जानकीहरणम् - सप्तमः सर्गः
'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,
ततो धरित्रीतनयाऽविलङ्घ्यं
सा शासनं प्राप्य गुरोर्गरीयः ।
स्थपत्यशुद्धान्तजनैः परीता
जगाम कर्त्तुं व्रतिनो नमस्याम् ॥१॥
नत्वा सुखेन द्विपकुम्भपीन-
स्तनावकृष्टा चरणौ महर्षेः ।
तमेव भूयो भरमुद्वहन्ती
समुन्ननाम प्रतिपद्य यत्नम् ॥२॥
यत्सत्यमस्यां प्रविभाव्यरागो
दृष्टिप्रवेकः खलु कृष्णवर्त्मा ।
स्नेहेरितो येन ददाह भर्तु-
र्धैर्येन्धनं तद्धनदोपमस्य ॥३॥
मनोभुवस्तद्धृदयोपकार्या
विन्यस्तपीनस्तनहेमकुम्भा ।
स्वेदाम्बुभिस्तत्प्रथमप्रवेशे
सिक्ताऽपि नैवात्र रजः शशाम ॥४॥
तुष्टो नु शैवस्य सुबाहुशत्रुं
चापस्य भङ्गादविपन्नधाम्नः ।
स्मरस्तमालिङ्ग्य तया प्रयुक्त-
श्चक्रे विहस्तं नु विशालदृष्ट्या ॥५॥
विधातृमुख्यैरविमृश्यरूपं
रूपं निरूप्यार्द्धनिरीक्षितेन ।
एवं मनस्वी मनसैव भूम्ना
गुणान्स तस्या गणयाम्बभूव ॥६॥
प्रसीद मैवं परिभूदखण्डं
ताराधिपं ते वदनामृतांशुः ।
इति प्रियायाः पतितेव पादे
ताराततिर्दीप्रनखच्छलेन ॥७॥
गुर्वी नितान्तं कृशवृत्ति कृष्ट्या
मा स्मच्छिनन्मध्यमिति प्रचिन्त्य ।
श्रेणी तदूरुद्वयशातकुम्भ-
स्तम्भद्वयेनेव धृता विधात्रा ॥८॥
सोष्मं प्रकृत्या कठिनं द्वयं यत्
तापं तनोति स्तनयोस्तदस्तु ।
मध्यस्थमप्येतदनिन्द्यवृत्ते-
र्वलित्रयं मान्दहतीति चित्रम् ॥९॥
स्तनौ नु कुम्भप्रतिमौ सुदत्या
निःशेषवक्षस्तटबद्धबिम्बौ ।
पिण्डौ नु पीनौ नवयौवनस्य
न्यस्तौ शरीरादतिरिक्तवन्तौ ॥१०॥
अन्योन्यबाधिस्तनमण्डलस्य
मध्यस्य तन्व्या नवरोमराजिः ।
शरीरजन्मानलधूमरेखा
सीमा विभक्तेव विभाति धात्रा ॥११॥
चारुप्रकोष्ठस्य भुजद्वयस्य
तथा हि दाने मदनस्य शक्तिः ।
न्यासेन यत्रैष विवृद्धदीप्ति-
र्यात्यङ्गदोऽप्येवमनङ्गदत्वं ॥१२॥
वक्त्रेन्दुलीलामनुयातुमस्याः
कलान्तराणि प्रतिपद्य चन्द्रः ।
पूर्णोऽपि साधर्म्म्यविशेषशून्यः
क्रमेण शोकादिव याति हानिम् ॥१३॥
मृगाङ्गनानां नयनानि पूर्वं
विधाय नीलानि च नीरजानि ।
कृतप्रयोगेण पुनर्विधात्रा
सृष्टं नु नेत्रद्वयमायताक्ष्याः ॥१४॥
अन्वेति कान्त्या कमनियमस्या
युग्मं भ्रुवोरायतनम्रलेखम् ।
मध्ये निकृत्तस्य रुषा हरेण
च्छेदद्वयं मन्मथकार्मुकस्य ॥१५॥
भ्रुवौ नु वक्तुं तरलत्वमक्ष्णो-
र्भ्रूयुग्मकौटिल्यमिमे नु दृष्टी ।
असर्पतामापतितालकान्त-
पर्यस्तकान्तिश्रुतिमूलमस्याः ॥१६॥
तन्व्या मनोज्ञस्वरनैपुणेन
विनिर्जितो रोषविलोहिताक्षः ।
प्रसक्तचिन्ताऽऽहितमन्यपुष्टः
शोकेन कार्ष्ण्यं वहतीति मन्ये ॥१७॥
चित्रीयते तन्न यदात्मयोने-
स्तीव्रा मयि व्याहृ१तिरायुधानाम् ।
पुष्पायुधः स्वात्मनि शस्त्रपातान्
कुर्वीत सीताऽऽकृति वीक्ष्य रत्नम् ॥१८॥
इ१ति स्म तस्यातिगुरुप्रतर्के
चेतस्यथ प्राह मुनिं नरेन्द्रः ।
प्रणम्य शुद्धान्तमुपैति पादौ
तीर्थादनूनौ भवतः स्नुषेति ॥१९॥
कलत्रभारेण कुचद्वयस्य
स्थाम्ना तथा मन्थरविक्रमायाः ।
आसीदसौ राजसुतस्तृतीय-
स्तस्यास्तु हेतुर्गतिमन्थरत्वे ॥२०॥
अनुव्रजन्तं किल नाम किञ्चित्
प्रव्याहरन्ती परिबर्हवर्गम् ।
तिर्यग्विवृत्ताननचन्द्रबिम्बा
रामं जघानार्द्धनिरीक्षितेन ॥२१॥
भर्त्ता भुवः संयमिनं गतायां
तस्यां ततस्तं सह राघवाभ्याम् ।
द्रष्टुं निनाय स्वयमृद्धिसारं
सत्रस्य विप्रैरकृशं ततस्य ॥२२॥
दूरोऽपि देहेन वियोगवह्नेः
प्रवर्द्धिताधिः स्फुटतीति भीतः ।
तद्रक्षणाये२व कृतप्रयत्नो
मुमोच तस्या हृदयं न रामः ॥२३॥
याते च रामे नयनाभिरामे
दृष्ट्वा दिशः किं फलमस्ति शून्याः ।
इतीव पद्मायतलोचनाया
विलोचने नेत्रजलं रुरोध ॥२४॥
कृते च पाणिग्रहणे मयेयं
बाला परत्राहितरागवृत्तिः ।
जातेति रोषेण यथा कृशाङ्ग्या-
स्तस्याः कराग्रं वलयं ससर्ज ॥२५॥
सन्तापवह्निर्हृदि सन्नताङ्ग्याः
कामाहितः खेदविलोहितेन ।
नेत्रद्वयेनेव बहिःप्रवृत्त-
ज्वालावलिः संविविदे सखीभिः ॥२६॥
याता नु सा तानवमङ्गजाग्नि-
तप्ते चिरं तद्धृदये निवासात् ।
उत स्वकीये हृदि तं निविष्ट-
मूढ्वा तनुत्वं श्रमजं गता नु ॥२७॥
दूरेऽपि रामः परिकल्पवृत्त्या
किं दृश्यते मे किमथः प्रवासः ।
स्थितेऽपि तस्मिन्प्रतिभाति पापा-
दित्यास तस्या विविधो विकल्पः ॥२८॥
मृदुप्रवालास्तरणेऽपि तन्वी
शिलातले नैव धृतिं सिषेवे ।
असृक्स्रवार्द्रे शरतल्पमध्ये
सा पुष्पकेतोरिव वर्तमाना ॥२९॥
तुषाररश्मेरुदयेऽपि तस्या
नेत्रोत्पलं नो मुकुलीबभूव ।
चन्द्रे मुखच्छद्मनि दीर्घकाल-
मभ्यासतो नु प्रियचिन्तया नु ॥३०॥
सशीकरं गर्भदलं कदल्या
न्यस्तं नताङ्ग्या हृदये सखीभिः ।
बबन्ध भिन्नस्फटिकावदातं
पुष्पेषु बाणव्रणपट्टशोभाम् ॥३१॥
स्वपादसेवाभिरतेऽपि किं तत्
कस्यापि दृष्ट्या मयि यद्विरागः ।
अतानि तन्नूपुरयोरमन्दं
युग्मेन शैथिल्यमितीव तस्याः ॥३२॥
सखीसमीपेऽपि सखेदवृत्ति-
श्चन्द्रातपैरप्यनुतापभाजा ।
देहेन वैदेहसुता कथञ्चिन्-
निनाय दीना कतिचिद्दिनानि ॥३३॥
सार्द्धं द्विजैः पावनसोमपान-
निर्द्धूतपाप्मन्यथ सत्रनाथे ।
मखस्य कोटिं प्रकृतस्य मुख्ये
क्षितिक्षितामीयुषि वीतविघ्नम् ॥३४॥
सुमन्त्रसूतः सुतयुग्ममन्यत्
ततः समादाय समग्रशक्तिः ।
जनाधिनाथो जनकस्य राज्ञः
पुरं प्रपेदे पुरुहूतकल्पः ॥३५॥
क्षत्रस्य नक्षत्रमदोषदुष्टं
वैवाहिकं वाहितशत्रुवीरः ।
पुरोहितेनाभिहितं निशम्य
सम्पादयामास विधिं विधिज्ञः ॥३६॥
अच्छेदवत्पावनतीर्थतोये
धिष्ण्यं नृपस्य प्रसृते समन्तात् ।
स्नातद्विजारूढमदद्विपेन्द्र-
स्कन्धस्थकार्तस्वरकुम्भपङ्त्या ॥३७॥
तिरोदधाने गगनं सुगन्धौ
कर्पूरकृष्णागरुसारधूपे ।
रथ्योभयान्ताहितशातकुम्भ-
कुम्भस्थपङ्केरुहगन्धविद्धे ॥३८॥
चरत्सु वन्द्यानननिःसृतेषु
नरेन्द्रसूनोर्जयघोषणेषु ।
प्रध्मातशङ्खध्वनिबृंहितेषु
ध्वनत्सु तूर्येषु च मङ्गलाय ॥३९॥
लाजा जलं दर्भमिति प्रसक्त-
माविष्कृताम्रेडितशीघ्रनादे ।
आहूय सम्पादयतोऽपि भृत्यान्
प्रत्युद्व्रजत्याकुलभृत्यवर्गे ॥४०॥
वृत्तिं मुहुर्यामघटीजलस्य
ज्ञातुं प्रयुक्ते च गतागताभ्याम् ।
धावत्युरोघातनिपातितार्ध-
मार्गस्थलोके नृपदाशबृन्दे ॥४१॥
आसन्नभूतो महितो मुहूर्त्तः
किं स्थीयते तावदिति प्रगल्भम् ।
वृद्धेषु वंशद्वितयस्य धीरं
स्नानाय सद्यस्त्वरयत्सु रामम् ॥४२॥
उच्चैहृतान्यस्वरमुच्चरत्सु
समं समाविष्कृतमङ्गलेषु ।
आपूरिताशेषककुम्मुखेषु
पटुप्रसक्तं पटहध्वनेषु ॥४३॥
आहत्य तत्रानुपयोगवन्ति
वेत्रेण हुङ्कारकृता मुखेन ।
निरस्यमाने च जने दिदृक्षु-
बृन्दानि वेत्रग्रहणाधिकारे ॥४४॥
तत्रैव पर्यस्य यथा सुताया
नृपस्य वित्तानि जनो विधिज्ञः ।
आद्यं विवाहस्य ततान शच्या
नामान्तरेण प्रथितं विधानम् ॥४५॥
हुङ्कारमात्रप्रथितैरमर्षै-
स्तिर्यक्कराग्रस्य विकम्पितेन ।
निवारयन्तो मुखरं जनौघं
माशाब्दिका वेश्मनि तत्र चेरुः ॥४६॥
क्रियासु दक्षाः कुशलेतरेभ्यो
भृत्या विधातुं विधिमुद्यतेभ्यः ।
वस्तूनि वैवाहिककर्मयोग्या-
न्याच्छिद्य केचिद्विदधुर्विधानम् ॥४७॥
आकल्पमन्ते विधिवद्विधाय
स्नानस्य रत्नाभरणेन दीप्तम् ।
वधूरुपान्तं विधुरा स्मरेण
वेद्या ययौ वेदविदा कृतार्घ्यम् ॥४८॥
अथोपनिन्ये नयकोविदेन
महेन्द्रसख्यास्तनुजेन तन्वी ।
लज्जाविधेया विधवेतराभि-
र्विभूषिताऽसौ विभुनन्दनाय ॥४९॥
तस्याः कुमारः सुकुमारसन्धिं
वामेतरं वामविलोचनायाः ।
समाददे सम्मदभिन्नधैर्यः
पाणिं फणीन्द्राङ्गगुरुप्रकोष्ठः ॥५०॥
सदिन्धने शीलधनेन तेन
प्राज्यं ततः प्राज्ञतरेण हव्यम् ।
आवर्जितं वर्जितदुष्कृतेन
विधातृधाम्ना विधिवत्कृशानौ ॥५१॥
प्रदक्षिणीकृत्य विवाहसाक्षी-
कृतं कृशानुं सह राघवेण ।
तन्वी ततो वेदविदा नियुक्ता
वेद्यामनंसीदनवद्यवृत्तिः ॥५२॥
गण्डस्य विम्बं दुहितुर्द्धरित्र्या
घर्माम्भसां बिन्दुरलञ्चकार ।
चेतःस्थकन्दर्पकृशानुना वा
तस्योष्मणा वा परमार्थवह्नेः ॥५३॥
चकार चक्राङ्कतलेन पाणौ
करेण भर्त्त्राभिनिपीड्यमाने ।
सीत्कारमाकुञ्चितदीर्घदृष्टिः
स्पर्शेन वह्नेः किल नाम सीता ॥५४॥
द्विजेन तेन द्विजराजवक्त्रा
व्यापारिता वाङ्मयपारगेण ।
बाला कृशानौ कृशगात्रयष्टि-
र्भावानभिज्ञाऽथ जुहाव लाजान् ॥५५॥
पत्युः करस्पर्शकृते कृशाङ्ग्या
हर्षैः सखीभिः प्रविभाव्यमाने ।
आचारधूमागमलब्धजन्मा-
न्यश्रूणि तत्संवृतये बभूवुः ॥५६॥
भोक्तुर्भुवो विप्रवरेण रामः
कृत्वा नमस्यामनुपूर्वमुक्तः ।
समेतजानिर्जनकस्य राज्ञो
वन्दिस्तुतस्याङ्घ्रियुगं ववन्दे ॥५७॥
पश्यन्सुतं पाशभृतो दधानं
गङ्गाकरासक्तकरस्य कान्तिम् ।
तस्थौ नृपः स्तब्धविशालदृष्टि-
रश्रुस्रवक्षालितपक्ष्मरेखः ॥५८॥
कक्षान्तरे दत्तसितातपत्रं
रत्नासनस्थामथ पौरमुख्याः ।
भर्त्तुः सुतामेत्य वरं च तस्या
बाष्पप्रकाशप्रणयाः प्रणेमुः ॥५९॥
रामो विवाहोत्सवसम्भृतेन
सुखेन नीत्वा कतिचिद्दिनानि ।
ततः कदाचित्समयावबोध-
दृप्तेन विद्धो हृदि मन्मथेन ॥६०॥
गौरीमिवाचारगुणेन गुर्वीं
करे गृहीत्वा करभोपमोरूम् ।
सतल्पभूभागमनल्पशोभं
भवप्रभावो भवनं विवेश ॥६१॥
भुवि विरचितमग्रे तल्पमालोक्य बाला
नृपतिभवनरत्नस्तम्भमालिङ्ग्य दोर्भ्याम् ।
स्पृशति मनसि भीतिं साश्रुपातस्थितां तां
रघुपतिरुपगुह्य प्रापयद्भूमिशय्याम् ॥६२॥
इति कुमारदासस्य कृतौ जानकीहणे महाकाव्ये
सीताविवाहवर्णनो नाम सप्तमः सर्गः ।
N/A
References : N/A
Last Updated : September 29, 2022
TOP