संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| षोडशः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - षोडशः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत षोडशः सर्गः Translation - भाषांतर अथ दिवसविधेयमिन्द्रशत्रो-र्निरवसितं प्रतिहारतो विदित्वा ।अनुमतिमधिगम्य तस्य भानु-र्गिरिमपरान्तमहार्णवस्थमीये ॥१॥अरुणकरदृढावकृष्टरश्मि-प्रणमितकन्धरभुग्नचारुघोणाः ।दिवसकरहया गिरीन्द्रभित्ते-र्जघनपतद्रथनेमयोऽवतेरुः ॥२॥सरभसनिपतद्वनान्धकार-भ्रमरकुलैरवलुप्यमानमूर्तिः ।अपसरणविधौ समीहमानःपयसि भयादिव मज्जति स्म भानुः ॥३॥अरुणितमथ सन्ध्यया मुहूर्तंतदनु तमोभिरुपात्तकोशरन्ध्रम् ।कुमुदमलिगणो ददर्श दूरा-दरुणसितेतरवारिजाभिशङ्की ॥४॥सरसिजमणिवेदिकासु भिन्न-प्रचुरतरङ्गकणावकीर्णपाते ।उपवनसरसीरुहं दिनान्तेहतमिव शीतरयेण संचुकोच ॥५॥द्रुतमपसरतैति भानुरस्तंसरसिरुहेषु दलार्गलाः पतन्ति ।भ्रमरकुलमिति ब्रुवन्निवालिःक्वणितकलं विचचार दीर्घिकायाम् ॥६॥सति दिवसपरिक्षयस्य योगेनिपतितसद्वयसस्तमोऽभिभूताः ।नमितचपलमस्तका बभूवुःसमुपहता जरसेव वृक्षगुल्माः ॥७॥विगलितवति तिग्मभासि सन्ध्या-परिगतलोहिततारकं नभस्तत्त्रिदशशरशतव्रणावकीर्णंहृदयमनुव्रजति स्म रावणस्य॥८॥दिवसकरभयादिवावलीनोजलधिजलान्तरितस्तुषाररश्मिः ।रविरपचलितो न वेति बोद्धुंनभसि करानिव चारयाम्बभूव ॥९॥प्रथमगमितमन्वकारिभावंपुनरतिपिङ्गलतारकं विधाय ।भुवनमथ कलात्मना समस्यं-स्त्रिनयनरूपमलम्भयत्प्रदोषः ॥१०॥दिवसविगमलम्बितस्य भानो-रवनतिरुन्नतिरिन्दुमण्डलस्य ।अविकलवपुषः समानकालं नभसितुलामधिरूढयोरिवास्ताम् ॥११॥उदयमरुणिमा परित्यजन्तंप्रविसृजति स्म शशांकमच्छबिम्बम् ।चषकममलमिन्द्रदिङ्मुखेनस्फटिकमयं मधुनीव पीयमाने ॥१२॥शठमिव दयितं दिशः प्रदोषंमुहुरघिगम्य रुषेव भिन्नवर्णाः ।स्थितमुपरि पयोधरस्य सन्ध्या-विलसितकुङ्कुममण्डनं ममार्जुः ॥१३॥क्षिपति दिशि पयोधरं निशान्तेरहयति किं तिमिरोत्तरीयमाशा ।इति रचितविपर्ययस्य साक्षि-स्फुटमिव कौमुदमाततान हासम् ॥१४॥परभृतरुचितामसं हिमांशो-रुदयगिरेरुदितस्य मण्डलेन ।अतिपटु पटलं विपाट्य विश्वंविवरगते निहितं नु संहतं नु ॥१५॥इह हरिणकलंककान्तिलेशैःसह पतिता मृगलक्षणस्य कान्तिः ।अलिभिरवनतैर्न्यधत्त वापी-कुमुदवनैरिति शङ्कितं जनेषु ॥१६॥अचिरसमुदिताय हारगौरै-र्हिमशिशिरैरनुगृह्णते करौघैः ।उदकलवपरम्पराभिरर्घ्यंशशिमणितोरणमिन्दवे ततान ॥१७॥द्युतिभिरवजितो निशाचरीणा-महमतुलस्य न केवलं मुखस्य ।अयमपि हरिणो जितः कटाक्षै-रिति जगतामिव दर्शयन्मृगाङ्कः ॥१८॥घृणिभिरधिपुरं पुरः सुवेल-क्षितिधरमस्तकजर्क्षरैः पतद्भिः ।प्रमदमथ मनो नितम्बिनीना-मभिनवनिर्भरशङ्कया वितन्वन् ॥१९॥मनसि मनसिजं मनस्विनीना-मविरलमुन्नमयन्निजेन धाम्ना ।द्विपदशनरुचिः पदं कलाना-मुदयगिरेरुदियाय दिक्प्रदीपः ॥२०॥गगनसरसि चन्द्ररूप्यकुम्भेव्यपसरति स्म निपातिते रजन्या ।तदुपहिततरङ्गधूतनीली-निकर इवातिघनस्तमःप्रवाहः ॥२१॥सुरकरिण इवाहतः करेणप्रविततसन्तमसाम्बुराशिरिन्दोः ।अनुपहतगतिर्दिगन्तवेला-वलयवनानि विलङ्घयन्प्रतस्थे ॥२२॥प्रियविरहसमागमाश्रयाणांमुखकमलानि निशा नितम्बिनीनाम् ।उदितवति शशांकचन्द्रबिम्ब-द्युतिभिरिवोडुपतावलञ्चकार ॥२३॥पथिकयुवतिदृष्टयोऽनुजग्मुःसरसिजरागमणिश्रियं रुचैव ।शशिनि समुदिते शशाङ्ककान्तंकिरणवृतं क्रिययाऽपि दर्शयन्त्यः ॥२४॥अपिहितसलिलेन निष्प्रदेशंकुमुदवनेन कुमुद्वती विरेजे ।घननिपतितभृङ्गचित्रभासामृगरिपुचर्मकृतावकुण्ठनेन ॥२५॥निशि पयसि पदानि कुर्वतीषुग्रहनिकरप्रतिमासु मल्लिकाक्षः।इतरमपि जलाशयं निकूजन्समुपससार कुमुद्वतीति हष्टः ॥२६॥इति तुहिनरुचौ विकीर्णधामि्नप्रचुरतमोभिदुरस्यरश्मिजाले ।मनसि मकरकेतनस्य यूनांविलसितमात्मनि विक्रिया विवव्रुः ॥२७॥स्वयमपि विरचय्य पत्त्रभङ्गी-र्वदनहिमद्युतिलक्षणं कयाचित् ।चिरयति हृदयेश्वरे रमण्यानयनजलेन फलच्युता निरासे ॥२८॥न भवति दयितस्य सन्निकर्षेफलरहितो विरहे किमस्य रागः ।इति मनसि निधाय यावकेनव्यरचयदन्यतरा न दन्तवासः ॥२९॥इतरयुवतिपादघातचिह्नंसरससमर्पितयावकं पदं यत् ।उरसि न दयितस्य तद्विवेदस्फुटमणिकुण्डलरागरुद्धमन्या ॥३०॥प्रियवचनविधायिनी न भर्तु-श्चलदलकच्युतचूर्णलेशमक्ष्णोः ।मदनसमुचिताङ्गसङ्गिदृष्टे-र्व्यपनयति स्म मुखानिलेन काचित् ॥३१॥सुरपतिरिपवः प्रियानिरस्त-श्रवणसरोरुहनिर्वृतेऽपि दीपे ।रतिषु ददृशुरेव काञ्चिरत्नद्युति-परिभिन्नतमिस्रमूरुमूलम् ॥३२॥विवसनविहितोपगूहनानांघनजघनस्तनकुम्भकुङ्कुमेषु ।अपि परिगलितेषु कामिनीनांन विगलितानि तनूदराश्रयाणि ॥३३॥चरणतलसरोरुहेण यत्त्वंप्रहृतवती शिरसि प्रिया हि कोपे ।स किल परमनिग्रहः प्रसादेहृदि रचिते तव कीदृशो नु लाभः ॥३४॥अधरपुटमिदं मदार्तरामारभस-समर्पितदन्तखण्डितं ते ।अयि शठ परिशान्तये रुजायानयनजलेन निषिञ्चसि प्रसक्तम् ॥३५॥करकिसलयगोपितं मुखं स्वंकिमिह विधाय वदस्यलं ममाग्रे ।तिरयसि दशनक्षतं प्रियायावयमुत गौरवभाजनं किमेवम् ॥३६॥इति वचसि रुषा परिस्खलन्त्यःप्रणयिषु राक्षसयोषितो विपक्षैः ।परिमिलित१विसर्जितेषु रूक्षंनयनजलग्रथितं वचो वितेनुः ॥३७॥अपि तव दयिते समीपभाजि-श्वसितरयग्लपिताधरस्य कान्तिः ।चरणनिपतिते निपातितस्तेन च करुणापरिमन्थरः कटाक्षः ॥३८॥स्तनतटनिहितः करोऽवधूतःपरिगदिते समधिश्रितं च मौनम्विहसितमपि सान्त्वने सरोषंप्रणयिजने युवतेरयं हि दण्डः ॥३९॥सखि जहिहि रुषं हिनस्ति पश्चात्तव तरलं हदयं पुरानुतापः ।इति निपुणसखीगिरा निरासेमनसि निशाचरयोषितोऽभिमानः ॥४०॥यदि चिरयति दूति वल्लभो मेभृशमजनि त्वयि किं रुषोऽवकाशः ।निजमतिरभसं यतो विदश्यक्षतिभिरिमं समयूयुजस्त्वमोष्ठम् ॥४१॥मधुकुसुमविलेपनादिभाग-ग्रहणविदर्शितसौहृदस्य वृत्त्या ।अयमपि च सखि स्वयं हतस्तेप्रियपरिभोगसुखस्य संविभागः ॥४२॥दशनपदमतिस्फुटं विभातिस्फुरति तनुश्रमवारिसिक्तमास्यम् ।अवितथमभिधस्त्व कामिनि त्वांकुटिलगतिर्ननु दष्टवान्भुजङ्गः ॥४३॥अवितथमिदमात्मनिर्विशेषासखि भवसीति वचः पुरा यदुक्तम् ।अभिदयितमनुष्ठितं त्वया हिस्वयमखिलं मम यत्नतो विधेयम् ॥४४॥इति रचितरुषः सहासगर्वंश्रमजलबिन्दुचितं सुखं दधत्याः ।श्रवणकटु निशाचरस्य वध्वा-श्चलितधृतेरुपदूति वाग्जजृम्भे ॥४५॥श्वसितहतरुचिर्वराधरोष्ठःकरतलसङ्क्रमितश्च पत्रलेखः ।निजगदतुरुपागते चिरेणप्रणयिनि राक्षसयोषितः प्रचिन्ताम् ॥४६॥विफलपरिकरा विधाय दूती-स्तदनु समेत्य च पृष्ठतो निलीनैः ।युवतिनिगदितं सरोषगर्वंपरिहृषितैरुपशुश्रुवे तदीशैः ॥४७॥क्षतिरियमधरस्य यत्सुरासुस्रुतसहकाररसाहिता तदस्तु ।अतरलहृदयस्य गण्डबिम्बेतव कतरोऽद्य नखक्षतस्य हेतुः ॥४८॥युवतिनयनचुम्बितेषु पक्ष्म-प्रविरचिता पटुरञ्जनस्य राशिः ।तव चपल निरूपिता नवोद्यत्-प्रविरलरोम्णि कथञ्चिदुत्तरोष्ठे ॥४९॥युवतिमुखगतेन लोचनेनस्फुटमपि मे न शृणोषि जल्पितानि ।मुखमधुर भुजङ्ग येन सत्यंकुटिलगते नयनस्रवोऽसि जातः ॥५०॥इति मनसिजचञ्चलं युवानंरजनिचरप्रमदा निरूपयन्ती ।अनिमिषनयना सहासगर्वंप्रणयरुषा चतुरं वचो बभाषे ॥५१॥स्वतनुवितरणेन तं प्रलोभ्यद्विपमिव वन्यमिहोपनेतुकामा ।सखि गजगणिकेव चेष्टिताऽसिस्फुरति हि सज्जन एव मित्रकृत्ये ॥५२॥अकरुणमधिगम्य तं मदर्थेविशसनमेवमसह्यमास्थितायाः ।क्षतमिदमधरस्य केवलं तेमम हदयस्य सखि व्यथा तु तीव्रा ॥५३॥इति सखिहसिता कृतव्यलीका-मरुणितलोचनवक्त्रचन्द्रबिम्बासुररिपुवनिताऽपदिश्य दूती-मकृत गिरः परुषा रुषा परीताः ॥५४॥सरसिजमणिकुन्तलोपयुक्तंमधु पपुरङ्गजमन्थरा युवत्यः ।कथमपि परिनिस्सृतस्तदीयोरस इति मुग्धतया विशङ्कमानाः ॥५५॥हृदयवदनलोचनेषु तासांमधु मदगन्धवपुःश्रियं निधाय ।श्रमसलिलकणच्छलेन शुद्धंबहिरभवच्छरपाण्डुगण्डबिम्बात् ॥५६॥मुकुलयति सितेतरं सरोजंशशिनि समग्रकलास्पदे तदीयः ।असितकुवलयद्युतिं कुरङ्गःप्रतिनिधिरत्र ततान शीधु पात्रे ॥५७॥प्रियगुणशतजर्जरेव पूर्वंमधुषु चिरं परिपीतवत्सु लज्जा ।न युवतिहृदये पदं विधातुंमदनमदस्थितिसङ्कटे विषेहे ॥५८॥अभिनवरविबिम्बलोहिनीभि-र्द्युतिभिरभिन्नतया मनोहराभिः ।सरसिजमणिशुक्तिषु प्रणष्टंयुवतिजनैर्मधु गौरवेण जज्ञे ॥५९॥स्वयमथ पवनेन सौधपृष्ठेहतरजसि प्रतिहारचोदितेन ।किरणमनुपहत्य शीतभासःक्षणमुपगम्य पयोधरैर्निषिक्ते ॥६०॥सुरयुवतिकदम्बकस्य गीतै-रनुगततुम्बुरुवल्लकीनिनादैः ।सपदि परिवृतः समन्मथेनत्रिदशरिपुः प्रमदाजनेन रेमे ॥६१॥मधु विनमितशातकुम्भफुम्भ-स्रुतमखिलाननसक्तहेमशुक्तिः ।सपदि दशमुखः पिबन्विजिग्येसलिलनिधिं दशदिङ्नदीः पिबन्तम् ॥६२॥ततविततघनादिवाद्यजातै-र्निजकरसन्ततिवादितैः स एकः ।त्रिविधलयपरिग्रहेण वक्त्रै-र्युवतिमवर्तयताष्टभिश्च गायन् ॥६३॥प्रतियुवतिविषक्तबाहुपङ्क्ति-र्दशवदनागततन्मुखारविन्दः ।सममथ परितः प्रिया निषण्णाःपरिरमयन्न ददौ रुषोऽवकाशम् ॥६४॥इतरयुवतिदष्टदन्तवासावदनततिस्थितसीकृतिः प्रियाभिः ।नवसु मनसिजन्मना शिरःसुक्षतधृतिभिर्दयितो रुषाऽभिजघ्ने ॥६५॥शठ यदि चषकीकृतं मुखं मेकिमधरमद्य विखण्डयस्यकाण्डे ।भवति मधु निपीय भाजनाग्र-ग्रसनरतिर्नहि कञ्चन प्रमत्तः ॥६६॥पिबति कथमिवापरा युवत्यादशनपदैः परिमुद्रितं तवोष्ठम् ।इति युवतिजनेन राक्षसेन्द्रःस्फुटरचितभ्रुकुटीपताकमूचे ॥६७॥अथ कटकनिवासदृप्तनागःप्रविततधातुविभूषितः सुमेरुः ।द्युतिमभृत पुरत्रयस्य भेत्तुःशिरसि मुहुः स्थितशीतरश्मिबिम्बः ॥६८॥त्रिभुवनभयरोगदानवन्तंद्विपमिव निर्भयमेत्य दानवं तम् ।नवशशधरकोटिधामदन्तंदधतमगुः सुरमागधा महन्तम् ॥६९॥मेरोः शृङ्गं तुहिननिकरस्पर्शशीतः शशीतःपृथ्वीभागोऽप्यरुणकिरणैर्व्यस्तमस्तः तमस्तः ।धून्वन्पङ्क्तिं वहति कुमुदप्रेमलीनामलीना-मस्यन्वीचीनिलयमनिलः सारसं तं रसन्तम् ॥७०॥लब्ध्वा मुञ्चत्युदधिरुदकह्रासवेलां स वेलांयाता निद्राविगमविरुतीश्चाविरामा विरामाः ।पाण्डुच्छायामुपयति दिशामानने तं न नेतंताराचक्रं विगतकिरणोद्भासमस्तं समस्तम् ॥७१॥ऋक्षश्रेण्यां पिहितपरिघोल्लङ्घनायां घनायांसौमित्रौ चागतवति रिपुत्रासहेतो सहेतौ ।को रामे च घ्नंति परभटं तत्सहस्ते सहस्तेकिं तत्सैन्ये प्रहरति रिपुच्छिद्यशेषेऽद्य शेषे ॥७२॥रक्षोलोकविनाशनेषु रहितच्छेदं सितो दंसितोदृप्तः पाणियुगेन दुस्तरतरस्वर्हेतिना हेतिना ।युद्धायोपगतः करोति मनसां कम्पं स नः पांसनःसेयं मानद तावदश्रुतपुराक्रोशायिता शायिता ॥७३॥नक्तं नक्राबिवासं कुसुमशरशतत्रासितानां सितानांक्रीडायामङ्गनानां धनकुचकलशैः कातरं तं तरन्तम् ।उत्थाप्यैवं ततस्ते सततरतिसुखव्यासकामं सकामंतूष्णीमासन्सशङ्खध्वनिपटहरवज्यानिशान्ते निशान्ते ॥७४॥इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्येषोडशः सर्गः समाप्तः ॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP