जानकीहरणम् - चतुर्थः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


अथ स प्रविजृम्भिते शुचौ
विधुरश्चेतसि पुत्रकाम्यया ।
सुबहुद्विजसात्कृताखिल-
द्रविणः स्तोममयष्ट भूपतिः ॥१॥
विफले बहुशस्तदध्वरे
सति पुत्त्रीयमनन्तरं क्रतुम् ।
निरवर्तयदृष्यशृङ्ग इ-
त्यभिधानप्रथितस्तपोनिधिः ॥२॥
पुरुषः परिगृह्य कश्चन
श्रितचामीकरभाजनं चरुम् ।
उदियाय रुचा परिज्वल-
न्ज्वलतो रोहितवाजिनस्ततः ॥३॥
प्रविवेश विशांपतिश्चरुं
चतुरंशीकृततेजसात्मना ।
प्रविधातुमरातिनिर्जित-
त्रिदशाश्रुस्रववृष्ट्यवग्रहम् ॥४॥
दयिताभिरनन्ततेजसा
मुनिनाऽसौ परिजप्य लम्भितः ।
अशितः प्रविभज्य भूपते-
स्तिसृभिर्गर्भमबीभवच्चरुः ॥५॥
सुतयोर्भवतः स्म बालिजि-
द्भरतौ कोसलकेकयेन्द्रयोः ।
यमजौ यमतुल्यतेजसौ
सुषुवाते समये सुमित्रया ॥६॥
अथ दिव्यमुनिप्रवर्तित-
प्रसवानन्तरजातकर्मणाम् ।
रुरुचे चरुजन्मनां दशा
तनुसन्दर्शितदन्तकुड्मला ॥७॥
न स राम इह क्व यात
इत्यनुयुक्तो वनिताभिरग्रतः ।
निजहस्तपुटावृताननो
विदधेऽलीकनिलीनमर्भकः ॥८॥
मुखमाहृतधूलि गण्डयोः
करधृष्टाञ्जनदानमस्य तत् ।
विबभौ सुरदन्तिनो यथा
वदनं दन्तचतुष्टयोज्ज्वलम् ॥९॥
कतरस्तव तात उच्यता-
मिति धात्रीवचनेन चोदितः ।
रुचिरेण करेण निर्द्दिश-
ञ्जजगदीशं प्रमदेन सन्दधौ ॥१०॥
अपि किञ्चिदितो लभामहे
रघुनाथेति गुरोरुपेयुषः ।
वदनस्थकुचाग्र एव स
स्मयमानो मुदमादधे शिशुः ॥११॥
अयि दर्शय तत्किमुन्दुरा-
द्भवतोपात्तमिति प्रचोदितः ।
प्रविदर्शयति स्म शिक्षया
नवकं दन्तचतुष्टयं शिशुः॥१२॥
इतरेऽपि सरोजशीतलै-
र्मृदुभिः साञ्जनराजिभिः करैः ।
शयने समवाहयन्पितु-
श्चरणौ मातृजनेन चोदिताः ॥१३॥
शयनीयगतस्य भूपतेः
शिशवः क्रोडनिवेशवाञ्छया ।
निशि वर्द्धितमातृसम्पदं
कलहं कोमलजल्पितं दधुः ॥१४॥
क्रमशश्चरुजन्मनो वपुः
परिवृद्धिर्महिता महीयसः ।
प्रतिवासरमायुषः क्षय-
स्त्रिदशारेरपि तुल्यमासतुः ॥१५॥
धनुषि प्रतिलब्धपाटवे
नृपतेरन्यतरेद्युरात्मजे ।
भवनं भुवनस्य शासितुः
प्रतिपेदे मुषितक्रतुर्मुनिः ॥१६॥
स्वकिरीटमणिप्रभाम्बुभिः
प्रथमक्षालितपादपङ्कजम् ।
नृपतिः समबीभवन्मुनिं
पुनरुक्तैरिव पाद्यवारिभिः ॥१७॥
कुशलं परिपृच्छ्य सर्वगं
मुनिरध्यासितरत्नविष्टरः ।
उपविष्टमसौ भुवस्तले
विरतं राजमुनिं जगौ गिरम् ॥१८॥
स्वजनादपि लब्धवैशसे
नृपतित्वे शठभृत्यसम्पदि ।
प्रियवादिरिपावपि स्थितो
नृप दिष्ट्या कुशलेन वर्तसे ॥१९॥
द्विषतो भवबन्धभेदिना
दहतश्चेतसि योगवह्निना ।
न जहाति विपत्तिरद्य नः
परसम्पत्तिषु निःस्पृहानपि ॥२०॥
अनुयान्ति समन्ततो मखे
निपतच्छोणितवृष्टयो दिशः ।
पवनाहतवृन्तविच्युत-
प्रसवाः किंशुककाननश्रियः ॥२१॥
स्फुरदर्चिषि देवतामुखे
धृतवैकङ्कतसाधनस्रुचाम् ।
मिषतामपि नस्तपस्यतां
हुतमद्यश्व उदस्यते रिपुः ॥२२॥
जहि तं युधि पश्यतोहरं
गुरुणा रामशरेण राक्षसम् ।
सदसः समयेषु वृत्तये
विधिनाऽऽहूतहुतांशभाजिनः ॥२३॥
जनमिन्द्ररिपुस्त्वदर्पतं
यमिनं न क्रमते विहिंसितुम् ।
शशिनं मृगशत्रुराश्रितं
न मृगं प्रार्थयते हि जातुचित् ॥२४॥
उरगा इव घर्मपीडिताः
क्रतुशत्रुव्यथितास्तपस्विनः ।
उपयान्त्युपतापनाशनं
विपुलं त्वद्भुजचन्दनद्रुमम् ॥२५॥
वयमर्ककुलैककसंश्रया
न परं भूपतिमाश्रयामहे ।
न हि जातु पतन्ति पल्वले
जलदा वारिधिपानलम्पटाः ॥२६॥
त्वदणुप्रियमाश्रयामहे
न परस्मादतिविस्तराण्यपि ।
पयसः कणमेव चातको
जलदादत्ति बहूनि नान्यतः ॥२७॥
नृपताविति वेदितापदा
मुनिना जोषमभूयत क्षणम् ।
महतां न कदाचिदर्थता
गुरुनिर्बन्धविनष्टसौष्ठवा ॥२८॥
परिपूततनुर्द्विजाशिषा
शुभया तातरसावृतः१ स्वयम् ।
पृथुकः पृथुकीर्तिरर्पितो
भवति श्वः समराय यास्यति ॥२९॥
इति वस्तुमवस्तुकाङ्क्षिणे
स मुदाऽस्मै समुदाहृतप्रियः ।
शरणं शरणार्थिने ददौ
विशिने विश्वभुजो नरेश्वरः ॥३०॥
चलिते च सुतं तपस्यति
प्रथमाहूतमृषेर्नमस्यया ।
उपनीय चिराय विर्जितं
स्वयमङ्कं प्रियमाददे वचः ॥३१॥
समवेदि यतस्त्वदर्थिना
कथितं यद्दुरतिक्रमं त्वया ।
अवधूय ततस्तदापदं चिनु
बाणेन कुलोचितं यशः ॥३२॥
अविजित्य सदा नु रक्षितुं
न भुवः शक्यतया जयैषिणां ।
ननु दिग्जयसंभृतो महा-
विभवोऽयं भवतः प्रसङ्गतः ॥३३॥
भुवनानि बिभर्ति कश्चन
स्वजनानेव परः प्रयत्नतः ।
इतरस्तनुमेव केवलं
प्रभुरन्यो भरणेऽपि नात्मनः ॥३४॥
इति पक्षचतुष्टये स्थिते
रघवः पूर्वमुदस्य मानिनः ।
क्षपयन्ति यशः क्रमागतं
न हि पक्षान्तरसम्परिग्रहात् ॥३५॥
जनमन्यहितप्रवर्तनं
स्वयमेवाभिसरन्ति सम्पदः ।
नियतं निजकृत्यलम्पटः
पुरुषः स्वार्थत एव हीयते ॥३६॥
पुरुषस्य कृतं भुजद्वयं
प्रविधातुं द्वयमेव वेधसा ।
सुहृदामुदयञ्च विद्विषा-
मवलेपप्रतिघातमेव च ॥३७॥
शरणोपगतं न पाति यो
न भिनत्ति द्विषतां समुन्नतिम् ।
न स बाहुरसाधनक्षमा
नरवृक्षप्रभवः प्ररोहकः ॥३८॥
परकृत्यजडो यशोऽर्जने
जठरैकप्रवणो निरुत्सुकः ।
पशुरेव बुधैर्निगद्यते
यवसग्रासनिवृत्तमानसः ॥३९॥
न पशुः पुरुषाकृतिर्यतो
नृगुणभ्रष्टतया न पूरुषः ।
विरतव्रतपौरुषस्पृहः
किमु कोऽपि द्रुहिणेन निर्मितः ॥४०॥
अकृतद्विषदुन्नतिच्छिदः
श्रितसंरक्षणवन्ध्यकर्मणः ।
पुरुषस्य निरर्थकः करो
ननु कण्डूयनमात्रसाधनः ॥४१॥
न च यस्तनयो यशोर्जनं
कुरुते नाप्यनुयाति सत्पथम् ।
तनयः किल सोऽपि साऽङ्गना
न च वन्ध्या किल तेन सूनुना ॥४२॥
अशने रसनानि देहिनां
कृतयोगानि मुखेषु भूरिशः ।
न न सन्ति तदेषु दुर्ल्लभं
प्रभु यत्स्यादभयं प्रजल्पितुम् ॥४३॥
अपि जीवितसंशयेष्वु ते
न परित्याज्यमिदं कुलव्रतम् ।
सुलभं प्रतिजन्म जीवितं
हृदयं धर्मरतं हि दुर्ल्लभम् ॥४४॥
शवडिण्डिमतामभिव्रज-
त्यभिषेकोत्सवदुन्दुभिः क्षणात् ।
इतिपातिनि जीविते कथं
सुखमालम्ब्य सृजन्ति सत्पथम् ॥४५॥
यशसि व्रज यत्नमुज्झित-
स्वसुखप्रीतिरुपैहि वा तपः ।
अधिगम्यमसारमस्थिरं
विषयास्वादसुखं पशोरपि ॥४६॥
यशसा सुकृतेर्न सङ्ग्रहो
नियतं धर्ममुपार्जतो यशः ।
अनुगच्छ तदेकसङ्ग्रहा-
दुभयं लभ्यमितीह सत्पथम् ॥४७॥
ननु तावदिहैव सज्जन-
प्रतिरक्षाविधिगम्यमक्षयम् ।
फलमिन्दुकरोपरञ्जित-
प्रहसत्कौमुदकोमलं यशः ॥४८॥
सहसा सह कौशिकेन
तत्प्रतिपद्य प्रयतस्तपोवनम् ।
युधि घातय तं निबर्हकं
यमिनामुग्रमुदग्रविक्रमः ॥४९॥
पितुरित्थमनाकुलं वच-
स्तदुपश्रुत्य ननाम पादयोः ।
सह सिद्धवनं यियासुना
समरायावरजेन राघवः ॥५०॥
तमसि स्फुरदंशुमद्द्युति-
प्रहृते संसदि सौखरात्रिकः ।
यतये निरयीयतत्सुतौ
नृपतिर्मन्त्रपवित्रदंशितौ ॥५१॥
अनुजग्मतुरेनमातुरैरनु-
यातौ मुनिमश्रुवर्षिणः ।
अशिवैकविचिन्तयाऽकुलै-
र्हृदयैर्पौरजनस्य राघवौ ॥५२॥
यमिनः पथि चैतिहासिका-
दभिशृण्वन्विविधाश्रयाः कथाः ।
क्लमथं न विवेद विद्यया
बलयाऽऽनीतबलः स राघवः ॥५३॥
अथ वज्रभृतः सुहृद्द्रुहो
विषयो यः स्नपनेन विश्रुतः ।
नृवरो निजगाद तत्पुरं
पिशिताशीनिहतं निरीक्ष्य सः ॥५४॥
न भुनक्ति पुरा पुरश्रियं
परितः कीर्णकरङ्कशङ्करा ।
अवमग्नशिरःकपालदृ-
ग्विवरप्रोद्गतशाद्वला मही ॥५५॥
फणिभिः प्रतिबिम्बमातरः
शितिभिर्भान्ति शिरोऽवलम्बिभिः ।
रचितैरिव वेणिबन्धनै-
र्विरहादस्य पुरस्य शासितुः ॥५६॥
भुवि भोगिनिभं विलोकयं-
स्तुटुमो हारमहार्य्यवेपथुः ।
हरिहस्तहतस्य हस्तिनः१
कररन्ध्रे निभृतं निलीयते ॥५७॥
प्रतिमा विशदेन लूतिका-
पटलेनावृतदृष्टिरीक्ष्यते ।
रुदितैरिव पुष्पितेक्षणा
विपुलत्रासकृतैरनेकशः ॥५८॥
श्लथभित्तिविरूढभूरुह-
स्थिरमूलाग्रविनिर्गमक्षतम् ।
स्फुटतीव भृशं शुचातुरं
हृदयं तद्गृहचित्रयोषिताम् ॥५९॥
नकुलः परिजीर्णवैबुध-
प्रतिबिम्बाननमध्यरन्ध्रतः ।
स्फुरितं परिकर्षति क्रुधा
रसनं तस्य यथा सरीसृपम् ॥६०॥
इति जल्पति तत्र राक्षसी
पुरतः प्रादुरभूद्भिदेलिमा ।
मकराकरपायिधामभिः
क्षतयक्षाकृतिरुग्रविग्रहा ॥६१॥
नवकृत्तविलासिनीकर-
प्रसवोत्तंसविभूषितानना ।
नृशिरस्ततिमेखला-
गुणस्फुरणक्रूरकटुक्वणत्कटिः ॥६२॥
परितः स्फुरदन्त्रपाश्यया
परिणद्धाकुलकेशसन्ततिः ।
घनशोणितपङ्ककुङ्कुम-
प्रविलिप्तस्तनकुम्भभीषणा ॥६३॥
इति तामतिभीमदर्शना-
मभिवीक्ष्योभयतस्तपोधनम् ।
धनुषोरवनीभुजः सुतौ
सपदि न्यस्तशरावतिष्ठताम् ॥६४॥
घृणिनो नृपतेरिदं वच-
स्तनयं वीक्ष्य जगौ कृतस्मयः ।
स वशिष्ठतनूजपातित-
क्षितिपस्वर्वसतिप्रदो मुनिः ॥६५॥
इति सार्वजनीनसम्पदः
प्रलयं देशवरस्य तन्वतीम् ।
अनिहत्य शरेण सूरिभि-
स्त्वमधर्मी ध्रुवमेष गीयसे ॥६६॥
शतमन्युरवर्णवृत्तये
न वधः स्त्रैण इति प्रचिन्तयन् ।
निजघान विरोचनात्मजां
कुलिशेन त्रिदिवस्य शर्मणे१ ॥६७॥
वनितावपुषि द्विषज्जने
पुरुषाकारविशेषितेऽपि वा ।
नहि भद्रकरं शरीरिणां
प्रहृते करुणावलम्बनम् ॥६८॥
युवतेरपि साधवः सुखे
जगतो लुप्तवतश्चिरस्थितिम् ।
तुलयन्ति न राम विक्रमं
द्विषतीतापमगुण्यवृत्तिभिः ॥६९॥
अपि वित्थ इदं यशःश्रियं
भजते पौरुषरोषवित्तयोः ।
न तपोनिधनायिषा रणे
भवतोरभ्युदिते धनुर्भृतोः ॥७०॥
द्विजवृद्धनिषेवणक्षमं
युवयोरायुधयुद्धतन्त्रयोः ।
न विरोचनजन्मनो-
र्महतोः श्रौत्रमिदं१ विराजते ॥७१॥
इति मुनिचोदितो हृदि सुकेतुसुतामिषुणा
रघुपतिरक्षिणोदशनिपातपटुध्वनिना ।
स्फुटितकुचान्तरस्रवदसृक्स्रुतिनः करणात्
प्रथममपाययुस्तदसवो नु शरो नु वहिः ॥७२॥
ऋषिरिति विघ्नघातविधिसञ्चितसद्यशसं
तनुजमयोजयद्दशरथस्य सुरास्त्रगणैः ।
असुरनिशाचरक्षतजपानपरैर्विकस-
ल्लसितहुताशनद्युतिपिशङ्गितदिग्वदनैः ॥७३॥
उपगतवन्ति राममथ तानि ततानि रुचा
वदनविनिर्गतज्वलितवह्निशिखाविततेः ।
शशधरखण्डकोणकुटिलस्फुटकोटिखरं
दशनचतुष्टयं पटु२ दधन्ति वहिः प्रसृतम् ॥७४॥
रक्षोहव्यहविर्भुजं पथि तथा सन्धूप्य शस्त्रेन्धनैः
प्रत्युद्गम्य सुदूरमेव हरिणैरन्वीयमानो वहिः ।
छेदाय प्रसृतैरसेकिमलताजालप्रबालश्रियः
कूजत्कोकिलमाश्रमस्य निकटं सायम्प्रपेदे मुनिः ॥७५॥
इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
रामोत्पत्तिर्नाम चतुर्थः सर्गः ।

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP