जानकीहरणम् - द्वितीयः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


रावणेन रणे भग्ना देवा दावाग्नितेजसा ।
द्रष्टुं जगत्पतिं जग्मुः पुरस्कृतपुरन्दराः ॥१॥
निजदेहभराक्रान्तनागनिश्वासरंहसा ।
गतागतपयोराशिपातालतलमास्थितम् ॥२॥
आसीनं भोगिनि स्रस्तमौलिमाल्यविभूषणम् ।
तत्क्षणत्यक्तनिद्रार्तिबद्धरागायतेक्षणम् ॥३॥
भुजङ्गपृथुकारूढमातङ्गमकराश्रयम् ।
युद्धमम्भोनिधिच्छेदे पश्यन्तं नृपलीलया ॥४॥
भोगिभोगासनक्षोभो माभूदिति सुदूरतः ।
भक्त््यानतशरीरेण सेव्यमानं गरुत्मता ॥५॥
अर्करश्मिभयेनेव पातालतलमास्थितम् ।
लक्ष्मीमुखतुषारांशौ प्रीत्या व्यापारितेक्षणम् ॥६॥
स्वमुखे सञ्चरद्दृष्टेरङ्कविन्यस्तपार्ष्णिना ।
स्पृशन्तं पादपद्मेन पद्माया नाभिमण्डलम् ॥७॥
सव्यापसव्यभागस्थपाञ्चजन्यसुदर्शनम् ।
तटद्वयस्थचन्द्रार्कविन्ध्यशैलमिवोच्छ्रितम् ॥८॥
पुरुषं पुरुहूताद्या नत्वा गीर्वाणसंहतिः ।
सनातनं स्कन्नशक्तिरूचे नुतियुतां गिरम् ॥९॥
समुद्रमथने यस्य भ्रमन्मन्दरघट्टिताः१ ।
तारा इव दिशो वव्रुः प्रदीप्ताङ्गदकोटयः ॥१०॥
येन दुर्वारवीर्य्येण सागराम्बरचन्द्रमाः ।
शङ्खः१ पातालपालानां यशःपिण्डमेवोद्घृतम् ॥११॥
यमंस२द्वयसंसक्तचन्द्रादित्याङ्गदश्रियम् ।
नेमुस्त्रिविक्रमे देवास्ताराहाराङ्कवक्षसम् ॥१२॥
मन्थवातभ्रमन्मेघनक्षत्रादित्यमण्डलम् ।
पुरा निर्मथितं येन व्योमापि सह सिन्धुना ॥१३॥
नाभिपद्मस्पृशौ भीमौ येन मायाशयालुना ।
पाणिभिः पाटितौ कामं कीटवन्मधुकैटभौ ॥१४॥
लोकत्रयं यश्च सर्वं संहृत्य शयनं गतः ।
दृश्यते सलिलस्कन्धः सान्द्रीभूत इवोदधेः३ ॥१५॥
तुभ्यं सत्त्वमधिश्रित्य त्रैलोक्यपरिरक्षणे ।
सद्यः स्मरणमात्रेण नमस्तस्मै तमोनुदे ॥१६॥
त्रिधा ते समभूद्योगः स्पृष्टसत्त्वरजस्तमाः ।
स्थितिनिर्वाणसंहारभेदयोगेन भेदितः ॥१७॥
कुक्षौ तव परिभ्रम्य४ पश्यन्विश्वं विशां पतिः ।
विवेद त्वां विदामग््रयस्त्रैलोक्यभरसासहिम् ॥१८॥
जगन्नेता नुतोऽथैवं भक्त््या नाकस्य भोक्तृभिः ।
हरिर्हारिहितं वाक्यं जगाद गदनाशनः ॥१९॥
प्रबलारिबलप्राणविक्रियाहेतुहेतयः ।
किन्नु स्कन्नौजसो जाता देवा दैवक्षता इव ॥२०॥
हरेर्ध्यानारुणा शोकक्षामा नेत्रपरम्परा ।
किं बिभर्ति परिम्लानरक्तोत्पलवनश्रियम् ॥२१॥
पाशपाणिरसाविष्टविग्रहो वनगोचरः ।
विरोऽपि वरुणः केन क्षुद्रपाशीव पीडितः ॥२२॥
किमयं शोकसन्तापैर्मातरिश्वा कृशोऽपि सन् ।
भूरिभिर्निजनिःश्वासैः पुनरेवोपचीयते ॥२३॥
एवं ध्रुवपरावृत्तिः सम्पद्विधिनिबन्धना ।
शोकविश्वभुजा सोऽयं दह्यते दहनोऽपि सन् ॥२४॥
सम्प्राप्तजडिमा भानुस्त्रीव्रतापश्च चन्द्रमाः ।
किमेतौ वहतो देवौ धामव्यत्ययविप्लवम् ॥२५॥
शुचैव सगदः सोऽहं भूयः किं धृतयाऽनया ।
इति त्यक्ता गदा नूनं मित्रेण गिरिधन्वनः ॥२६॥
लाघवं केन कीनाश कृतं सायुधवाहने ।
रक्षके महिषस्यैवं दण्डहस्ते शिशाविव ॥२७॥
प्रेरकः शिखिनः शक्त््या भीमः पातिततारकः ।
कल्पानिल इवावार्यः स्कन्दः किं दैन्यमास्थितः ॥२८॥
आहत्य हृतसर्वास्त्रा भ्रूधनुर्मात्रधारिणी ।
कटाक्षशरशेषेयं चण्डी केन कृता रणे ॥२९॥
निजनिःश्वासपिङ्गाङ्गकर्कोटाबद्धकन्धरः ।
नागशोणितदिग्धास्यस्तार्क्ष्यो राजशुकायते ॥३०॥
साग्निजिह्वा तडिल्लेखानद्धा१ चास्य फणावली ।
किन्नु म्लायति वर्षान्ते घनश्रेणीव वासुकेः ॥३१॥
प्रमथानामधीशस्य माथकस्यामुरद्विषाम् ।
कूटस्थोऽपि मदः शोषवैकृतं किन्नु सेवते ॥३२॥
पृष्टवन्तमिति प्रष्ठः प्राज्ञः प्राञ्जलिरव्ययम् ।
धिषणो धिषणागम्यं जगाद जगदीश्वरम् ॥३३॥
त्वया सर्वज्ञ विज्ञातं पुनरेवेदमुच्यते ।
असन्तोषो हि भृत्यानां स्वामिनि स्वार्तिजल्पने ॥३४॥
मानिनामग्रणीरस्ति पुलस्त्यसुतसम्भवः ।
दर्पोद्धृतजगद्रक्षो रक्षोनाथो दशाननः ॥३५॥
चिरं चीरी जगन्नाशफलाय फलसाधनः ।
निर्विकारश्चकाराग्नौ स महौजा महत्तपः ॥३६॥
तेन व्रतयताहारं तपस्तप्तमुदन्वति ।
मातङ्गमकरक्रूरदन्तोल्लिखितवक्षसा ॥३७॥
तत्तपस्तोषितस्तस्मै चतुराय चतुर्मुखः ।
वरं वीराय विश्वेशः प्रादाज्जेतुं जगत्रयम्१ ॥३८॥
स कदाचिद्रटन्नागं नगं नाकौकसामरिः ।
हरगौरं हरस्थानं पटुनादं व्यपाटयत् ॥३९॥
स्फुरन्नगशिरस्त्यक्तैरुन्नदन्नदनिर्झरैः ।
स्पृष्टे पूषणि झङ्कारं घोरमातन्वति क्षणात् ॥४०॥
एकतः प्रग्रहाकृष्टखलीनावक्रकन्धरान् ।
वाजिनो जवयत्यद्रिपातभीतेऽ२र्कसारथौ ॥४१॥
घूर्णमानमहाशैलतटभ्रष्टे मुहुर्मुहुः ।
मत्तस्येवोत्तरीये स्वं स्थानं त्यजति निर्झरे ॥४२॥
गौरीभयपरिष्वङ्गस्पर्शलब्धमहोत्सवे ।
सङ्क्रुद्धधूर्जटिक्रोधप्रतिलोमप्रवर्तिनि ॥४३॥
कपालनयनच्छिद्रं जटाबद्धफणावति ।
सङ्कोचितफणाचक्रं विशत्युत्त्रासविह्वले ॥४४॥
कार्तस्वरमयं मेषं कृकवाकुध्वजे सति ।
गोपायति परित्रस्ते मातुरुत्सङ्गसङ्गिनि ॥४५॥
उत्पश्यति चिरं धीरे१ क्रोधरोधार्तचेतसि ।
भर्त्तुर्भ्रूभागभङ्गस्य प्रादुर्भावं ककुद्मनि ॥४६॥
रूढमूलमिव श्वेतैरधोलग्नैर्भुजङ्गमैः ।
प्रौढपुष्पमिवाग्रस्थस्फुरन्नक्षत्रमण्डलैः ॥४७॥
चरणेन रणत्सिंहकुलाकुलगुहामुखम् ।
गिरिं गौरीपतिः कुञ्जे गुञ्जत्सिन्धुं न्यपीडयत् ॥४८॥
धराधरभराक्रान्ते बाहौ बहुभिराननैः ।
दिक्षु दीर्घप्रतिक्रोशो रावणेन कृतो रवः ॥४९॥
स तं देवं शिरश्छेदव्रणचक्रैरपूजयत् ।
नीलकुट्टिमविन्यस्तैर्मण्डलैरिव कौङ्कुमैः ॥५०॥
वक्त्राणि पङ्क्तिसङ्ख्यानि राक्षसस्य दिशो दश ।
आज्ञापयितुमेतस्य पुनः सृष्टानि शूलिना ॥५१॥
तमःस्थानं तमासाद्य बालिशं कुलिशं रणे ।
अजहादज धाम स्वं वैकुण्ठस्य विकुण्ठितम् ॥५२॥
तमद्याप्यनवद्येन वसुना वासवः स्वयम् ।
अजय्यं पूजयत्येकवीरं वैरस्य शान्तये ॥५३॥
बलिं वज्राय पौलोमी सस्मितं विगतादरा ।
कुर्वती कुरुते शक्रं व्रीडासन्नरमिताननम् ॥५४॥
केवलं धनदस्तस्मै यक्षनाथो दिशन्धनम् ।
सर्वस्वहरणप्रीतो रावणस्तु धनेश्वरः ॥५५॥
कर्म धर्म्यं परित्यज्य प्रीणाति पिशितप्रियम् ।
प्रेतराजोऽप्यभिप्रेतभक्ष्यदानेन राक्षसम् ॥५६॥
दूरतः सेवते भानुरादित्यमणितोरणात् ।
च्युते तन्मन्दिरद्वारदाहभीतो हुताशने ॥५७॥
निवृत्ततत्सरःपद्मस्वापकारणतेजसा ।
बोधनीयं किलाशेषं वनं कौमुदमिन्दुना ॥५८॥
तथा ज्वलितुमादिष्टो दीपकृत्यो वृषाकपिः ।
यथा न कज्जलस्पर्शचित्रवैवर्ण्यसम्भवः ॥५९॥
रतिक्लमथुमद्देहं तरङ्गान्तरगोचरः ।
लब्धसेवावकाशः सन्सेवते तं समीरणः ॥६०॥
पातालहृदयान्तःस्थं पद्मरागं पयोनिधिः ।
अग्रमांसमिवोद्धृत्य ददाति पिशिताशिने ॥६१॥
काले कालाभ्रगर्भेऽपि निर्मदा नर्मदादयः ।
नन्दयन्ति सदा नद्यो वज्रैर्वज्रायुधद्विषम् ॥६२॥
निशि ज्ञातमनोवृत्तिस्तमुपैति हिमागमः ।
प्रियाजनपरिष्वङ्गप्रीतिं कर्तुं निरन्तराम् ॥६३॥
तस्योद्यानवनं विश्वं दिवः प्रवसता सता ।
सर्वर्त्तुषु निजैः पुष्पैर्भूष्यते मधुनाऽधुना ॥६४॥
दुराराध्यस्वभावस्य समालम्ब्य सिषेविषाम् ।
जलक्रीडादिनं तस्य ग्रीष्मश्चिरमुदीक्षते ॥६५॥
त्रासकण्ठग्रहव्यग्रांस्तस्मिन्निच्छति मानिनीः१ ।
धीरं गर्जन्ति लङ्कायामकाले वारिदा अपि ॥६६॥
अश्रान्ता वीजयत्यष्टहस्तपर्यायसम्पदा ।
इति चण्डीमभिप्रेप्सुः कर्त्तुं चामरधारिणीम् ॥६७॥
स्तब्धकर्णो नमत्येनं श्रवणाक्षेपमारुतैः ।
भूभक्तिकुसुमाक्षेपदोषभीतो गणाधिपः ॥६८॥
स्मरश्च संसदं तस्य विशति स्रस्तवाससा ।
प्रतीहार्या स्मिताकूतविभ्रमैः कठिनागमः ॥६९॥
अन्तःशुद्धः शुद्धान्ते स्त्रीजनस्य तदाज्ञया ।
लीलोपदेशदानैकव्यग्रो विशति मन्मथः ॥७०॥
त्वयि रक्षाकृति स्वर्गसद्मनामपि दैवते ।
कथं नक्तञ्चरेणैवं दिवस्त्रासो वितन्यते ॥७१॥
भ्रातरि द्विषतो बाहुभग्नौजसि विडौजसि ।
भोगिभोगे चिरं तावत्केयं देवस्य शायिका ॥७२॥
आत्मस्वनुगुणं दैवं दृष्ट्या मन्यामहे तव ।
नहि त्वं दैवहीनस्य जनस्य तु सुदर्शनः ॥७३॥
इत्थं वाचस्पतौ वाचं व्याहृत्य विरते क्षणम् ।
स्वर्गे च स्वप्रतिजल्पस्पृहानिष्पन्दवर्तिनि ॥७४॥
अपि कुक्षिस्थनिःशेषलोकत्रयभरोद्वहः ।
शोकक्षयाय मर्त्यस्त्रीकुक्षिवासं विधाय वः ॥७५॥
कुर्यां राम इति ख्यातो भूत्वा भर्त्तुः सुरद्विषाम् ।
एकबाणकृताशेषशिरश्छेदपराभवम् ॥७६॥
इत्युदारमुदाहृत्य वचो वाचामगोचरः ।
तत्याज वेदविद्वेद्यो वर्षातल्पं वृषानुजः ॥७७॥
चिरशयनगुरुं स्वभोगराशिं
भुजगपतिः शनकैर्वितत्य खेदात् ।
शिथिलितफणपङ्क्तिमुक्तदीर्घ-
श्वसितविधूतमहार्णवोऽवतस्थे ॥७८॥
निद्रामन्थरताम्रलोचनयुगो लीलालसन्न्यासया
गत्या निर्जितवारणेन्द्रगमनः क्वापि प्रतस्थे ततः ।
भूमिस्पर्शभयादुपेत्य तरसा लक्ष्म्या करेणोद्धृतं
व्यालम्बैकपटान्तमंसशिखरे क्षप्त्वोत्तरीयं हरिः ॥७९॥
इति कुमारदसस्य कृतौ जानकीहरणे महाकाव्ये
जगत्पत्यभिगमनो नाम द्वितीयः सर्गः ।

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP