जानकीहरणम् - सप्तदशः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


प्रणम्य भक्त््याऽथ पितामहं महं
विधाय बद्धादरमग्नये नये ।
स्थितः सुवेलादचिरादगादगा-
दजस्य बन्धुः समरक्षमां क्षमाम् ॥१॥
द्विषोऽपि तस्यारिनिवारणे रणे
विधित्सवः पौरुषदर्पदं पदम् ।
हुताशनानि द्युतिभासुरेऽसुरे
विधिं वितेनुर्बलिसंहितं हितम् ॥२॥
अथाञ्जनक्ष्मावरपीवरो वरो
गतः सुहृद्वक्त्रविकासदः सदः ।
इमानि वाक्यानि दशाननो न नो
जगाद वह्निप्रविकासभां सभाम् ॥३॥
यथा भवन्तो मयि धीरतारता
हिताह्वयं प्रेमसुशीभरं भरम् ।
वहन्ति नैवं जननी सती सती
प्रियात्मजे नाप्यनुकम्पिता पिता ॥४॥
तदेतदस्मिंस्तु कथं भवे भवे-
दनेकशो यन्मयि नाहितं हितम् ।
असौ च कीर्तिर्भुवि सा नयानया
गणेन वो मामभिरक्षताऽक्षता ॥५॥
प्रसह्य शक्त््या हृतवैभवं भवं
भयं विधातुं च विवस्वतः स्वतः ।
भवस्तु नित्यं ननु शक्तता तता
तथाऽपि मानेन न साधुनाऽधुना ॥६॥
बलेन वस्तेन भयानकेन के
रणस्य भीमस्य बभञ्जिरेऽजिरे ।
प्रकम्पते येन कृते रवे रवे-
रनूनभामातलिसारथी रथी ॥७॥
पुरेव यूयं युधि कातरेतरे
जनादितस्तीव्रमसुन्दरं दरम् ।
बले रणस्थे युगलोचनश्च नः
पिशाचिकाताण्डवलासकः स कः ॥८॥
युधि प्रचेता विषवाहिनाऽहिना
जनस्य कण्ठे कृतशृङ्खलः खलः ।
सलीलवीक्षाविधितर्जितो जितो
भवद्भिराक्रोशहुताशनैः शनैः ॥९॥
प्रकाशितक्रोधसमुद्भवो भवो
गणध्वजिन्या च समन्ततस्ततः।
प्रयात्यसौ भीतिमजय्यतो यतो
न कोऽपरस्त्रस्यति हस्ततस्ततः ॥१०॥
परद्विपासृक्स्रवलोहितोहितो
निकृत्तविद्याधरचारणे रणे ।
उमासुतः शक्तिवियोजितो जितो
भवद्भिरभ्रध्वनिभैरवै रवैः ॥११॥
जयन्त्यमित्रा युधि सन्नयं नयं
समुन्नतो यत्र च शूरता रता ।
तमप्यवश्यं मदवर्जितं जितं
गुरुं भवद्भिः क्षतविग्रहं ग्रहम् ॥१२॥
धनाधिपः संयति वामतो मतो
जहाति नित्योन्नतशासनः स नः ।
प्रपद्य सन्नीतिमहाबलं बलं
रणार्थिदीक्षाविघिसंवरं वरम् ॥१३॥
बलद्विषः प्रोच्छ्रितगोपुरं पुरं
जयद्भिरुन्मूलिततोरणे रणे ।
स्थितैर्भवद्भिर्बलधामदे मदे
न सङ्गृहीता रिपुभङ्गदा गदा ॥१४॥
रणे हताखण्डलपौरुषो रुषो
रयेण तन्वन्महति स्वरं स्वरम् ।
सुरेषु को नारिभयङ्करं करं
व्यपातयद्यो जयभागुरुं गुरुम् ॥१५॥
जिता न शक्त््या युधि भीमया मया
सविष्फुलिङ्गायुधसञ्चया च या ।
असौ भवद्भिः कृतयाचिता चिता
मरुच्चमूरङ्गिषु नामिताऽमिताः ॥१६॥
निरीक्षितः को जितदानवो नवो
नृपध्वजिन्या यमशङ्कया कया ।
असौ न लीना पतिशोकदा कदा
समेत्य वः स्वीकृतभीरुता रुता ॥१७॥
रणस्य युक्ता फणबन्धुरा धुरा
वितन्वती दर्शितरंहसं हसं ।
भुजङ्गसेना प्रियसंयता यता
बलेन वो वासुकिचोदिता दिता ॥१८॥
अनन्तनाम्नश्च फणावतोऽवतो
विषैरमित्रानभिहिंसतः सतः ।
स्थितस्य तेजस्यविखण्डितेडिते
रणे भवद्भिः स्फुरदीहता हता ॥१९॥
इति प्रतापैररितापदं पदं
श्रितैर्भवद्भिः सह सेनयाऽनया ।
स जीयतां संयति मानवो नवो
गृहीतमौञ्जीकृतमेखलः खलः ॥२०॥
यमेत्य नष्टः कुलशेखरः खरः
कृतं च मे वैरमसाघुनाऽधुना ।
अनेन दर्पादभिभाविना विना
विनाशनीयो भुवि कोऽपरः परः ॥२१॥
यशोविनाशेन विलज्जितो जितो
रिपुप्रवीराङ्गविदारणे रणे ।
न सम्मुखं तिष्ठति वासवः स वः
कथैव चासम्भृतवानरे नरे ॥२२॥
यशस्युपेते मम तानवं नवं सहे
न दैन्यं बलहानिजं निजम् ।
करोमि यद्यङ्घ्रियुगानतं न तं
जुहोमि हस्तौ कटकोचितौ चितौ ॥२३॥
मुखं मदीयं मम षट्पदा पदा
विहन्यते फुल्लकुशशेयाऽशया ।
असौ दहन्ती स्मरधामनो मनो
हतं निरीक्षेत सदेवरं वरम् ॥२४॥
सुता नरेन्द्रस्य सबान्धवं धवं
निरीक्ष्य युद्धे महतीह तं हतम् ।
बलानुरक्ते मयि मद्विधा द्विधा
प्रयातु शोषं व्रजतो रसा रसाम् ॥२५॥
सभैवमुक्ताऽवनिकम्पदं पदं
वितन्वती शात्रवमाकुलं कुलम् ।
विधातुकामा स्फुरदङ्गदाऽगदा
शुभाऽथ हारेण विवल्गता गता ॥२६॥
जगाम कश्चिन्निजवेश्मनो मनो
निधाय तन्त्या मृदुबालकेऽलके ।
भृशं किरन्त्याऽश्रु पयोधरेऽधरे
निरीक्ष्यमाणो बहुचिन्तया तया ॥२७॥
विलासिनीपायितसत्सुरोऽसुरो
वहन्नुरःकुङ्कुमचर्चितं चितम् ।
ययौ विमानादतिपानतो नतो
निगृह्य भूचुम्बनलम्पटं पटम् ॥२८॥
तथाऽपरः कङ्कटशोभितोऽभितो
घृतं विसर्पन्मदवासितं सितम्
रणाय बद्धांशुकसुन्दरोदरो
गजं जगामासुरयोनिजं निजम् ॥२९॥
द्रुतं दृढैर्वर्मभिराततस्ततः
समारुरोहाहवतत्परः परः ।
सृजन्तमाधोरणकामदं मदं
बलं दधानं मदवेगजं गजम् ॥३०॥
कृता बलौघेन तथाऽयताऽयता
रजस्ततिः प्रावृतदिग्घना घना
यथा रवेरश्वपरम्पराऽपरा
ययौ निमज्जत्सुरमालयाऽलया ॥३१॥
ततो विनिर्गम्य बलं पुरः
पुरःस्थितं ययौ विग्रहवद्विषं द्विषम् ।
कपीन्द्रमाजौ विहितत्वरं त्वरं
वहन्तमन्तःस्थितपन्नगं नगम् ॥३२॥
उपेत्य गत्या मदमन्दयाऽदया
वनौकसः स्वीकृतशोभयाऽभयाः ।
प्रवालशोभाजितविद्रुमैर्द्रुमैर्दृढं
निजघ्नर्गिरिसन्निभानिभान् ॥३३॥
असृक्स्रवैराहवदारुणाऽरुणा चचार
दीप्ता निजवर्चसा च सा
पताकिनी वीतभयामयो मयो
विनिर्जिता संयतिमाययौ ययौ ॥३४॥
द्विषद्भिरन्तःस्थमहोरगैरगै-
र्हतस्य कस्यापि समन्ततस्ततः ।
सचर्ममांसे हि विदारितेरिते
गतायुषः प्रस्फुरदस्थिता स्थिता ॥३५॥
विभिद्य कश्चिद्विजखर्वटं वटं
शिखाभिरम्भोदवितानगं नगम्
मुमोच सैन्यस्य भयं दिशन्दिशं
निनादयन्संयति तारवै रवैः ॥३६॥
विपाट्य वेगादितरो नदं नदन्
निपात्य शैलं जितभूभुजैर्भुजैः।
रुरोध कस्यापि गदाकृतीः कृती
ययौ स भूमिं रथपक्षतः क्षतः ॥३७॥
पतद्भिरस्त्रैरभिदारितोऽरितो
भुवो परः शोणितशीतले तले ।
अशेत सर्पद्दशनांशुना शुना
हतो विलुप्तः परिराविभिर्विभिः ॥३८॥
तथाऽपरो भूरुहधारिणाऽरिणा
हतो दृढं कुङ्कुमपिङ्गले गले ।
विवृत्तदृष्टिर्युधि मोहितो हितो
महीतलं शोणितमिश्रितः श्रितः ॥३९॥
बहून्निहत्य द्युतिभासिनाऽसिना
पपात पश्चादसुहारिणाऽरिणा
नगेन कुन्तस्थितभोगिनागिना
हतः स्फुरन्मस्तककर्परः परः ॥४०॥
निजैर्बलैरेव सुरक्षितौ क्षितौ
वितत्य तेजोजितभास्करौ करौ
अशेत कश्चिज्जितवैरिणाऽरिणा
हतो रणे विक्रमवस्तुतः स्तुतः ॥४१॥
इति क्षताः फेनवसासृजोऽसृजो
रुचिप्रतानेन सुचारुणाऽरुणा
पिशाचसेना पुरमुद्रुतं द्रुतं
ययौ समेऽपि स्खलितापदा पदा ॥४२॥
एवं सैन्यं निजमधिगतत्रासमस्तं समस्तं
श्रुत्वा रोषज्वलितवदनो भासमानः समानः ।
लङ्कानाथो नृपसुतमपानीतदारं तदाऽरं
हन्तुं युद्धे तनुजमवदद्भीमहासं महांसम् ॥४३॥
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
सप्तदशः सर्गः॥


N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP