अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः ६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
विस्तरात्कथयाम्यद्य प्रायश्चित्तं महांहसाम् ॥
सर्वेषामवधत्स्व त्वमवलंब्यास्तिकीं धियम् ॥१॥
ब्रह्महा प्राप्य शोणाद्रिं निमग्नः खड्गतीर्थके ॥
जपन्पंचाक्षरं मंत्रं भस्मरुद्राक्षधारकः ॥२॥
कृतोपवासः संपूज्य प्रयतः परमेश्वरम् ॥
ब्राह्मणान्भोजयेद्वर्षं भिक्षाशी नियतेंद्रियः ॥३॥
विशेषपूजाशुश्रूषां कुर्याद्देवस्य भक्तितः ॥
ब्रह्महत्या विनिर्मुक्तो ब्रह्मलोके महीयते ॥४॥
सुरापोऽप्यरुणक्षेत्रे वर्षमेकं वसन्प्रति ॥
प्राग्वत्कृतसमाचारः संपूज्यैवं महेश्वरम् ॥५॥
क्षीरेण स्नापयेद्देवं शतरुद्रीयमुच्चरन् ॥
सुरापानोद्भवेनाशु पापेन परिमुच्यते ॥६॥
सुवर्णस्तेयकृच्छोणक्षेत्रे बिल्वदलैर्हरम् ॥
अभ्यर्च्य भोजयेद्विप्रान्पापान्मुच्येत दुष्करात् ॥७॥
गुरुदाररतिर्गत्वा कृत्तिकास्वरुणाचलम् ॥
यथापूर्वं व्रती भूत्वा सहस्रेण प्रदीपकैः ॥८॥
मासत्रयं समाराध्य श्रीशोणाचलशंकरम् ॥
प्रदद्याद्भूषितां कन्यां ब्राह्मणाय सुधीमते ॥९॥
षडक्षरं जपेन्नित्यं तेन मुच्येत पाप्मना ॥
शिवलोके च निवसेदासंसारं न संशयः ॥१०॥
परदारापहर्त्ता च क्षेत्रेस्मिन्नियतेंद्रियः ॥
मासमेकं नवैः पुष्पैरभ्यर्च्यारुणशंकरम् ॥११॥
माहेश्वराय वितरेद्धनं शक्त्यानुगुण्यतः ॥
तत्क्षणेन विनिर्मुक्तस्तस्मात्पापाद्भविष्यति ॥१२॥
गरदोऽप्यरुणक्षेत्रे व्रती भूत्वा यथापुरा ॥
क्षीरोपहारं देवाय दत्त्वा दोषेण मुच्यते ॥१३॥
पिशुनोऽप्यरुणक्षेत्रे व्रती वेदरतो नरः ॥
अध्यापयेद्द्विजान्मुख्यांस्ततो निष्कल्मषो भवेत् ॥१४॥
अग्निदोऽप्यरुणक्षेत्रे त्रीन्मासान्पूर्ववद्व्रती ॥
दद्याच्छैवाय निर्माय्य गृहं तत्पापशांतये ॥१५॥
धर्मनिंदाकरः शोणक्षेत्रे वर्षं व्रती वसन् ॥
सत्रादिकं प्रकुर्वीत यथाशक्त्यघशांतये ॥१६॥
पितृद्रोह्यरुणक्षेत्रे तिष्ठन्मासमतंद्रितः ॥
गिरीशाय द्विजेभ्योपि प्रदद्याद्गाः सहस्रशः ॥१७॥
ग्रहोपरागकालेषु भोजयित्वा द्विजान्बहून् ॥
विमुंचेद्वृषभं नीलं विमुच्येत ततोंऽहसः ॥१८॥
स्त्रीघ्नश्चापि शिशुघ्नोऽपि शोणक्षेत्रमुपेयिवान् ॥
व्यतीपाते तिलान्दद्याद्द्विजभ्यो दुरितच्छिदे ॥१९॥
प्रच्छन्नपापकृच्छोणक्षेत्रेऽस्मिन्नियतेंद्रियः ॥
गुप्तदानानि कुर्वीत भवेद्वै गतकल्मषः ॥२०॥
मृषाभाष्यरुणक्षेत्रे षण्मासान्निवसन्व्रती ॥
शोणाचलेश्वरस्तोत्रपाठेन स्यादकल्मषः ॥२१॥
कूपादिभेदकृच्छोणक्षेत्रमासाद्य भक्तितः ॥
तटाकान्खानयेत्तत्र ध्रुवं निर्वृजिनो भवेत् ॥२२॥
क्षेत्रापहारी देवाय क्षेत्रं दद्यान्महाफलम् ॥
आरामकंटकोप्यस्मै दद्यादुद्यानमुत्तमम् ॥२३॥
गृहापहारी कुर्वीत देवस्यायतनं नवम् ॥
अंहसा तेन निर्मुक्तः शिवसायुज्यमाप्नुयात् ॥२४॥
परद्रोही वसञ्छोणक्षेत्रे माहेश्वरान्धनैः ॥
प्रीणयित्वा पराँल्लोकान्निःसंशयमवाप्नुयात् ॥२५॥
पश्वादिमांसभुक्छोणक्षेत्रे पक्षत्रयं व्रती ॥
प्रीणयेदरुणेशानं सोपहारैर्मनोहरैः ॥२६॥
त्रिःशोणाचलनाथेति निनदन्ननघो भवेत् ॥
निवसन्नरुणक्षेत्रे पूजयेदरुणेश्वरम् ॥२७॥
अरुणेश्वरमंत्रं च जपेन्मोक्षेच्छुरादरात् ॥
यद्यस्याभिहितं तेन पद्भ्यामेव प्रदक्षिणाम् ॥२८॥
कुर्वतारुणशैलस्य तत्प्राप्यं शुभमंजसा ॥
श्रुतेषु स्खलितेष्वत्याहिते दुःस्वप्नदर्शने ॥२९॥
प्रीत्युत्कर्षेऽपि च बुधैरुच्चार्योऽरुणशंकरः ॥
अपि वर्णाश्रमभ्रष्टः शिवद्रोहरतोऽपि वा ॥३०॥
त्रीण्यहान्यरुणक्षेत्रे वसन्मुच्येत पातकैः ॥
पार्थिवः शिवलोकोऽयं मूर्त्तमेतत्त्रयीशिरः ॥३१॥
एष दक्षिणकैलासो योसावरुणपर्वतः ॥
अन्येषु सिद्धक्षेत्रेषु तपोभिः सिद्धयो नृणाम् ॥३२॥
अस्मिन्स्मरणमात्रेण तारतम्यं विचिंत्यताम् ॥
यद्गंगायां प्रयागे यत्काश्यां वै पुष्करेषु यत् ॥३३॥
कर्म सेतौ च यत्पुंसां शोणक्षेत्रे ततोऽधिकम् ॥
अग्निष्टोमं वाजपेयं वैराजं सर्वतोमुखम् ॥३४॥
राजसूयाश्वमेधौ च कुर्याच्छोणाचले बुधः ॥
एकाहं वारुणक्षेत्रे नरो यत्स्यादुपोषितः ॥३५॥
तस्य चांद्रायणशतं भवेत्सांतपनायुतम् ॥
षोडशापि महादानान्यरुणक्षेत्रसंनिधौ ॥३६॥
अनुष्ठितानि कल्पोक्तं कुर्वंति द्विगुणं फलम् ॥३७॥
इति नंदिकेश्वरमुखेन शुश्रुवान्मुनिनंदनोथ निरयप्रतिक्रियाम् ॥
अभिनंद्य तं वद दिनर्तुवत्सरप्रमुखार्हणक्रममिति व्यजिज्ञपत् ॥३८
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पापापनोदकप्रायश्चित्तवर्णनंनाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP