संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|अरुणाचलमाहात्म्यौत्तरार्धम्| अध्यायः १० अरुणाचलमाहात्म्यौत्तरार्धम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः १० Translation - भाषांतर ॥ मार्कण्डेय उवाच ॥आज्ञापय विभो मह्यं यथा शंभुः सनातनः ॥अनुजग्राह मोहांधो वैकुण्ठपरमेष्ठिनौ ॥१॥ ॥ नंदिकेश्वर उवाच ॥शृणुष्व सर्वं वक्ष्यामि विस्तरेण यथातथम् ॥यदेव देवो विदधे दयया भक्तवत्सलः ॥२॥अथोदस्थात्तयोर्मध्ये तथा विवदमानयोः ॥ज्योतिःस्तंभत्वमभ्येत्य रोदोरंध्रनिरोधकः ॥३॥महता जृंभमाणेन तस्य ब्रह्मांडभेदिनः ॥अन्तरिक्षमतिश्यामं समुत्क्षिप्तमिवाभवत ॥४॥विष्वग्विवर्णता तस्य ज्योतिर्लिंगस्य तेजसा ॥दिशो विरेजिरे सद्यो दूरविस्तारिता इव ॥५॥तीव्रैस्तस्य महाज्वालैः शोषिता इव सागराः ॥विमुक्तवीचिसंक्षोभाः स्वामेव प्रकृतिं ययुः ॥६॥व्यद्योतंत दिवि प्राग्वद्वहास्तारागणैः सह ॥तेजःस्तंभात्समुद्भिन्नाः स्फुलिंगा इव केचन ॥७॥तेजसा तस्य शोणेन गैरिकेणेव रंजिताः ॥भौमरविश्रियं सर्वेऽप्यवहन्नवनीभृतः ॥८॥समुद्रास्तत्प्रतिच्छायानिर्भराश्लिष्ट यादसः ॥पद्मरागशिलाखण्डे घटिता इव रेजिरे ॥९॥प्रवालगुच्छैः प्रत्यग्रैर्लंबिता इव पादपाः ॥नद्यश्च निर्भरोत्फुल्लकह्लारा इव रेजिरे ॥१०॥मही कुंकुमलिप्तेव दिशः सिंदूरिता इव ॥सर्वारुणमिव व्योम समगत्प्रत्यदृश्यत ॥११॥ब्रह्मांडकर्परमभूत्तन्महः पूरितांतरम् ॥शोणितेनेव संपूर्णं कपालं कृत्तिवाससः ॥१२॥एवं प्रवर्द्धमानेन तेजःस्तम्भेन तेन च ॥अरुणाकारतां भेजे विश्वं स्थावरजंगमम् ॥१३॥तेजोलिंगं तदाश्चर्यं दृष्ट्वा त्यक्तमिथः क्रुधौ ॥अचिंतयेतामेकैकं चतुर्मुखचतुर्भुजौ ॥१४॥किमेष वसुधां भित्त्वा शेषादीनां फणाभृताम् ॥फणामाणिक्यमहसां राशिरुन्मुखतां गतः ॥१५॥किं वा कल्पांतसुलभप्रादुर्भावाः प्रभाकराः ॥द्वादशापि नभोभूम्योर्मध्ये युगपदुत्थिताः ॥१६॥आहोस्विन्मेघ संघर्षाद्वितता व्योममध्यतः ॥अन्योन्यं मिलिताः क्षिप्रा निपतंत्यवनीतले ॥१७॥प्रतिघ्नन्नेष तेजोभिरक्ष्णोः शक्तिमनुक्षणम् ॥स्वनिर्विशेषिताशेषभूतजालः प्रवर्द्धते ॥१८॥एष उद्दीप्यमानोऽपि संतापाय न कल्पते ॥नेदीयांस्यपि भूतानि न निर्दहति वह्निवत् ॥१९॥एतस्य कांतिसंक्रांत्या जगदेव न केवलम् ॥मदीयमपि शोणत्वमनुप्राप्तमहो वपुः ॥२०॥कस्मादेष समुत्पन्नः किं मूलः किमुपाधिकः ॥कुतस्त्यः किमुपादानः कया भक्त्या प्रकाशते ॥२१॥कियानवधिरेतस्य विष्वक्तिर्यगधोर्ध्वतः ॥अवगाढश्च पातालं कियन्मात्रमसाविति ॥२२॥तदेतदखिलं ज्ञातुं मनः पर्युत्सुकं मुहुः ॥इच्छत्युत्पतितुं व्योम प्रवेष्टुं च रसातलम् ॥२३॥इति चिंताभराक्रांतौ तेजःस्तंभावलोकनात् ॥उभावप्यवकुलितौ वैकुण्ठपरमेष्ठिनौ ॥२४॥अभाषत च गोविंदः सुतरामेव गर्वितम् ॥हिरण्यगर्भमालोक्य स्मयमानमुखांबुजः ॥२५॥ ॥ विष्णुरुवाच ॥अयमेवावयोर्ब्रह्मन्नन्योन्योत्कर्षकांक्षिणोः ॥सत्यमेव परीक्षायै निकषः समुपस्थितः ॥२६॥अमुष्य तेजसां राशेरपरिच्छेद्यसंपदः ॥आद्यंतौ ज्ञातुमेकेन न शक्यं ध्रुवमावयोः ॥२७॥यः पश्येन्मूलमग्रं वा तेजसोस्य स्वयंभुवः ॥स एव नावभ्यधिको जगतां नाथकोऽपि सः ॥२८॥ ॥ नंदिकेश्वर उवाच ॥इत्युभावपि विनिश्चिताशयौ मूलमग्रमपि तस्य वीक्षितुम् ॥तेजसोतिमहतो बभूवतुः स्पर्धया विरचितोद्यमौ मिथः ॥२९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्ण्वोर्मध्ये तेजोमयलिंगप्रादुर्भाववर्णनंनाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP