संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| एकादशः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - एकादशः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत एकादशः सर्गः Translation - भाषांतर अथ विकम्पितपक्षसमीरण-प्रसभनर्तितदीधितिमालिना ।विदिततद्गमनेन समुत्प्लुतंसरभसं समराय जटायुना ॥१॥जनकराजसुतामनुकर्षतःसुररिपोः पथि गृध्रसमागमः ।अवनिमित्तमवेदयदस्य तंनृपवधूहरणप्रभवं वधम् ॥२॥पतगपक्षपराहतिनर्तित-स्वभवनोदरमध्यपरिच्युतः ।उभयभित्तिविदारितमस्तक-श्चिरमकम्पत विश्रवसस्सुतः ॥३॥विहगनाथवितीर्णपराभव-प्रभवकोपविकम्पितचेतसा ।सपदि पङ्किमुखेन समाददेशरवितानकृतावरणो रणः ॥४॥क्षणमतिष्ठदुपाहितमण्डल-स्थितिमनोहरविग्रहवन्धुरः ।विपुलपक्षपुटद्वयकल्पित-प्रहरणावरणः स विहङ्गमः ॥५॥प्रववृते धृतिसंहरणो रणःपथि विहङ्गनिशाचरशासिनोः ।विधुतपक्षधनुर्गुणसंहति-ध्वनिनिनादितभूधरकन्दरः ॥६॥अथ खगेश्वरपक्षसभीरण-प्रबलवेगनिवर्तितपातितैः ।अपि निजैरतिवेगिभिरायुधै-र्दृढमहन्यत संयति रावणः ॥७॥प्रतिदिगन्तरदृष्टतनुः समंनभसि मण्डलयन्नतिरंहसा ।दशमुखं परितः स विहङ्गमःस्ववपुषा परिवेषमिवादधे ॥८॥गगनसागरभोगधराङ्गनाबिसलता हरिपादसरोरुहः ।पतगपक्षसमीरणरंहसासुरसरिद्विससर्प दिशो दश ॥९॥खगपतिर्निजपक्षसमूहितो-पहितवारिदरुद्धदृशो मुहुः ।शिरसि चंचुमदृष्टसमागमोदशमुखस्य सवेगमपातयत् ॥१०॥शिरसि तं प्रणिहत्य स मुष्टिनाभुवि निपातयति स्म निशाचरः ।द्विजपतिः पुनरेव स वेगवान्उपरि कन्दुकवद्ददृशे रिपोः ॥११॥नखशिखाशितकुन्तनिपातन-स्फुटितरत्नपिशङ्गितदिङ्मुखम् ।रिपुशिरश्चरणेन रणे रणन्मुकुटकोटि जघान विहङ्गमः ॥१२॥अथ स कुन्तमुखेन शकुन्तपंतमभयः समरे समदारयत् ।द्विजवरोऽपि ततो नखरैःखरैरपघनं घनमस्य जघान सः ॥१३॥हृदि समर्पितकुन्तमुखं मुहु-र्विततपक्षनिरुद्धनभस्तलम् ।खगपतेः समरोचत तद्वपु-र्निहितदण्डमिवातपवारणम् ॥१४॥युधि विधूय तदायुधमुत्प्लुत-श्चपलतुण्डविखण्डितमण्डनम् ।विबुधशत्रुशिरस्तरसा रसन्-अभिनिपत्य जघान पतत्पतिः ॥१५॥नखशिखाङ्कुशकोटिषु मस्तकेनिपतितासु दशाननदिग्गजः ।अभिननाद भृशं दशभिर्मुखै-र्प्रबलनादनिनादितदिग्गजः ॥१६॥नखमुखोपहितायुधकर्मणस्तनुतनुच्छदसन्ततिवर्मणः ।रणमवेक्ष्य विहङ्गगतेर्जगुःसपदि साधुवचः सुरकिन्नराः ॥१७॥अथ विदर्शितपूर्वपुरन्दर-द्विरदकुम्भविपाटनपाटवम् ।असिमसावसितोत्पलसप्रभंसुररिपुः समराय समाददे ॥१८॥सपदि मातुमिवास्य दिगन्तरंविततपक्षयुगस्य पतत्रिणः ।पृथुवितानमिवामरवर्त्मनोविपुलमंसपुटं निजघान सः ॥१९॥द्विजवरस्य तनुः कृतवेदिनःसुरवधूनयनोदकसन्ततिः ।कुसुमवृष्टिरिति त्रितयं ततःसमपतत्सममेव नभस्तलात् ॥२०॥दशमुखेन कलत्रमपोहितंविधिवशेन वशी समुपस्थितः ।निजगदे शिथिलीभवदूष्मणारघुपतिः प्रभुणाऽथ पतत्रिणाम् ॥२१॥समरशक्तिरियं मम तावतीहरति पङ्क्तिमुखः स्ववधूमिति ।दशरथाय यथा गदितुं स्वयंद्विजवरोऽधिरुरोह सुरालयम् ॥२२॥सशरचापधरेण कनीयसाविगतशोकभरो रघुनन्दनः ।अथ कबन्धमवैक्षत भीषणंप्रविचरन्तमिवाद्रिवरं वने ॥२३॥सपदि मातुमिवावनिमण्डलंप्रसृतहस्तयुगं सुरविद्विषः ।निशितखङ्गयुगेन नृपात्मजौलुलुवतुः कदलीमिव लीलया ॥२४॥नृपसुतः पवनात्मजलम्भितःफलितवृक्षवनं वनजेक्षणः ।अगमदृश्यपदादिमगोत्तमंसपदि मूकममूकविहङ्गमम् ॥२५॥अकृत सख्यमसौ शिखिसन्निधौहनुमताऽभिहितं हरिसूनुना ।अथ स वालिवधार्थितया हरि-र्विपुलसालविभेदमकारयत् ॥२६॥कपिरजर्यमचिन्तितलम्भितंसमनुभूय विरोचनसम्भवः ।रिपुमयाचत कौशिकवैरिणांनिहतये न न दुन्दुभिविद्विषः ॥२७॥उपकपीश्वरवासगुहामुखंसमधिगम्य रघूद्वहचोदितः ।प्रतिनिनादवतः परिकम्पयन्गुरु जगर्ज हरिर्जगतीधरान् ॥२८॥अभिपपात रुषाऽमृणिताननःकपिपतिः कपिलद्युतिमण्डनः।नवविरोचनमण्डलमुद्वहन्गिरिवरः शिरसेव हिरण्मयः ॥२९॥प्रववृतेऽथ रणो धरणीभृतांशिखरखण्डमहीरुहमण्डलैः ।हरिहरिद्धयनन्दननर्दन-प्रतिनिनादितभीमदरीमुखः ॥३०॥पतितभूरुहभूरिभरस्फुटत्-कठिनविग्रहविग्रहतेजितौ ।अचरतामचिरेण परस्परच्छल-निरूपणवीक्षणवीक्षणौ ॥३१॥शिरसि पातितभिन्नगिरिद्रुम-क्षणनिरासलघूकृतहस्तयोः ।अधरदंशपरिस्रुतशोणितंबलितमुष्टिजवादुपसर्पतोः ॥३२॥सरभसं रिपुवक्षसि वक्षसासमभिहत्य सहुङ्कृतिवल्गतोः ।ललितमुक्तपटान्तमनोहर-प्रचलपुच्छगुणद्वयशोभिनोः ॥३३॥अथ बभूव भुजैः सुमहाहवोरविपुरन्दरनन्दनमल्लयोः ।करणबन्धनबद्धसमुच्छ्वस-ज्जठरमुक्तमुखागतशोणितः ॥३४॥नभसि किं क्षिपतः कुलपर्वतान्उत भुजेन विवर्तयतो महीम् ।इति विवेश वितर्कमथैतयो-र्नृपसुतः क्षिपतोरितरेतरम् ॥३५॥बलपरीक्षणतत्क्षणकर्षण-प्रसभतानितहुङ्कृतिगर्जितः ।हरिगुरुं हरिदश्वसुतो मुहु-र्विनमयन्निजनाम समाददे ॥३६॥अथ निवर्तितनिश्वसितातुरंग्रहणनिर्गतनिश्चललोचनम् ।भुजभुजङ्गमबन्धनबन्धुरंस्रवदसृग्रसरञ्जितकन्धरम् ॥३७॥भ्रमितपादयुगाहतपातित-द्रुमशतं द्रुतमुक्तरवं रवेः ।भ्रमयति स्म सुराधिपसम्भवःसुतवरं वरविक्रमम्बरे ॥३८॥इति पपात वितन्वति पौरुषंपरुषवह्निशिखोद्गमनिष्ठुरः ।रिपुदृढाङ्गविदालिनि वालिनिक्षितिपनन्दनबाणमहाशनिः ॥३९॥अकृत बाणनिकृत्ततनुः कृतीचिरविनिन्दितराघवलाघवः ।पदमधिक्षयमक्षयसम्पदःसुरपुरस्य पुरन्दरनन्दनः ॥४०॥सदनुजे दनुजेशरिपौ नगेस्थितवतीतवतीन्द्रसुते दिवम् ।स्तुतनये तनयेऽशिशिरद्युते-र्निपतितां पतितां पुनरास्थिते ॥४१॥ऋतुरनारतभास्वदिरम्मदा-रुचिपिशङ्गितवारिदमण्डलः ।प्रचलवातविधूतपरिभ्रमत्-सितविहंगमदन्तुरदिङ्मुखः ॥४२॥उदितसारवसारवदम्बुदःपथिकरोदकरोदकशीकरः ।उपययौ वनयौवनसम्पदःप्रजनकोऽमलकोमलकन्दलः ॥४३॥मुखपटः समराय गमिष्यतःक्षितिपनन्दनविक्रमदन्तिनः ।जलधरः पवनेन वितानित-स्तपनमण्डलकेशरिपंजरः ॥४४॥मलयमन्दरविन्ध्यमहीभृतांशिखरयष्टिसमर्पितमायतम् ।जगति मेघवितानमरोचतप्रततशीकरशुक्तिजमण्डनम् ॥४५॥भुवनतापनघर्मजयोत्सवःसमुदितः परिनृत्यत बर्हिणः ।इति जघान यथा समयस्तडित्-कनकदण्डशतैर्घनदुन्दुभिम् ॥४६॥प्रथममश्रुमुखीमपहाय तांपथिक सम्प्रति किं परिदूयसे ।इति यथा विजहास वनस्थलीप्रविकशद्दलकन्दलशोभिनी ॥४७॥स्मरहितं रहितं प्रदिधक्षुणारुचिरभाऽचिरभाऽसितवर्त्मना ।अतनुनाऽतनुना घनदारुभिःप्रखचिता खचिता न न दीपिता ॥४८॥शुशुभिरे कुलिशायुधगोपकाजलदकालविवर्घिततेजसः ।मनसिजस्य शरव्यथितात्मनांविरहिणामिव शोणितबिन्दवः ॥४९॥घनपरिस्रवणा गिरयो बभुःसतडिदम्बुदसन्ततिसंवृताः ।कनकचित्रकुथावृतमूर्तयःस्नुतमदा इव दानवदन्तिनः ॥५०॥मुरजनादगभीरमनोहरैःप्रमुदितेन पयोधरनिस्वनैः॥उपरिवृष्टिभयादिव तानितःप्रचलपिच्छचयो विशदभ्रुवा ॥५१॥मुहुरुदग्रपयोदमतङ्गज-श्रवणचामरभावमुपेतया ।गगनसागरशङ्खवपुःश्रियाविचरितं प्रमदेन बलाकया ॥५२॥अविकलं विकलङ्कतनुच्छदंसमदनं मदनम्रतनुश्रियम् ।सकलहं कलहंसगणं जहौकमलिनी मलिनीकृतकन्ततिः ॥५३॥दिशि बभौ नववारिदसञ्चय-स्त्रिदशनाथशरासनरंजितः ।जलनिधिर्बहुवर्णमणिद्युति-प्रकरवानिव तिर्यगवस्थितः ॥५४॥जलधरस्य तटे तडितो बभु-र्ग्रहगणग्रसनानि वितन्वतः ।उदरमाशु विभिद्य विनिर्गतारविकरा इव काञ्चनरोचिषः ॥५५॥विमलवारि निपीय नदीगतंसलिलभारनिरन्तरितोदरः ।क्लममिवाभिवहन्नतिपानजंगिरितटे निषसाद पयोधरः ॥५६॥सलिलविच्युततैलसमप्रभंप्रतिनवोदितमस्फुटमम्बुदे ।विरहिणीभिरलक्ष्यत मन्युनाविबुधनाथशरासनखण्डकम् ॥५७॥न न चकार ततारततारकाभरितसर्वनदा वनदावली ।प्रमदसारमितं रमितं गिरौमदमयूरवरं रवरंहसा ॥५८॥वनदमण्डलदत्तपदश्चिरंसमभिपत्य पतङ्गहरिद्व्रजः ।जलधरे पवनेन हृतेऽग्रतःकचिदतिष्ठदुपाहितसम्भ्रमः ॥५९॥पिहितविष्णुपदस्य पयोमुचःपटलरन्ध्रविभावितमण्डलः ।दिनकरः कचिदन्वगमद्रुचाजलनिधौ वडबानलसंहतिम् ॥६०॥जलधिवारि निपीतवतो भृशंवनमुचो रुधिरस्रवलोहिताः ।अतिभरस्फुटितोदरनिर्गताविबभुरान्त्रलता इव विद्युतः ॥६१॥भुवनदृष्टिनिरोधिकृतं कृतंरविकरानुपरुष्य मया तमः ।विलसितेन निहन्ति मुहुर्मुहु-स्तडिदतीव ररास रुषा घनः ॥६२॥दिशि निवेशितताम्रविलोचनानवघनानिलकम्पितकुन्तलाः ।विससृजुः सह वारिदशीकरै-र्नयनवारि चिरं पथिकाङ्गनाः ॥६३॥विततपावनके वनकेतकी-सुरभिगन्धवहे धव हे पथि ।शिखिगिरं सहसे सहसेरिता-मितिरवैरुदिता रुदिताः स्त्रियः ॥६४॥नभसि नूतनकन्धरजृम्भित-स्थगिततिग्मकरद्युतिसम्पदि ।व्यपगतेन पदं शुचितेजसाहृदि वियोगवतामिव सन्दधे ॥६५॥शिशिरशीकरवाहिनि मारुतेचरति शीतभयादिव सत्वरः ।मनसिजः प्रविवेश वियोगिनी-हृदयमाहितशोकहुताशनम् ॥६६॥प्रथमपीतजलाहितमेचक-प्रभमनङ्गकृपाणमिवाम्बुदम् ।विमलधारमुदीक्ष्य समुद्गतंविरहिणीहृदयं न न विव्यथे ॥६७॥विरहभीतिमहन्यपि निर्विशन्विततमेघतमिस्रवृता दिशः ।समवलोक्य निशागमशङ्कयामृदु रुराव रथाङ्गसमाह्वयः ॥६८॥पथिकमानसमानसमुन्नतिस्थितिनिबर्हकबर्हकलापिनि ।जगति रासितरासितवारिद-प्रसृतकन्धृति कं धृतिराश्रिता ॥६९॥नवपयोधरकुंजरमस्तकेतडिदसौ पतिते परितश्च्युताः ।विससृपुः प्रकरा इव मौक्तिकाःस्फटिकभङ्गरुचो जलबिन्दवः ॥७०॥बलनिषूदनजालविदा यथानभसि देवनगोलकवृत्तयः ।जलधरेण कृता रवितारकाग्रसननिर्वमणक्षणयन्त्रिताः ॥७१॥अधिरयेण समीरणवाहिताविबुधवर्त्मनि वारिददन्तिनः ।श्रमकृतानिव घर्मपयःकणान्अविरतं मुमुचुर्जलशीकरान् ॥७२॥जलदशाखिनि लोलतडिल्लता-क्रकचपत्त्रनिपातविदारिते ।प्रवितता इव चूर्णचया बभुःपवनवेगधृता जलरेणवः ॥७३॥महिषधूसरितः सरितस्तटःपरिगतो विपदा विपदाचितः ।धुतमहाककुभः ककुभः पतन्न्न्अकृत भीमरुता मरुताकुलाः ॥७४॥हविषि बृष्टिमये बलशत्रुणारविकराहिततेजसि भूतले ।उपहिते समरोचत लाङ्गलीसमुदितेव कृशानुशिखावली ॥७५॥नवविबोधमनोहरकेतकी-कुसुमगर्भगतः सह कान्तया ।अविदितानिलवृष्टिभयागमःसुखमशेत चिराय शिलीमुखः ॥७६॥अभिविसृज्य वनानि कृतावनामनुजलोकसमीपनिषेविणः ।तडिदलातशतैरभिताडितावनगजा इव सस्वनुरम्बुदा ॥७७॥समयवृष्टिहतेऽपि दवानलेभ्रमरधूमभृता नवलाङ्गलीः ।समभिवीक्ष्य कृशानुसमप्रभान मुमुचुर्भयमेव मृगाङ्गनाः ॥७८॥कमलधामहतो महतो भृशंविविधहंसहितः सहितः खगैः ।प्रविदधौ कमलं कमलं रुजन्निपतितः सरसः सरसस्तटः ॥७९॥प्रवितता नु पुरन्दरगोपकाविविधवर्णरसेन विधातरि ।रचयतीन्द्रधनुश्चलतूलिका-गलितधातुजलस्य नु बिन्दवः ॥८०॥पतति वृष्टिरियं नु निरन्तरंरजतरज्जुशताकृतिरायता ।जलघरस्य पतद्भुवि मण्डलंस्फटिकदण्डशतैर्नु विधारितम् ॥८१॥रचयतः समयस्य सुरायुषंकरशतं नु सुधातुरसारुणम् ।विगलितं नु ततः शकलंतडिल्लसितशस्त्रनिपातनतक्षितात् ॥८२॥समुदयो नु विकाशकृतद्युते-र्विततवह्निशिखाकुसुमश्रियः ।इति नृणामभवज्जलदोदयेग्रथितभूरिवितर्कपरं मनः॥८३॥अथ सुबाहुरिपुः सुबहुस्पृशन्स्मरधनञ्जयजय्यतनुः शुचम् ।निहितवृष्टिरवोचत वारिदेहरिशरासनलक्ष्मणि लक्ष्मणम् ॥८४॥विघुतनीपवनैः पवनैस्ततंमदनविभ्रमदं भ्रमदम्बुदम् ।जलविकाशमयं समयं कथंधृतिगुणे स हते सहते भवान् ॥८५॥प्रविचरन्ति मदद्विपदाधिपै-रभिहता रिपुकुंजरशङ्कया ।अधिमहीधरकन्दरमम्बुदाःसमदगर्जितनिस्वनसुन्दरम् ॥८६॥प्रवितरन्ति परं नयनोत्सवंत्रिदशनाथशरासनकान्तयः ।गिरितटे लुठनेन पयोमुचिप्रणिहिता इव धातुरजश्छटाः ॥८७॥वनकृशानुशिखा निहता वप-ुस्त्वयि तदीयमिदं प्रतिपाद्यते ।जलमितीव विमुञ्चति लाङ्गली-कुसुमहस्ततले जलदोदयः ॥८८॥दिशि लसन्ति खरानिलरंहसिक्षिपति मेघमहीधरसंहतिम् ।ततपरस्परघातसमुद्भव-ज्वलितवह्निशिखा इव विद्युतः ॥८९॥तरुतले विषमारुतमारुत-क्षततनुर्न लतावति तावति ।विरतिरज्जरसं प्रति सम्प्रतिस्वमलिसंहतिरक्षति रक्षति ॥९०॥धावन्नकाण्डविहितध्वनिरम्बरस्यत्यागं विधाय विलसन्निकटे जनस्य ।निघ्नञ्छिलाभिरुदकेन जगन्निषिञ्च-न्नुन्मत्तवद्भ्रमति वायुवशात्पयोदः ॥९१॥वारिप्रवाहपरिलङ्घितभूमिपृष्ठंधारान्धकारहतदिक्प्रविभागवृत्ति ।मेघप्रतानविहिताद्रि जगत्समन्तात्ग्रस्तं समस्तमिव भाति घनागमेन ॥९२॥एतानि भान्ति हरिगोपकमण्डलानिप्रावृटि्च्छ्रयो जगति सम्प्रति सञ्चरन्त्याः ।भूमौ पदानि रचितानि यथोदबिन्दु-स्पर्शद्रुतोपहितयाबकमण्डनानि ॥९३॥स्वादूनि सिन्धुसलिलानि निपीय कामंगर्जन्नसौ गिरितटे विहितोपवेशः ।अत्यन्तभूरिजलभारगुरूदरत्वा-दुद्गारनादमिव मुञ्चति वारिवाहः ॥९४॥निरस्तगृहसङ्गति भ्रमत एव तन्व्यास्तवस्तनद्वयमियद्वपुः पथिक जातमुद्यौवनम् ।इतीव वदति स्फुटत्कुसुमहस्तमुद्यम्य साभ्रमद्भ्रमरमण्डलक्वणितपेशला लाङ्गली ॥९५॥प्रणाशो मित्रस्य प्रसभमजनि ज्येष्ठविरहःप्रवृत्तः शोकादित्यधिकतरतारं निनदतः ।निराशस्योत्कस्य स्फुटति नवमेघस्य हदयेरयादुद्यद्धारा असृज इव निर्भान्ति तडितः ॥९६॥नभोवारीरुद्धं नवजलदवन्यद्विपकुलंकृताभिज्ञानं यत्सुरपतिधनुर्धातुनिकरैः ।नदत्युचैरेतत्कृतवनपरित्यागचपलंस्फुरद्विद्युच्चक्रग्रहणविधिपाशे निपतति ॥९७॥अम्भोभिः सह पद्मरागसरणिर्ग्रासीकृता वारिधे-रुद्वान्ता पुनरिन्द्रगोपककुलव्याजेन मेघैरिह ।येनैषामुदरेषु रत्नविततिर्वान्तावशिष्टा नव-प्रोद्यद्भासुरवृत्रसूदनधनुर्व्याजेन संलक्ष्यते ॥९८॥अनुत्तारं भूम्ना तिमिरचितमक्षय्यसलिलंनिशीथं कालेऽस्मिन्नहिमकरसञ्चारविभवम् ।तरेयं सिन्धूनां पतिमिव यदि व्यायततरंलभेयं वैदेह्याः कुचकलशसंघाटमुडुपम् ॥९९॥एवं सस्मरमन्तराकृतगिरस्तुङ्गं गिरिं गौरव-व्यालम्बाम्बुदशक्रनीलकलशोद्वान्ताम्बुधौतोपलम् ।रामस्यावसतः सतः स्रुतपयःपातक्वणन्निर्झरंकालः कालपयोदगर्जितजिताम्भोधिध्वनिर्निर्ययौ ॥१००॥इति श्रीमत्कुमारदासस्य कृतौ जानकीहरणे महाकाव्येएकादशः सर्गः समाप्तः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP