जानकीहरणम् - द्वादशः सर्गः
'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,
स्मरावहे राजसुताविनाकृतं
वनेऽथ लब्धावसरेव सेवितुम् ।
अफुल्लपङ्केरुहकर्कशस्तनी
शरत्प्रपेदे नृपवासवात्मजम् ॥१॥
सहस्ररश्मेरुपरोधनिर्गमात्
भस्यनाकुञ्चितरश्मिसम्पदः ।
ययुः खुरग्राहकमेघकर्दम-
व्यपायनिस्सङ्गसुखं तुरङ्गमाः ॥२॥
पयोदनिर्मोकमुदस्य भेजिरे
दिशो यदि स्वं प्रथमोचितं वपुः ।
जहौ किमिन्द्रायुधरत्नरञ्जित-
भ्रमत्तडिन्मण्डलमण्डनं नभः ॥३॥
घनव्यपायेन सुदूरमुत्सृताः
परिक्वणत्सारसपङ्क्तिभूषणाः ।
समुद्रकान्ता इव निर्मलत्विषो
बभूवुरुत्तारमनोहरा दिशः ॥४॥
प्रपेदिरे शोषमशेषमम्भसः
क्षयेण केदारतलेषु शालयः ।
तपन्ति पादाश्रयिणामसंशयं
विपत्तयो हि स्पृशतः सशूकताम् ॥५॥
निजेक्षणस्पर्धि निकृत्य पङ्कजं
दधुः शिरोभिः कलमस्य गोपिकाः ।
विपक्षमुद्धृत्य नयन्ति यत्नतः
पदं विशेषेण सदेव साधवः ॥६॥
सितच्छदे गायति तत्त्ववर्तिना
लयेन कालस्य कुशेशयाकरः ।
सरोजपाणावनुपूर्वमुल्लस-
द्दलाङ्गुलीभिः कलनामिवाददे ॥७॥
प्रचण्डवातापगमेन निश्चलं
प्रसन्नमन्तर्जलदृष्टतारकम् ।
सहैव वृष्ट्या पतितं महीतले
सरो नभःखण्डमिव व्यराजत ॥८॥
मणिप्रभेषु प्रतिबिम्बशोभया
निमग्नया बालमृगाङ्कलखेया ।
विसाङ्कुरो वारिषु वञ्चितात्मना
न राजहंसेन पुनर्विचिच्छिदे ॥९॥
निपीड्य चञ्च्वा कमलस्य कुड्मलं
विबोधयामास बलेन सारसः ।
सुगन्धिगभं सुकुलीकृतं ह्रिया
पतिः प्रयत्नादिव कन्यकामुखम् ॥१०॥
ततस्ततं धाम सुतो महीभुजः
कृतस्मरोद्दीप्ति निरीक्ष्य शारदम् ।
ऋतोरिदं वैभवशंसि हारिणश्चकार
लक्षीकृतलक्ष्मणं वचः ॥११॥
शिरोरुहेषु स्फटिकप्रभामुषः
पयोदकालस्य गतस्य विस्रसाम्
घनच्छलेन प्रथितेषु सर्वतः
फलन्ति पालित्यकृता इव त्विषः ॥१२॥
प्रवासमालम्ब्य घनागमश्रियः
पयोधरस्पर्शवियोगनिःस्पृहः ।
महीधरः स्वं शिखरावसङ्गिनं
त्यजत्यसौ मत्तशिखण्डिशेखरम् ॥१३॥
विभान्त्यमी बालमृणालपाण्डुरा
विसृष्टधाराः शरदभ्रसंचयाः
सुरेन्द्रचापेन विधूय सञ्चिता
दिगङ्गनानामिव तूलराशयः ॥१४॥
असौ नभत्सागरवीचिसन्ततिः
प्रसन्नदिक्काननराजिलाङ्गली ।
प्रभाभिराम्रेडितशक्रकार्मुका
तनोति तोषं जगतः शुकावली ॥१५॥
अमी समीराश्रयदूरपातिना
सरोजगन्धेन विकृष्टचेतसः ।
भ्रमन्ति हंसा हिमरश्मिरोचिषः
सिताभ्रखण्डा इव मारुतेरिताः ॥१६॥
कृतं प्रभावेन महद्भिरायतं
जगत्पराभावमपि प्रशंसति ।
यदेष पादेन सरोरुहाकरः
तनोति हासं विहतो विवस्वतः ॥१७॥
अमीषु वप्रस्य विपाण्डु बिभ्रतः
शुचेव शोचिः सलिलेषु शालयः ।
अलङ्घयमागामि विनम्रमस्तका
विचिन्तयन्तीव भयं शुकाननात् ॥१८॥
सरोजमेकं प्रथमं समुद्गतं
विभाति पद्माकरनाशनो घनः ।
गतो न वेतीक्षितुमम्बुजैः
परैरुदेतुकामैः कृतमग्रतो यथा ॥१९॥
शरद्घनासारनिषेकशीतलं
समुल्लसन्त्यो निजपत्त्रसञ्चयम् ।
प्रतारयन्तीव विशोषवाञ्छया
सरोजमालास्तरुणार्करश्मिभिः ॥२०॥
न केवलं स्वं निरुणद्धि लुम्पतः
स्वनेन शस्यं कलमस्य गोपिका ।
विपाकभाजः पशुपक्षिणो गुणैः
हृदि प्रनुन्नानिह शालिसम्पदः ॥२१॥
नियम्य हारेण भिदामुदाहरत्
कृशस्य मध्यस्य बृहत्कुचद्वयम् ।
प्रमाणमुल्लङ्घ्य वपुर्विधित्सती
विलोचने च श्रवणस्य सम्पदा ॥२२॥
विपाण्डुनो धामनि रोचिषः शुभे
वलित्रये सङ्गतरोमसन्ततिम्
कुवद्वयेनाभिनिपीडितान्तरं
विवर्धमानेन सुदूरमेष्यतीम् ॥२३॥
मृणालनालाधिकमार्दवे भृशं
प्रसद्य जङ्घे विपुलं पराभवत् ।
तटं नितम्बस्य च मेखलागुणै-
र्निबध्य पीनोरुयुगं निषेधति ॥२४॥
अमी निरस्ता युवतीभिरग्रतः
शुका विपन्नश्रियमप्यधिश्रिताः
सपल्लवं कुमलमण्डितं वपु-
र्वसन्तगम्यं गमयन्ति किंशुकम् ॥२५॥
इयं कवर्या शितिकंठसन्निभं
वपुर्वहन्त्या शरपाण्डुरत्विषि ।
त्रिकोपकण्ठेऽसितपद्मसंहति-
व्युदस्तबन्धच्युतया शिखण्डिनीम् ॥२६॥
रथाङ्गनामानमुदस्तवाससा
कुचेन तत्प्राणसमानुकारिणा ।
विसर्पतः स्तम्बकरैर्निरन्तरं
निगूढजानिं कमलस्य कानने ॥२७॥
अनुव्रजन्त्या वकुलं विपक्वं
समस्तवद्वारुणिमाधरश्रिया ।
शुकं प्रसक्तश्रवणेन शिक्षितस्य
यूथनिर्वासनवर्णसंहतिम् ॥२८॥
कुरङ्गशाबं नवपल्लवश्रियं
तरोरशोकस्य करेण बिभ्रता ।
विलोभयन्ती निजशस्यसम्पदः
शनैरुदस्यत्यपरा पराभवम् ॥२९॥
नखेन कृत्त्वा नवचन्द्रसन्निभं
निधाय बन्धूकदलं कपोलयोः ।
प्रियाय कोपं समुपाहरत्यसौ
परस्य गोपी नखमार्गशङ्किने ॥३०॥
लिखन्खुरेण क्षितिमुग्रनर्दितः
करोति रेखा नु जयस्य सङ्ख्यया ।
पतिर्गवामेष विधित्सुराहवं
द्विषद्वृषानाह्वयते नु संज्ञया ॥३१॥
असौ चरन्ती बिसभास्यनिःसृतै-
स्तदङ्कुरैः कल्पितदन्तनिर्गमा ।
वराहधेनुस्तनयेन दूरतः
समीक्ष्यते मत्तवराहशङ्कया ॥३२॥
श्रियं प्रवृत्तामिति साधु शारदी-
मुपेक्षते यः समरोद्यमक्षमाम् ।
स यातु हन्ता समयस्य वानरः
प्रबोधमित्थं प्रहतो वचश्शरैः ॥३३॥
विधाय सङ्गाहनिपातचूर्णितं
रणे शिरस्त्वां तनुजो मरुत्वतः ।
करं नयन्दण्डधरस्य पातितो
मया किमेतत्कलमस्य कर्मणः ॥३४॥
श्रियोपगूढः समये पयोमुचां
विधाय भोगे महति स्थितिं चिरम् ।
भवानपूर्वः खलु सेवते हरि-
र्न विप्रबोधं शरदोऽपि सङ्गमे ॥३५॥
मदं नवैश्वर्यबलेन लम्भितं
विसृज्य पूर्वः समयो विमृश्यताम्
जगज्जिघत्सातुरकण्ठपद्धतिर्न
वालिनैवाहिततृप्तिरन्तकः ॥३६॥
कृतं गुणेषु स्पृहया गुणव्रतै-
रवस्तुभावं गमयन्नसज्जनः ।
असंशयं व्यर्थपरिश्रमाहित-
प्रकोपदुष्टैः पुनरेव हन्यते ॥३७॥
गिरीन्द्रसारस्य गिरं गरीयसस्ततः
समाकर्ण्य मुहुः समाहितः ।
कृतव्यलीकस्य वलीमुखप्रभोर्ययौ
न यज्ञो भवनाय लक्ष्मणः ॥३८॥
अथ प्रमार्जन्निषुधिं महीभुजः
सुतस्य सन्देशमशेषमुद्धतः ।
स तं भ्रुकुट्या निजगौ कपीश्वरं
दहन्नमर्षानलधूमरेखया ॥३९॥
स्थितेन नीताविति वृत्तविक्रियं
नियुज्य रामस्य नमस्ययाऽनुजम् ।
उपाहरन्त्यः प्रशमं रुषः परं
सुतेन भानोरिति तेनिरे गिरः ॥४०॥
जयत्ययं ते भुवि भीतभीतिहृ-
द्भुजो भुजङ्गाधिपभोगसन्निभः ।
यदाश्रयाद्भूरिविभूतिमोहिता
विदन्ति नैवं समयं स्वयंकृतम् ॥४१॥
विलुप्तदुःखस्य तवाङ्गिसेवया
तवैव बाहुप्रतिबद्धसम्पदः ।
अयं प्रमादो मम सम्पदा
कृतः शशिप्रभं तानयतीव ते यशः ॥४२॥
कृतानभिज्ञेऽपि कृतं मयि त्वया
विचिन्त्य भूयः समुपैति मार्दवम् ।
अवैति नो वर्धयितारमङ्घ्रिप-
स्तथाऽपि तं वर्धयिताऽनुकम्पते ॥४३॥
यदादिमत्तन्नियतं विनाशव-
द्वदन्ति विद्यापरिशुद्धवृद्धयः ।
भवादृशस्तत्क्षणजातमप्यहो
जनस्य शंसन्त्यविनाशि सङ्गतम् ॥४४॥
इहाधिपत्यं तव पादसेवया
मयाऽनुभूतं च नचेह विस्मयः ।
वने वृकेणापि मृगेन्द्रसेवने
न दुर्लभं हि द्विपराजशोणितम् ॥४५॥
मयि स्म माऽऽसीदवनेरधीशितुः
सुतेन तस्योपकृतस्य निष्क्रयः ।
जनो विपत्तौ भजते हि शक्तिभि-
र्विनाकृतः प्रत्युपकारमन्यतः ॥४६॥
विनैव साधुः फलबन्धिलिप्सया
तनोति पादाश्रयिणामुपक्रियाम् ।
क्षपाकरः किं कुमुदानि बोधयन्
ततः फलं वाञ्छति किञ्चिदात्मनः ॥४७॥
जनः स्थितस्तेजसि तादृशः परं
वृणोति कृत्ये न सहायमात्मनः ।
तमिस्रभेदाय दिशः परिभ्रमन्
न हि प्रदीपं वहति प्रभाकरः ॥४८॥
विचिन्त्यमाने गुणदोषमिश्रिता
न वै न सर्वत्र जने विभाव्यते ।
गुणापराधेषु जनस्य योऽधिकः
स एव सद्भिः परिगृह्यते यतः ॥४९॥
अनिन्द्यभक्तित्वमनन्यसङ्गतं
गुणं मदीयं विगणय्य दुस्त्यजम् ।
वसन्निहैवागमयस्व यावता
पतन्ति कालेन वने वनौकसः ॥५०॥
इति प्रयुक्तैरनुनीय नीतिभिः
सुतं नरेन्द्रस्य वचोभिरुद्धतम् ।
दिनेषु यूथेन चचाल केषुचि-
द्गतेषु यूथाधिपतिर्वनौकसाम् ॥५१॥
नुनोद कोपं हृदि तस्य दुच्छिदं
पतिः कपीनामभिराममानतः ।
जनस्य चेतो दधतः समुन्नतं रुषः
प्रणीपातविधिः प्रतिक्रिया ॥५२॥
गयगवयगवाक्षनीलधूम्रान्
पनसदरीमुखभीमवक्त्रतारान् ।
शरभवृषभकेशरीन्द्रजानून्
नलकुमुदाङ्गदगन्घमादनाद्यान् ॥५३॥
इतरदपि कुलं कुलप्रधानः
समुपनमय्य कपिः कपीश्वराणाम् ।
स्वयमपि निगदन्ननाम नाम
क्षितिपसुताय सुतः समीरणस्य ॥५४॥
शतबलिविनतौ भिषक्समीर-
प्रवरसुतौ विससर्ज वानरेन्द्रः ।
धनविबुधपयःपरेतनाथै-
र्जनकसुताविचये दिशः सुगुप्ताः ॥५५॥
निरुध्य दशदिङ्मुखं दशमुखस्य वेत्तुं गतिं
कपिप्रभुविसर्जितं जितमृगेन्द्रविस्फूर्जितम् ।
चचार जनकात्मजासमुपलब्धिचिन्ताकुलं
कुलं क्षितिधरौकसां तरलवीक्षणं तत्क्षणम् ॥५६॥
इति श्रीकुमारदासस्य कृतौ जानकोहरणे
महाकाव्ये द्वादशः सर्गः समाप्तः॥
N/A
References : N/A
Last Updated : September 29, 2022
TOP