावुद्दिश्य पशुवत्परैः ॥वैरं न कुर्याद्देहादावहन्तां ममतां त्यजेत् ॥६॥कुर्याद्भागवतानां च सतां संगमतन्द्रितः ॥न स्त्रैणानां व्यसनिनां संगं कुर्यान्न लोभिनाम् ॥७॥कामभावेन नेक्षेत परयोषां तु कर्हिचित् ॥श्राद्धपर्वव्रताहादौ नोपेयाच्च स्वयोषितम् ॥८॥प्राप्तोपि पुरुषः सांख्ये योगे च परिपक्वताम्॥पुत्र्या अपि प्रसंगेन रहःस्थाने तु मुह्यति ॥९॥अतो मात्रा भगिन्या वा दुहित्रापि रहःस्थले ॥सह नासीत मतिमान्युवत्या किमुताऽन्यया ॥१०॥अमङ्गलानां सर्वेषां विधवा ह्यत्यमंगलम् ॥तद्दर्शनं च तत्स्पर्शो नॄणां सुकृतहृत्ततः ॥११॥प्रयाणकाले विधवादर्शनं सन्मुखे यदि ॥स्यात्तदा नैव गन्तव्यमन्यथा मरणं धुवम् ॥१२॥आशिषो विधवास्त्रीणां समाः कालाहिफूत्कृतैः ॥ततश्च बिभियात्ताभ्यो राक्षसीभ्यो यथा गृही ॥१३॥मद्यं मांसं मादकं च द्यूतादीन्दूरतस्त्यजेत् ॥न द्रोहं प्राणिमात्रस्य कुर्याद्वाचापि कर्हिचित् ॥१४॥अवतारचरित्राणि शृणुयादन्वहं हरेः ॥सर्वा अपि क्रियाः कुर्याद्वासुदेवार्थमास्तिकः ॥१५॥ऊर्जे माघे च वैशाखे चातुर्मास्ये मलिम्लुचे ॥अन्येषु पुण्यकालेषु विशेषनियमांश्चरेत् ॥१६॥पुण्यदेशे पुण्यकाले सत्पात्रे विधिना गृही॥दद्याद्दानं यथाशक्ति दयां कुर्वीत जन्तुषु ॥१७॥पुण्यान्देशान्पुण्यकालान्पुण्यपात्राणि चानघ ॥कथयामि विशेषेण धर्मवृद्धिकराणि ते ॥१८॥देशः सर्वोत्तमस्त्वेष भुवि यो मदधिष्ठितः ॥महामुनिगणा यत्र तपस्यन्ति महाव्रताः॥१९॥हरितद्भक्तमाहात्म्याद्देशानामस्ति पुण्यता ॥गंगाद्वारं मधुपुरी नैमिषारण्यमेव च ॥२०॥कुरुक्षेत्रमयोध्या च प्रयागश्च गयाशिरः ॥पुरी वाराणसी चैव पुण्यश्च पुलहाश्रमः ॥२१॥कपिलाश्रमः श्रीरंगः प्रभासश्च कुशस्थली ॥क्षेत्रं सिद्धपदाख्यं च पौष्करं च महत्सरः ॥२२॥क्रीडास्थानं भगवतः सश्रियो रैवताचलः ॥तथा गोवर्द्धनगिरिः पुण्यं वृन्दावनं वनम् ॥२३॥महेन्द्रमलयाद्याश्च सप्तापि कुलपर्वताः ॥भागीरथी महापुण्या यमुना च सरस्वती ॥२४॥गोदावरी च सरयूः कावेरी गोमतीमुखाः ॥पुराणप्रथिताः पुण्या महानद्यो नदास्तथा ॥२५॥महोत्सवैर्भवेद्यत्र भगवत्प्रतिमार्चनम् ॥प्रभोरनन्यभक्ताश्च भवेयुर्यत्रयत्र च ॥२६॥अहिंस्राश्च स्वधर्मस्था यत्र स्युर्ब्राह्मणोत्तमाः ॥मृगाद्याः पशवो यत्र विचरेयुश्च निर्भयाः ॥२७॥यत्रयत्रावताराश्च हरेर्वासश्च यत्र वा ॥एते पुण्यतमा देशा भुवि सन्ति विशेषतः ॥२८॥अल्पोप्येषु कृतो धर्मः स्यात्सहस्रगुणो नृणाम् ॥पुण्यवृद्धिकरान्कालाञ्छृण्वथो वच्मि नारद ॥२९॥अयने द्वे च विषुवं ग्रहणं सूर्यसोमयोः ॥दिनक्षयो व्यतीपातः श्रवणर्क्षाणि सर्वशः ॥३०॥द्वादश्य एकादश्यश्च मन्वाद्याश्च युगादयः ॥पुण्याः स्युस्तिथयः सर्वा अमावास्या च वैधृतिः ॥३१॥मासर्क्षयुक्पौर्णमास्यश्चतस्रोप्यष्टकास्तथा ॥स्वजन्मर्क्षाणि च हरेर्जन्मोत्सवदिनानि च ॥३२॥स्वस्य स्त्रियाश्चार्भकाणां संस्कारोभ्युदयस्तथा ॥सत्पात्रलब्धिश्च यदा कालाः पुण्यतमा इमे ॥३३॥देवपितृद्विजसतामेषां शक्त्या समर्चनम् ॥स्नानदानजपादीनि स्युरनन्तफलानि हि ॥३४॥सत्पात्रं तु स्वयं साक्षाद्भगवानेव नारद ॥शाखानामिव मूलाम्बु यद्दत्तं सर्वतुष्टिकृत् ॥३५॥अहिंसा वेदविद्याभिस्तुष्टिः सद्धर्मभक्तिभिः ॥हृदि विष्णुं दधीरन्ये ते सत्पात्राणि वै द्विजाः ॥३६॥एकान्तिकाश्च भगवद्भक्ता बद्धविमोचकाः ॥सत्पात्राणीति जानीहि येष्वास्ते भगवान्स्वयम् ॥३७॥आढ्यस्तु कारयेद्विष्णोर्मन्दिराणि दृढानि च ॥पूजाप्रवाहसिद्ध्यर्थं तद्वृत्तीश्चापि कारयेत् ॥३८॥जलाशयान्वाटिकाश्च विष्ण्वर्थमुपकल्पयेत् ॥सदन्नैः सुरसैः साधून्ब्राह्मणांश्चैव तर्पयेत् ॥३९॥अहिंसान्वैष्णवान्यज्ञान्कुर्याच्छक्त्या यथाविधि ॥व्रतजन्मोत्सवान्विष्णोः संभारेण च भूयसा ॥४०॥प्रौष्ठपदासितेपक्षे क्षयाहे तीर्थपर्वसु ॥पित्रोः श्राद्धं प्रकुर्वीत तद्बन्धूनां च शक्तितः ॥४१॥दैवे कर्मणि पित्र्ये च भक्तान्भगवतो द्विजान् ॥पूजयेत स्वधर्मस्थान्भोजयेद्भगवद्धिया ॥४२॥दैवे द्वौ भोजयेद्विप्रौ त्रींश्च पित्र्ये यथाविधि ॥एकैकं वोभयत्रापि नैव श्राद्धे तु विस्तरेत् ॥४३॥देशकालद्रव्यपात्रपूजोपकरणानि च ॥विस्तरेण यथाशास्त्रं न स्यादेवेति निश्चितम् ॥४४॥न श्राद्धे क्वापि मांसं तु दद्यान्नाऽद्याच्च मानवः ॥मुन्यन्नैः क्षीरसर्पिर्भ्यां तृप्यन्ति पितरो भृशम् ॥४५॥अहिंसा प्राणिमात्रस्य मनोवाक्तनुभिस्तु या ॥तयैव पितरः सर्वे तृप्यन्त्यतिदयालवः ॥४६॥तस्मात्कुसङ्गतः क्वापि शास्त्रहार्दमबुध्य च ॥श्राद्धे मांसं नैव दद्याद्वासुदेवपरः पुमान् ॥४७॥व्रतानि कुर्याद्विष्णोश्च ब्रह्मचर्यादिभिर्यमैः ॥सहैव तत्परो नान्यत्कार्यं कुयाच्च तद्दिने ॥४८॥स्वसंबन्धिजनानां चाप्याशौचं जनिनाशयोः ॥यथाशास्त्रं पालयेत ग्रहणे चार्कचन्द्रयोः ॥४९॥व्यावहारिककार्याणां विवादे निर्णयेपि च ॥गृहीतरास्त्यागिनो ये ते न कार्या न चाधवाः ॥५०॥यत्रैते स्युर्न्न तत्कार्यं सिध्येत्क्वापि द्विजोत्तम ॥सर्वस्वनाशस्तत्र स्यादित्येवं त्वस्ति निर्णयः ॥५१॥धर्मा एते गृहस्थानां मया संक्षेपतोदिताः ॥यदनुष्ठानतो नॄणां स्यात्स्वेष्टसुखमक्षयम् ॥५२॥शिलादिजीविकावृत्तिभेदेन गृहिणो द्विजाः ॥चतुर्विधाः प्रकीर्त्यन्ते तत्तन्नाम्ना च नारद ॥५३॥स्त्रीणामथ प्रवक्ष्यामि धर्मान्र्धर्मवतां वर ॥येषु स्थिताः स्त्रियः सर्वाः प्राप्नुवन्तीप्सितं सुखम् ॥५४॥सुवासिनीभिर्न्नारीभिः स्वपतिर्देववत्सदा ॥सेवनीयोऽनुवर्त्त्यश्च जरन्रुग्णोऽधनोपि वा ॥५५॥तद्बन्धवश्चानुवर्त्याः सेवनेन यथोचितम् ॥उज्ज्वलानि विधेयानि गृहोपकरणानि च ॥५६॥गृहं मार्जनसेकाद्यैः स्वच्छं कार्यं दिनेदिने ॥प्रियं सत्यं च वक्तव्यं स्थेयं शुचितया सदा ॥५७॥चाञ्चल्यमतिलोभश्च क्रोधः स्तेयं च हिंसनम् ॥अधार्मिकाणां सङ्गश्च वर्ज्यः स्त्रीणां तथा नृणाम् ॥५८॥भवितव्यं तत्पराभिर्द्धर्मकार्येषु सर्वदा ॥त्यक्त्वौद्धत्यं विनीताभिः स्थेयं जित्वेन्द्रियाणि च ॥५९॥पातिव्रत्ये स्थिताभिश्च धर्मे ताभी रमापतेः ॥भक्तिः कार्या स्वतन्त्राभिर्भवितव्यं न कुत्रचित् ॥६०॥विधवा तु सदा विष्णुं सेवेत पतिभावतः ॥कामसंबन्धिनीर्वार्त्ता न शृण्वीत न कीर्तयेत्॥ ६१॥आसन्नसंबन्धवतो विनान्यान्पुरुषान्क्वचित् ॥अनापदि स्पृशेन्नैव पश्येन्नैव च कामतः ॥६२॥स्तनपस्य तु नुः स्पर्शाद्वृद्धस्य च न दुष्यति ॥कार्य आवश्यके ताभ्यां भाषणे च विभर्तृका ॥६३॥व्यावहारिककार्ये च विवादमधिकं नरैः ॥न कुर्वीतावश्यकार्ये तैर्भाषेत विना रहः ॥६४॥नेक्षेत मिधुनीभूतं बुद्या पश्वाद्यपि क्वचित् ॥त्यजेच्च सकलान्भोगान्स्यात्सकृन्मितभुक्तथा ॥६५॥सधातुसूक्ष्मवासांसि नालंकारांश्च धारयेत् ॥न दिवा शयनं कुर्यान्न खट्वायामनापदि ॥६६॥ताम्बूलभक्षणं नैव कुर्यान्नाभ्यङ्गमञ्जनम् ॥पुम्प्रसंगाच्च बिभियात्कृष्णाहेरिव नित्यदा ॥६७॥समीक्ष्य पुरुषं नारी या न मोहमुपाव्रजेत् ॥तादृशी तु विना लक्ष्मीमेकां नान्यास्ति कुत्रचित् ॥६८॥धर्मनिष्ठा ततो नारी स्वनिःश्रेयसमिच्छती ॥नेक्षेत पुरुषाकारं बुद्धिपूर्वं च न स्पृशेत् ॥६९॥कृच्छ्रचान्द्रायणादीनि नैरन्तर्येण भक्तितः ॥व्रतानि कुर्याच्च सदा भवेन्नियमतत्परा ॥७०॥पित्रा पुत्रादिना वापि तरुणी तरुणेन च ॥सह तिष्ठेन्न रहसि कुसङ्गं सर्वथा त्यजेत् ॥७१॥सधवा विधवा वा स्त्री स्वरजोदर्शनं क्वचित् ॥न गोपयेत्त्रिरात्रं तु मनुष्यादींश्च न स्पृशेत् ॥७२॥प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी ॥तृतीये रजकी प्रोक्ता सा चतुर्थेऽह्नि शुद्ध्यति ॥७३॥इति स्त्रीणां मया धर्माः संक्षेपात्कथितास्तव ॥युक्ता यैर्योषितो यायुरिहामुत्र महत्सुखम् ॥७४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये गृहस्थधर्मनिरूपणं नाम द्वाविंशोध्यायः॥२२॥ N/A References : N/A Last Updated : November 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP