संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| दशमः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - दशमः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत दशमः सर्गः Translation - भाषांतर नयेन नयतस्तस्य राज्यं राजीवचक्षुषः ।ततः शक्रसमानस्य समानामयुतं ययौ ॥१॥अथालक्ष्यत तद्देहे काठिन्यरहितत्वचि ।पलितं विस्रसावल्लीपुष्पहास इव क्वचित् ॥२॥पलितच्छद्मना दोषा सर्वकालसमुन्नते ।जरसा शिरसि स्पृष्टो न विषेहे महारथः ॥३॥अङ्कमन्यतरेद्युः स्वं समारोप्य बलाद्वली ।नाथो भुवः समज्यायां सुतं ज्यायांसमब्रवीत् ॥४॥मामियं प्राणनिर्याणवैजयन्ती पुरःसरी ।रक्ताक्षवाहनादेशदूती संसेवते जरा ॥५॥अङ्गानि जरसा तात स्पृहा कामेषु निर्विदा ।तुल्यमेवोपनीतानि शैथिल्यं नः शनैः शनैः ॥६॥निवर्तन्ते हि कामेभ्यो भद्रा राघवदन्तिनः ।कालेन शिरसि न्यस्तैः श्वेतकेशशिताङ्कुशैः ॥७॥उभे वक्षसि वश्यानां तिष्ठतो रक्तकर्कशे ।यौवने वनिता वल्कसन्ततिर्वार्धके च नः ॥८॥कृतशस्त्रो न यो जिष्णुर्यश्चाढ्यो यज्ञनिःस्पृहः ।कामी यश्च जरन्नेते क्षत्रवंशेषु कत्त्रयः ॥९॥पादशेषेऽपि वैराग्यं न यस्य पुरुषायुषि ।लक्ष्यते कीदृशी तस्य जनस्य हृदयालुता ॥१०॥नातिविस्त्रसया भिन्ने देहे ना तप्यते तपः ।इतरत्र तपस्यायाश्चिरं जीर्णे हता गतिः ॥११॥मन्दशक्तीन्द्रियश्च्योतलालाविच्छुरिताधरः ।अस्फुटस्मृतिचेष्टाभिर्बालवृत्तमिवाचरन् ॥१२॥मृणालवलयच्छेदतन्तुजालसमत्विषः ।दधानो यौवनोद्दाहभस्मेव पलितच्छटाः ॥१३॥प्रत्याशा जीविते जीर्णवयसो मे मुमूर्षतः ।प्रथयन्निव नास्तीति मूर्ध्रस्तिर्यग्विकम्पनैः ॥१४॥दन्तकुन्तशतैरुग्रैर्मृत्योः सङ्कटमाननम् ।प्रवेष्टुमिव बिभ्राणः कायसङ्कोचखर्वताम् ॥१५॥बिभ्रदातङ्कनिर्मांसव्यक्तलक्ष्यसमुद्गमाः ।वीचीरिव जरानद्याः पर्शुकास्थिपरम्पराः ॥१६॥निर्दन्तत्वादसंस्कारं मिथो मोहादसंहितम् ।मुष्टिन्धय इवास्पष्टं वदन्नम्बूकृतं वचः ॥१७॥भिन्नभ्रुवमुदस्तास्रां किञ्चित्कम्पितमस्तकाम् ।नम्रो गद्गदितालापामनुनेतुं जरामिव ॥१८॥विधित्सन्नप्यशक्तिष्ठः स्वदेहवहनेऽपि सः ।वार्धक्ये धर्मतो मूढः तपः कीदृग्विधस्यति ॥१९॥यतो यातुस्तपस्यायामरण्यवसतिं त्वया ।मा जन्यश्रुप्रवर्षेण प्रत्यूहो मे विरागिणः ॥२०॥अनुशिष्टिः प्रकृत्यैव भद्रे भवति कीदृशी ।प्रीतये मनसः स्नेहकातरस्य निगद्यते ॥२१॥औदासीन्यं यतः शत्रुरुदासीनश्च मित्रताम् ।मित्रं भक्तिदृढत्वं च याति तद्वक्तुमर्हसि ॥२२॥लोकसंग्रहकामेन शत्रुभावमनिच्छता ।निन्दनीयं न तत्तस्य ख्यातिं यो येन वाञ्छति ॥२३॥सुभगङ्करणीवृत्तिः साम्नः स्वपररञ्जनी ।नायःशूलिकतेत्याहुर्नये निष्णातबुद्धयः ॥२४॥जिघांसुभिरपि प्राज्ञैः योक्तुं सामैव साम्प्रतम् ।रञ्जयन्ति मृगान् गीतैः बिभित्सन्तो मृगायवः१ ॥२५॥साम शाठ्यं जनो वेत्ति दानादत्यन्तवर्जितम् ।औशनं साम दानस्य युक्तं तत्साधुमात्रया ॥२६॥मा दा रहितसम्मानं त्यक्ष सत्कारसामनी ।दूषितः कृतिनो नीतौ वित्तं विश्राणितं विदुः ॥२७॥नेता निहन्ति दुर्धर्षं शत्रुगृह्येण शात्रवम् ।घनेनेव स्फुलिङ्गार्चिःप्रावृतं पिण्डमायसम् ॥२८॥उपजापहृते स्वामिस्नेहसीमि्न पराश्रयम् ।मौले वाच्छति मेदिन्याः पत्युः पातो न संशयः ॥२९॥इतरोपायदुःसाध्ये चण्डदण्डो महीपतिः ।अदुष्टायत्यसौ नीतेरश्नाति विपुलं फलम् ॥३०॥न दण्डेन विना शक्या गौरव्याहति रक्षितुम् ।इति प्रत्येति मुग्धोऽपि वल्लवः किमु राजकम् ॥३१॥त्यक्तदण्डः पदं वांछन्नगृहीतजगत्करः ।क्षोणीपतिः पतत्याशु जराक्रान्त इव ध्रुवम् ॥३२॥युक्तिमित्थमुपायानां कुर्वाणस्य चतुष्टयीम् ।परैरिन्दुप्रभागौरं व्रजत्यक्षय्यतां यशः ॥३३॥शूरं पुरुषसारज्ञं नीतौ पटुमलम्पटम् ।वर्धयन्ति नृपं कोशैः सम्यक्संरक्षिताः प्रजाः ॥३४॥लम्भनीयः पदं नोच्चैर्गुण्योऽप्यन्वयवर्जितः ।रत्नाढ्यमपि कुर्वीत मूर्घि्न कः पादमण्डनम् ॥३५॥गुणैः कैरप्यविख्यातो वंशेनैव विभावितः ।मूर्खो वर्ज्यः कुलीनोऽपि मातङ्गः इव भूभुजा ॥३६॥तद्युक्तमुपधाशुद्धमन्वयेन गुणेन च ।साचिव्यं लम्भयन्मौलं न प्रमाद्यति भूपतिः ॥३७॥यस्मिन्कृत्यानुरोधेन सौहृदं वितनोति यः ।स तं त्यजति कृत्यान्ते तीर्णतोय इव प्लवम् ॥३८॥यौ तु निष्कारणामुक्तस्नेहपाशौ सुहृत्तमौ ।मृत्युनैव तयोर्भेदो देहजीवितयोरिव ॥३९॥जगद्रक्षन्ति कीनाशराजराजपिनाकिनः ।दण्डद्रविणदुर्गैकसङ्गिनः किमु राजकम् ॥४०॥इति प्रकृतिवर्गादिनिर्णयेषु नयाश्रयः ।क्षपितान्तर्बहिःशत्रुः शाधि साधु वसुन्धराम् ॥४१॥इत्थं वादिनि राजेन्द्रे रामो मौनमधिश्रितः ।शोकेन हदयं वाष्पैर्ववर्ष हृदयाविधा ॥४२॥ततो भद्रासने भद्रं स निधाय निधिः श्रियः ।निर्भरीकृतसम्भारः प्राभिषिक्तो महीपतिः ॥४३॥रुरुषे पृष्ठसंविष्टग्रन्थिमन्थरयातया ।स्मारयित्वा वरो वीरं राज्यं मन्थरया तया ॥४४॥चतुर्दश दशग्रीवशत्रुमिन्द्रसमः समाः ।आदिदेश ततो वस्तुं वनेषु वनजेक्षणम् ॥४५॥अनिन्द्यजानिनारूढो निर्जगाम पुरः पुरः ।कृतप्रस्थानसौमित्रिः स्फुरत्केतुरथो रथः ॥४६॥अश्रुभिर्हृदयं सीता निजमेव न केवलम् ।प्रेक्षितस्य१ जनस्यापि चकारार्द्रं वनाध्वनि ॥४७॥जगन्नेत्राभिरामस्य रामस्य रहितागसः ।शक्लस्य२ त्यागिनं देवं घृणयेवासवो जहुः ॥४८॥न्यवर्तत परित्यज्य क्षत्ताऽथ क्षत्रियत्रयम् ।ऊढाश्रु वलितग्रीवं चिरं तेनैव वीक्षितः ॥४९॥द्वित्राण्येव रथं त्यक्वा पदान्याधाय निःसहा ।येय३मद्य कियद्दूरमिति पप्रच्छ मैथिली ॥५०॥रामहस्तस्थशाखाग्रकल्पितातपवारणम् ।प्रस्थानमभवत्तस्यास्तदग्रेसरलक्ष्मणम् ॥५१॥ययुर्भागीरथीतीरं पश्यन्तः सोत्पलाम्भसः ।इक्षुशाकटशालेयेक्षेत्रानुत्तरकोसलान् ॥५२॥अथानासाद्य कालिन्दीमुल्लंघ्य सरितं दिवः ।भरद्वाजाश्रमं पुण्यं चित्रकूटस्य चाध्वनः ॥५३॥उक्वा नदनदीदेशैश्चिह्नं वृक्षक्षमाधरः ।याते राजन्यभोगीने राघवोऽपि गुहे गृहम् ॥५४॥सपत्न्यौ सरितां पत्युः सुमित्रात्मजधीवरैः ।चित्रकूटमकूटज्ञः प्रीतः प्रोत्तारितो ययौ ॥५५॥ततः सीतामुखाम्भोजभ्रमरत्वे कृतस्पृहम् ।नष्टैकदृष्टिमस्त्रेण बलिपुष्टं चकार सः ॥५६॥ततः प्रकृतिसङ्घाटो वीरः केकयवंश्यजः ।शोकद्विगुणितं बिभ्रद्ययौ रामाश्रमं श्रमम् ॥५७॥निर्घृणो राजघः कश्चित्सम्प्राप्त इति साधवे ।कथ्यतामिति तद्वाक्यं द्वारि शुश्राव राघवः ॥५८॥अनुज्ञातोऽनुजस्तेन पर्णशालामथाविशत् ।द्वारबन्धातिरिक्तेन किञ्चत्तिर्यक्कृतोरसा ॥५९॥भरतः शोकसन्तप्तो राममादाय पादयोः ।उक्वार्येति सकृद्दीनः पुनर्नोवाच किञ्चन ॥६०॥ततः श्रुत्वा गुरोरन्तं स दुःखेन हदिस्पृशा ।साभिषेकमिवास्रेण चक्रे कर्मौर्ध्वदैहिकम् ॥६१॥शपमानमथ स्वस्मै भरतं भूतिनिःस्पृहम् ।गर्हयन्तं च कैकेयीं रामो वक्तुं प्रचक्रमे ॥६२॥न स्मरामि गुरोराज्ञां ज्ञात्वा जातु विलंघिताम् ।यतस्तातस्य नो हन्तुं सदृक्षं समयं हि नः ॥६३॥समयस्य गुरोरिन्द्रलोकस्थस्य विलङ्घने ।बुद्धिर्जनि पुनर्मैव निर्विशङ्का च तावकी ॥६४॥पूजनीया च ते देवी पत्युः सत्यानुपालिनी ।दूषयिष्यति पूज्येषु पूजावैमुख्यमायतिम् ॥६५॥स्वयंकृतेन दोषेण गुरुर्यो येन लज्जते ।तेन तत्सन्निधौ तद्वानन्योऽपि न विनिन्द्यताम् ॥६६॥इति व्याहृत्य नम्राय ददौ दीनाय पादुके ।मर्माविधि मरौ घर्मे वारि वारीष्यते यथा ॥६७॥द्विधाकारमिव ज्यायान्भरतं हदयं चिरम् ।दर्शयन्तं परिष्वङ्गप्राप्तसान्त्वं व्यसर्जयत् ॥६८॥ततस्तं त्यजता शैलं विराधो रावणारिणा ।दृष्टस्तनूनपादर्चिर्बभ्रुः पञ्चवटीपथे ॥६९॥हरन्तमथ वैदेहीं तं निहत्य निशाचरम् ।विवरिष्यत्कथावस्तुं सङ्खिप्येव व्यदर्शयत् ॥७०॥ववृते विवृते तस्य रङ्गत्सारङ्गशावकैः ।पञ्चवट्याश्रमे रम्ये वासो वासववर्चसः ॥७१॥अथ रामं वृषस्यन्ती प्रपेदे नैकसीसुता ।प्रचिन्तेव दरिद्रस्य स्थूललक्षं नरेश्वरम् ॥७२॥सीताविद्रावणक्रुद्धश्चकर्त कृपया समम् ।लक्ष्मणस्तन्मुखाम्भोजकर्णिकामथ नासिकाम् ॥७३॥भ्रातृद्वये तथाहूते शस्त्रैर्वर्षति राघवौ ।पर्यवारयतां क्षिप्रं क्षुरप्रप्रकरैर्बलम् ॥७४॥खरदूषणयोर्युद्धे धारामेकधनुर्धरः ।अदीधपत गृध्राणां व्रातं सत्यव्रतोऽसृजः ॥७५॥सीता मस्करिणं कञ्चिद्ददर्शाश्रममागतम् ।दाण्डाजनिकमुत्तुङ्गजटामण्डितमस्तकम् ॥७६॥मृगव्याहृतराजन्यो वर्णिलिङ्गी निशाचरः ।उग्ररूपो निजं रूपं घोरं प्रादुरबीभवत् ॥७७॥दशानामुग्रतेजस्कं रूपधेयमधिश्रितम् ।शिरसामस्य पश्यन्ती भीत्या कम्पत मैथिली ॥७८॥प्रदीपमिव तत्तेजःपरिष्कृतदशाननम् ।असोढमरुतं द्रष्टुं नात्यासन्नं शशाक सा ॥७९॥रामारत्नमसौ रामनामाक्रन्दिदं वचः ।जगाद जगदीशस्य क्षेपदुष्टं क्षपाचरः ॥८०॥सारङ्गाक्षि शरस्तस्य केवलं तु खरे खरः ।न त्रिलोक्याविभौ भद्रे रणे दूषणदूषणः ॥८१॥लब्धाभया बलनिरीक्षणदोहदेनद्वारि स्थिता निजपुरप्रवरस्य सिद्धाः ।ऐरावतद्विपगतेन सहासगर्वंदृष्टा मया सुरपुरं व्रजता कटाक्षैः ॥८२॥अन्यायितोऽहमहमप्यनुवृत्य सेवांनिर्जीविको मम हृतं भवनं पिशाचैः ।इत्युन्नदन्भ्रमति मत्प्रतिहारमेत्यराजाङ्गणे सुरगणः सह लोकपालैः ॥८३॥स्पष्टोत्पिष्टवृहत्त्रिविष्टपबलं बाहुं बहुक्षोभित-क्ष्मापातालतलं तलेन दलितश्वेताचलेन्द्रं मम ।नो वांछत्युपधानभूतमबले धन्या सुरस्त्रीषु कातल्पेनल्पविकल्पजल्पमधुरक्रीडारसे सेवितुम् ॥८४॥उर्वश्या परिवीजनेषु मधुरं नृत्तं यथा हेलयातन्वन्त्या जितशारदेन्दुकिरणच्छायोलसच्चामरम् ।आसज्य स्वयमङ्गदस्य शिखरे निर्मोचयन्त्या पुनःस्नेहस्विन्नविवेपमानकरया सोऽयं भुजः स्पृश्यते ॥८५॥एकस्मिंछयने मया मयसुतामालिङ्गघ निद्रालया-मुन्निद्रं शयितेन मच्चरणयोः सम्बाहनव्यापृता ।पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिताहर्षावेशसमर्पितानि पुलकान्यद्यापि नो मुञ्चति ॥८६॥अक्षान्दीव्यति दानवेन्द्रसुतया सार्धं स्मरार्ते मयिक्रीडायत्नपरिश्रमः पण इति श्रुत्वा गतात्सह्यताम् ।द्यूतं कारयति प्रयोगचतुरा रम्भोरुरम्भाह्वयामत्तो मन्मथवस्तुसंहितविधौ वृद्धौ विवृद्धस्पृहा ॥८७॥सर्वस्वर्गवराङ्गनाधृतिहृति प्रेमप्रधानं मयित्रैलोक्याधिपतौ विधाय हदयं याया जगत्पूज्यताम् ।नारीमाश्रयसम्पदेव नयति श्रेयस्करीमुन्नतिंमान्या मानिनि कस्य धूर्जटिजटाजुष्टा न जह्नोः सुता ॥८८॥हस्तौ पल्लवकोमलौ करयुगेनादाय वासः शनै-रन्येन व्यपनीय पाणियुगलेनामृश्य काञ्च्यास्पदम् ।मय्यालिङ्गति बाहुभिः सुबहुभिः शेषैर्विलक्षस्मित-ज्योत्स्नासेकमनोहराधरपुटं वक्त्रं स्वयं दास्यसि ॥८९॥इत्युक्वादाय रक्षःपतिरवनिसुतामुत्प्लुतो मीनजालै-श्चित्रं व्योमाम्बुराशिं घनपवनरयास्फालगुञ्जद्घनोर्मिम् ।पोतेनेव प्रकम्पध्वनिनिवहमसौ बिभ्रता पुष्पकेणस्फूर्जत्सीतेन यात्रामनुपहतजवव्यापिनीमाललम्बे ॥९०॥इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्येदशमः सर्गः समाप्तः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP