संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| अष्टादशः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - अष्टादशः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत अष्टादशः सर्गः Translation - भाषांतर सङ्ग्रामं शक्रजिद्यास्यत्प्रादक्षिणयदीश्वरम् ।स्निग्धमालोकितः पङ्त्या तस्यैव परितो दृशाम् ॥१॥प्रणम्य च ततो भक्त््या विज्ञाय समयं मयम् ।निर्जगाम पुरः कर्षन्केतुभिः शबलं बलम् ॥२॥क्वणन्तश्चक्रितैश्चापैरसृग्गन्धकृतौजसः ।घोरेषुविततिं तत्र सृजन्तश्चक्रिरे रणम् ॥३॥गूढचतुर्थम्॥नगनिर्भिन्नमातङ्गघटाघटमुखोत्सितैः ।युद्धमासीद्दुरालोकं स्नातयौधमसृग्जलैः ॥४॥रजस्सन्तमसाच्छित्त्वं विततार परिज्वलन् ।ग्रावप्रहतमातङ्गःदन्तकोशोद्भवोऽनलः ॥५॥सारासिरुरुसूरूराः सारासारासुसूरसः ।ससार सारा ससुरा सारिसार ससार सः ॥६॥द्व्यक्षरम्॥एत्य शोणितसंसिक्तरजश्छेदेन दर्शितौ ।बबन्ध रावणिर्वोरौ राघवौ भोगिपाश्यया ॥७॥विवेश पुरमेवाथ नद्धे तत्र निरादरः ।गत्या विजितमातङ्गमन्थरक्रमहेलया ॥८॥दधानौ नृपती खिन्ने शतधा मनसी तया ।दृष्टां विवशया नाति शतधाम न सीतया ॥९॥पादयमकम्॥विराजन्तमिदं दीप्त्या विराजन्तं स्मृतिक्षणे ।सहसन्नासितो भ्रात्रा सहसन्नाख्यदागतम् ॥१०॥आदियमकम्॥पक्षिराज तयामेय हिंसारागहितान्तक ।कन्तताहि गरासाहिं यमेयातजराक्षिपः ॥११॥प्रतिलोमम्॥इत्युक्तगरुडग्रस्तपन्नगाहितविस्मयैः ।आस्फोटस्फोटितानीकथुतिरेसे कषोश्वरैः ॥१२॥रुरोरारैररीरोरि हीहोहाहाहिहीहही ।ततोतात्तुत्तितोतोतौ विववावववावव ॥१३॥प्रासानुप्रासः॥कुम्भकर्णोऽथ रक्षोभिरबोधि हदि ताडितः ।स्वयंकृतखरक्राथवातधूतैः कथञ्चन ॥१४॥उपाविशत्पुरो वप्रभूधरस्य शिरस्तटान् ।सङ्ख्ये दृष्टिं समासज्य क्रोधेन विकृताननः ॥१५॥आसादितरसास्वादक्षतस्रुतिरगोत्किरः ।ससार तरसा पादघातपातितगोपुरः ॥१६॥गोमूत्रिका॥शिरांसि कृतटङ्कारं चर्वतोऽस्य वनौकसाम् ।सिषेच शोणितं वक्षः सद्यः सन्त्यज्य सृक्वणीम् ॥१७॥तच्छूलपातनिर्भिन्नपिष्टशिष्टा महाचमूः ।अङ्गदेन पितुर्धीरं जगदे विद्रुता दिशः ॥१८॥सुभासासाति यातात्ति भासुरा दर्पभाविता ।साराधीरा सशोभाया सादरा युधि सर्पति ॥१९॥अर्धभ्रमः॥इयं वः शात्रवी सेना रणे वैमुख्यमागतम् ।छेत्तुमिछति पुच्छाग्रं कुम्भकर्णपुरःसरी ॥२०॥हनुमानातुरो भूत्वा मा गा युध्यस्व निर्भयम् ।न नु स्कन्नादरोऽसौ त्वा वेगाद्विध्यति निर्दयम् ॥२१॥गोमूत्रिका-मुरजबन्धः॥सुते संयति वैमुख्यं याते क्षीरोदजन्मनः ।सुषेणे लम्भयेदन्यः कस्तत्रास रसज्ञताम् ॥२२॥दोषपात्रपराधीन बलमेषवदक्षम ।त्वं सशैलेन हस्तेन हीन किं हंसि राक्षसम् ॥२३॥गूढसम्बन्धः॥ततं दर्पेण सततं परः सशमतत्परः ।सत्वाढ्यो बाधते स त्वामरं तेजोजितामरम् ॥२४॥आद्यन्तयमम्॥भुनक्ति भवति त्रासस्रस्तहस्तेऽद्य केसरी ।नैऋतग्राहदन्ताग्रग्रासात्कोऽन्यो वनौकसः ॥२५॥तेन ते सुरसाराशसमा भीतजिताहि न ।नहिता जितभीमास शरासारसुतेन ते ॥२६॥अर्धप्रतिलोमः॥नैकसेयकसन्त्रस्तः सम्पदः खलु हीयसे ।राज्यं तव जयेनास्तु तदेव गहनं गिरेः ॥२७॥सासारा ससरा सासा सा हसाव्यव्यसा हसा ।रा सा पा त त पा सा रा स व्य त क्ष क्ष त व्य सः॥सर्वतोभद्रम् ॥२८॥चमूपतिर्बहिस्तस्थौ सेनया सह सासुरः ।कुम्भकर्णं प्रतीक्ष्याथो सेनया सहसाऽसुरः ॥२९॥अभिरामाशुगासन्ना सा सेना विभया सती ।अभि रा मा शु गा सन्ना सा सेना विभया सती ॥३०॥समुद्गयमकम्॥गृहेऽपि सुलभो मृत्युः शिवं युद्धेऽपि कस्यचित् ।प्रभुं त्रासेन ते जन्ये यतस्त्यक्तुमसांप्रतम् ॥३१॥किं यासि कपिहास्यारंहा मी त त्रास माकुकः ।भ सा न र म या का शंस वी क्ष्या र ण मा र्ग लः ॥३२।मुरजबन्धेन श्लोकद्वयम् ॥किं सा सि र पि या स्याशं हा वी त र स मा कु लः ।भयानकमहाकारं समीक्ष्यात्राणमार्गकः ॥३३॥पतत्सु राघवे वैरिविशिखेष्वविशीङ्कितम् ।पौरुषस्यापरं कालं किं सौमित्रिरुदीक्षते ॥३४॥हे य हा स र व स्था मान से ना वि हि ता र्द न ।सा त चे त न षा ता सा-ल व्या किं विभुनासिना ॥३५॥अनुलोम प्रतिलोमश्लोकद्वयम्॥नासिना भुवि किं व्यालसातापानतचेतसा ।नार्दिता हि विनासेन मास्थावरसहाय हे ॥३६॥वृहत्फलकरश्रीमांस्तुङ्गको वरवारण ।किं न गोपतिरेष त्वं प्रथने परमोदयम् ॥३७॥अर्धचतुष्टयवाची॥रणं सद्यशसः क्षेत्रं स्थितस्तेजस्यखण्डिते ।सन्त्यजन्सह सैन्येन हरिराज न राजसे ॥३८॥निरोष्ठ्यम्॥नयाचारयुतो रामः प्रयासरहितोऽश्रमः ।न याति रणतो भीमः श्रिया सारश्च्युतोपमः ॥३९॥जालकम्॥सङ्ख्ये१ सङ्ख्यमिहासङ्ख्यशस्त्रसम्पातभैरवे ।विधत्स्व तस्य लोकोऽन्यः सर्वस्मिन्नसुखे सुखे ॥४०॥यासि सक्षतमस्वाशं शंसिता त्रासमान्यस ।सदद्धाधमसामास सस्मयागमनुद्धिया ॥४१॥जालकद्वयम्॥सि द्धि क्ष म म या शं सना सा – – स द न्य दः ।स्वा न्यि त त्रा स मा या सया स नु धा ग म स्म मा ॥४२॥त्रासेन जहतो जन्ये जनेशं तद्गुणाधिकम् ।किं न भ्रस्यति शुभ्राभ्रविभ्रमं भवतो यशः ॥४३॥तरसानधमासारा सातायासवरा स्थिता ।नरतानसमा धीरा मता हासस्वरानता ॥४४॥जालकद्वयम्॥त ता सा स ध रा सा तासा र या न व मा स्थि रा ।न ता ता स स रा धीता म र हा न स्व मा न रा ॥४५॥भ्रमद्भिर्भूरिभिर्भेरीरवैर्गम्भीरभैरवैः ।भ्राम्यन्मन्दरमन्थस्थक्षुम्यत्सीरार्णवोपमा ॥४६॥से भा सु र द र स्व क्षह ना सा प्रा त रा स्व ता ।भा रा दा ना क पापा घ निभा वनधरस्वनः ॥४७॥जालकत्रयम्स्व ता पा न स्व घ स्व क्षद रा क र ध वा त र ।सु प्र दा न व ना सा रसै ना हा हा नि रा ह हा ॥४८॥स्व पा स्व र स्व रा पा रर त ना ध न क प्र दः ।सु ना दा हा व रा सा हाक्ष ता घ न नि भा ह से ॥४९॥कृपाणज्योतिरालोकस्फारदुर्दर्शना तता ।प्रक्वच्छरसङ्घातसंराबविहितश्रुतिः ॥५०॥सा राक्षसकरस्रस्त-रामापात्रस्वसाध्वना ।सा रा सा पा न या गा या भसा व न ध र स्व न म् ॥५१॥जालचतुष्टम्॥स्व ध्व गा स्व र या ना स्तरा मा रा सा ह सा र सा ।क्ष पा शा प र या सा रस त्र पा न ष न स्व कः ॥५२॥स्व ना गा र स्व या ध्व स्तक सा न र स या स्व र ।क्ष त्र शा न व पा पा सस मा सा सा भ रा र रा ॥५३॥स्व या ध्व र स्व गा गा रस स्य पा ध न म त्र क ।पा रा प रा क्ष मा शा सा-स्त ना या र भ सा र सा ॥५४॥संहतिर्द्विषतामुग्रग्राववृष्टिप्रवर्षिणः ।अभिलष्यत्यसौ क्रव्यग्रासगृध्नुर्वनौकसः ॥५५॥द्विषतामायुधैरेवमस्मदीया पताकिनी ।विह्वला चलितादित्यद्युतिभिः प्रथने कृता ॥५६॥त ता ती ति त तो ती ताता त ता ता त्त त त्त तौ ।त तो तो ति त तौ ते तौता ते तु त्ति त ते त तिः ॥५७॥॥एकाक्षरः॥इति श्रुत्वा निववृते तां गिरं कपिभिर्दिशः ।अपथत्याजने साधोर्निन्दा हि निशितोऽङ्कुशः ॥५८॥ते हिता सुकसत्राससत्रासकसुताहिते ।तेनुरापदमत्याग गत्या मदपरानुते ॥५९॥पादप्रतिलोमः॥आयातामायतां वृष्टिं शृङ्गीशृङ्गन्महीरुहाम् ।कुम्भकर्णं किरन्तं तं नलनीलौ रणस्पृहौ ॥६०॥अपि तु द्रुतमेत्यस्य नीलः सेहे न वै व्यथाम् ।सहेति क्षितिजच्छिन्न प्रवीरः सक्षिति स्तुतः ॥६१॥मात्रापहारयथे-ष्टमात्रदानाभ्यां श्लोकत्रयम्॥अपतद्रतिमत्यस्य नलः सह न वव्यथः ।सहतः क्षतजच्छन्नः प्रवरः सक्षतः ततः ॥६२॥आपतद्रुतिमेत्यास्य नलः से होन विव्यथः ।सुहितक्षितिजच्छन्न प्रवरः सा क्षतस्तुतिः ॥६३॥ततोहतहुताशात्मसम्भवं पतिते नले ।प्रार्थयन्तं बलं शत्रोः क्रव्यमत्तुं निशाचराः ॥६४॥त ता री ति र ती ता तीर न्ति ता र रु ते रि ता ।त ता रा रि त ती रे तार त ता रा र तो र त म् ॥६५॥द्व्यक्षरानुप्रासः॥प्रत्यागत्य ततः क्रुद्धः कुम्भकाहतिमूर्छितः ।विदश्य दशनैर्नासां नीयमानश्चकर्त सः ॥६६॥क्रोधादविदितस्वाङ्गमग्नतः शस्त्रमालिनी ।राघवायुधपातेन पेते तस्याङ्गभूधरैः ॥६७॥सन्नयो सन्नयोरुद्धो दानदानाकुलालिभिः ।नागैर्नागैरिवोच्छ्रायैः सन्नासन्नारिविक्रमः ॥६८॥आद्याम्रेडितम्॥नागाः सरसगण्डास्ते बिन्दुचित्रमुखान्विताः ।सपताका धृतिभ्रंशं चक्रुः सन्नाटकोपमाः ॥६९॥शिलीमुखमुखक्षुण्णकुमुदं सप्लवङ्गमम् ।सशरारिरणं रामो ग्रीष्मे ह्रदमिवाविशत् ॥७०॥तन्मन्त्रसाधनादीनि व्यर्थयन्तो रिपुद्विपाः ।तेन लुप्तैकरदनाः कृताः केचिद्विनायकाः ॥७१॥अन्ये पाटितसद्वंशवितानासनपुष्कराः ।कृता दस्युबलक्षिप्तनृत्तरङ्गनेपमा द्विजाः ॥७२॥मुक्तासारा द्विजैः शुभ्रैर्भूषिता मेचकत्विषः ।तेन केचित्क्षयं नीताः शरदेव पयोमुचः ॥७३॥शरैरुत्सारिता दूरं हत्वा रामस्य वेगिभिः ।बभ्रमुर्झरैर्वंशैर्मातङ्गा निर्मदीकृताः ॥७४॥रक्षःसैन्यनगो रामबाणक्षिप्तजलोऽपि सः ।अचलः शत्रुसेनायाः प्रपेदे नैव सह्यताम् ॥७५॥प्रहस्तशूलधूम्राक्षप्रजङ्घनृसुरान्तकान् ।विद्युज्जिह्वमहापार्श्वमकराक्षमहोदरान् ॥७६॥हत्वा भूयः स्वलाङ्गूलैर्वेष्टयित्वा दृढं कटिम् ।स्थितेष्वङ्घ्रिपहस्तेषु यूथपेषु वनौकसाम् ॥७७॥नाशमिन्द्रजितः श्रुत्वा निर्जगाम दशाननः ।कृती सेनाकृतेनाथ रुन्धन्रोदेन रोदसी ॥७८॥रावणस्याभवत्तत्र रणः सौमित्रितापनः ।व्याप्तसर्वदिगाभोगज्याघोषजयघोषणः ॥७९॥सौमित्रिपत्त्रिणाऽमित्रः क्रुद्धो धनुषि खण्डिते ।वधाय विद्विषो भीमशक्तिः शक्तिं समाददे ॥८०॥ततः क्रोधहतश्चक्रे चक्रे शत्रुभयङ्करम् ।करं युद्धे पतन्नागे पतन्नागेन्द्रगौरवः ॥८१॥सन्दष्टम्॥चक्रे रणं वानरकान्तकारीचक्रे रणं वा नरकान्तकारी ।च क्रे र णं वा न र का न्त का रीच क्रे र णं वा न र का न्त का री ॥८२॥महायमकम्॥युद्धेतिजेये तरसा रसन्तंयु द्धे ति जे ये त र सा र स न्त म् ।परं ससाराहत शक्तिहेत्याप रं स सा रा ह त श क्ति हे त्या ॥८३॥समुद्गयमकम्सविता रविना परमस्तमितंस निरीक्ष्य भुवं प र म स्तमितम् ।चरितुं कवचैः शबलं स्वबलंनिजगौ मनुजेशबलं स्वबलम् ॥८४॥म ह ता म ह ता स म रे स म रेवि भ या वि भ या स हि ता स हि ता ।वि श दा वि श दा शु भ या शु भ याज न ता ज न ता न हि ता न हि ता ॥८५॥यमकावलिः॥व्युदस्तधरणीधरक्षितिरुहायुधं विद्रुत-प्रधानकपिसर्पतश्चपलदृष्टि तद्विह्वलाम् ।न कश्चिदपि रक्षितुं युधि शशाक शाखामृगः ।सुरारिकवलीकृतं हतबलं प्रियादात्मनः ॥८६॥पिङ्गं शोणितनिर्गमेन करणं भिन्नं सुरेन्द्रद्रुहायत्नं प्राप्य दधानया विकलितेष्वोजःसु चञ्चदृशा ।तिग्मांशोस्तनयस्य पूर्वकलनामुल्लङ्घ्य यान्त्या भियायातं कापि विहाय संयति रतिं हानिस्पृशा सेनया ॥८७॥चक्रम्॥बिभ्राणं वदनं सरोरुहमणिक्षोदारुणं दारुणंदेहैर्भीषणमुग्रवक्त्रदशनैरासन्नखैः सन्नखैः ।रामोऽथ स्वबलं प्रसह्य समरे सन्त्रस्यतोस्त्रस्यतो-र्बाणेनोपरुरोध वर्त्मनि करच्छन्नादिना नादिना ॥८८॥इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्येअष्टादशः सर्गः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP