जानकीहरणम् - तृतीयः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


अथ श्रियः प्राणसमस्य तस्य
ज्ञात्वा विविक्षामिव मर्त्त्यधामि्न ।
ततान सद्यः सुमनःसमृद्ध्या
पूर्वावतीर्णो भुवनं वसन्तः ॥१॥
भ्रान्त्वा विवस्वानथ दक्षिणाशा-
मालम्ब्य सर्वत्र करप्रसारी ।
ऋत्वित्ततो निःस्व इव प्रथस्थे
यत्रोपलब्धो धनदस्य वासः ॥२॥
वृक्षा वितेनुर्नवकुड्मलाढ्या
रूपं मनोज्ञद्युति चम्पकाख्याः ।
न्यस्ता वसन्तस्य वनस्थलीभिः
सहस्रदीपा इव दीपवृक्षाः ॥३॥
सम्पिण्डितात्मावयवा उदीयुः
पद्मा नवाः कण्टकितोर्ध्वदण्डाः ।
अन्तर्जलावासविरूढशीत-
त्रस्ता वसन्तातपकाम्ययेव ॥४॥
कर्णे कृतो दीर्घविलोचनाना-
मलोलदृष्टद्युतिभिन्नरागः ।
बालोऽप्यशोकप्रभवः प्रबालः
कान्तिं प्रपेदे परिणामगम्याम् ॥५॥
स्फुरन्ति कान्त्या नवकुड्मलानि
प्रादुर्बभूवुः करवीरजानि ।
प्रवासिनां शोणितपाटलानि
तीरीफलानीव मनोभवस्य ॥६॥
लब्ध्वा रणन्नूपुरमङ्गनानां
बन्ध्योऽपि सालक्तकपादघातं ।
उद्भूतरोमाञ्च इवातिहर्षात्
पुष्पाङ्कुरैरास नवैरशोकः ॥७॥
महीध्रमूर्धि्न भ्रमरेन्द्रनीलै-
र्विभक्तशोभः शिखिकण्ठनीलैः ।
गृहीतभास्वन्मुकुटानुकार-
स्ततान कान्तिं नवकार्णिकारः ॥८॥
वासन्तिकस्यांशुचयेन भानो-
र्हेमन्तमालोक्य हतप्रभावम् ।
सरोरुहामुद्धृतकण्टकेन
प्रीत्येव रम्यं जहसे वनेन ॥९॥
समीरणानर्तितमञ्जरीके
चूते निसर्गेण निषण्णभावाः ।
पुष्पावतंसेषु पदं न चक्रु-
र्दीप्तेष्विवाशोकवनेषु भृङ्गाः ॥१०॥
विनिद्रपुष्पाभरणः पलाशः
समुल्लसत्कुन्दलतावनद्धः ।
उद्भूतभस्मा मधुनेव रेजे
राशीकृतो मन्मथदाहवह्निः ॥११॥
महीरुहां वातचलाः प्रवाला
वसन्तदीप्तातपखेदितानां ।
जिह्वा यथा विद्रुमभङ्गताम्रा
निष्कासिता रेजुरतिश्रमेण ॥१२॥
प्रालेयकालप्रियविप्रयोग-
ग्लानेव रात्रिः क्षयमाससाद ।
जगाम मन्दं दिवसो वसन्त-
क्रूरातपश्रान्त इव क्रमेण ॥१३॥
ततः स्मरस्याहवधामकल्पं
क्षोणीपतिर्भ्रान्तशिलीमुखाङ्कम् ।
उद्यानमासेवत रक्तदीप्ति-
सन्तानभास्वत्करवीरकीर्णम् ॥१४॥
रम्याणि रामानुगतो विहङ्ग-
पक्षानिलानर्तितपल्लवानि ।
उद्भ्रान्तभृङ्गाणि लतागृहाणि
सम्भावयामास रहोविहारैः ॥१५॥
त्वमप्रमादं कुरु नूपुराङ्घ्रौ
काञ्चि क्षणं धत्स्व नितम्बभारम्१ ।
इतीव तस्मिन्विहरन्नृपस्त्री-
कक्ष्यातुलाकोटिपुटैर्निनेदे ॥१६॥
पत्यावनङ्गक्षतधैर्यवृत्ति-
श्चिक्षेप बाला मुहुरर्द्धदृष्टिम् ।
दूरस्थपुष्पस्तबकावभङ्ग-
व्याजेन सन्दर्शितबाहुमूला ॥१७॥
विलासवत्याश्चरणान्तरागे
पत्या परस्याः प्रविधीयमाने ।
अन्यत्र युक्तेऽपि बबन्ध रागं
लाक्षारसस्तत्प्रतिपक्षनेत्रे ॥१८॥
पातुं सुदत्या वदनारविन्द-
मादाय दृष्टो ललनाभिरीशः ।
अपुष्परेणुव्यथितेऽपि तस्या-
श्चिक्षेप नेत्रे मुखगन्धवाहम् ॥१९॥
पुष्पावभङ्गे निजहस्तकान्त्या
विन्यस्तरागं कठिनं पलाशम् ।
प्रवालकृत्ये विनियोजयन्ती
पत्याऽपरा सस्मितमालिलिङ्गे ॥२०॥
स्निग्धद्विजालीरुचिरं प्रियङ्गु-
श्यामद्युतिश्चारुतमालकान्ता ।
बिभर्षि गन्धाहृतभृङ्गचक्रं
सन्माधवीमण्डपमेतदास्यम् ॥२१॥
मध्येललाटं तिलकस्य वृत्ति-
रोष्ठद्युतिर्भाति च पाटलेयम् ।
पुन्नागसंयोगविभूषिताया-
श्चेतश्च ते यातमशोकभावम् ॥२२॥
किं कौतुकेन श्रमकारिणा ते
बाले त्यजोद्यानविहाररागम् ।
अस्य त्वमस्योपवनस्य लक्ष्मी-
रित्येवमूचे ललना सखीभिः ॥२३॥
तन्व्या नवाशोकदलस्य रागः
प्रियेण कर्णे विनिवेशितस्य ।
आनीलया नेत्ररुचा निरस्त-
स्तस्या जगामेव विपक्षचक्षुः ॥२४॥
पर्यन्तभूमौ मदमन्दपातं
चक्षुर्निधायाऽथ निधिर्गुणानाम् ।
उवाच वाचं निकटोपयातां
हारिप्रलापः प्रतिहाररक्षीम् ॥२५॥
विलोकयन्त्यः विलसत्प्रसूनं
लोभेन कुर्वन्ति कुरङ्गनेत्राः ।
शुभाभिरेनं नयनप्रभाभिः
शारत्विषं पुष्पतरुं तरुण्यः ॥२६॥
विभाति भृङ्गीसरणिः सरन्ती
गन्धाहृता चम्पककुड्मलाग्रे ।
अन्तं प्रदीपस्य निषेवमाणा
धूमावली कज्जलरेखिणीव ॥२७॥
उदन्यया वारिविगाहिताया
रक्तोत्पलं तन्निकटप्ररूढम् ।
विलोकयाक्ष्णोः शितिकान्तिजालै-
रिन्दीवरत्वं गमितं हरिण्याः ॥२८॥
सञ्छादिते पद्मरजोवितानैः
परिभ्रमन्वारिणि राजहंसः ।
स्ववर्त्मरेखाभिरसौ विभज्य
प्रयच्छतीवाब्जवनं खगेभ्यः ॥२९॥
इयत्प्रमाणोऽपि सरःप्रदेश-
स्तव प्रसादेन ममास्तु भोग्यः ।
इत्येष सन्दर्शयतीव मद्गु-
र्हंसाय शोषाय विसारितांसः ॥३०॥
पद्मः सितोऽयं पवनावधूतै-
र्निर्धौतरागो नु तरङ्गलेशैः ।
सम्भावितो नु द्रुहिणेन तावत्
कृतादिकर्मापि न यावकेन ॥३१॥
एवं वदन्नेव वराङ्गनाभि-
र्वृतो वृषेन्द्रोपमखेलगामी ।
ततः सलीलं सलिलं विभिन्द-
न्स दीर्घिकां दीर्घभुजो जगाहे ॥३२॥
तस्योरसि क्षत्त्रकुलैककेतो-
स्तरङ्गदोषा कमलाकरेण ।
न्यस्ता मुहुः पङ्कजरेणुपङ्क्तिः
सौवर्णसूत्रश्रियमाततान ॥३३॥
कामीव रामाजनमूरुदघ्नम्
पद्माकरो वारि विगाहमानम् ।
वीचीकराग्रेण शनैः सशब्दम्
व्यास्फालयामास पृथौ नितम्बे ॥३४॥
तस्यावगाहे वनिताजनस्य
दूरीकृतः पीननितम्बचक्रैः ।
लब्धप्रवेशस्तनुषूदरेषु
स्तनैरुदासेऽथ सरस्तरङ्गः ॥३५॥
क्रीडापरिक्षोभरयेण तासा-
मुत्सारिते पङ्कजरेणुजाले ।
तत्कञ्चुकादम्बुरुहाकराम्भः
कौसुम्भतः कृष्टमिवावभासे ॥३६॥
रामाभिरुक्तण्टकदण्डमग्रे
सम्भावितं नोच्छिदया सरोजम् ।
इन्दीवराणामुदहारि पङ्क्ति-
र्दीप्ता मृदुष्वेव जनस्य शक्तिः ॥३७॥
अन्तर्जलावारितमूर्ति यातु-
र्बालापरिष्वङ्गसुखाय पत्युः ।
विघ्नाय वैमल्यमपां बभूव
व्यर्थः प्रसादो हि जलाशयानाम् ॥३८॥
भृङ्गा निलीनेन सरोजषण्डे
योषिद्वितीयेन नराधिपेन ।
उत्सारिता वक्तुमिवापरासां
कर्णान्तमीयुर्निहितावतंसम् ॥३९॥
नृपेण केलीकलहेऽपरस्या-
श्छिन्नच्युतस्याम्बुजिनीपलाशे ।
हारस्य वीचीकणिकाः समीपे
पूर्वस्थिताः संवरणान्यभूवन् ॥४०॥
क्रीडाविमर्दे वलयस्य भिन्न-
भ्रष्टस्य चिक्षेप विकृष्य हंसः ।
स्वच्छे जले बालमृणालभङ्ग-
शङ्काहृतः शङ्खमयस्य हंसः ॥४१॥
रोधोलतामण्डपयातकान्ता-
सम्भोगतः सर्पति काञ्चिनादे ।
ररक्ष राजानमथ व्यलीका-
दुत्त्रासमुक्तः कलहंसनादः ॥४२॥
निरुद्धहासस्फुरिताधरोष्ठः
सद्यः समाविष्कृतरोमहर्षः ।
जलावमग्नप्रमदोपगूढे-
रुद्भावकस्तस्य बभूव गण्डः ॥४३॥
फुल्लं यदीदं कमलं किमेव-
मत्रैव नीलोत्पलयोर्विकाशः ।
इत्यात्तशङ्को वदनं सुदत्या
हंसः सिषेवे न सरस्तरन्त्याः ॥४४॥
सुगन्धिनिश्वासगुणावकृष्टं
मुखे पतन्तं करपल्लवेन ।
दुर्वारमन्तःसलिलप्रवेशात्
तत्याज काचिद्भ्रमरीसमूहम् ॥४५॥
मत्स्येन चीनांशुकपृष्ठलक्ष्य-
काञ्चीमणिग्रासकुतूहलेन ।
आघ्राय मुक्तोपनितम्बमेका
सन्त्रासभुग्नभ्रु चिरं चकम्पे ॥४६॥
व्युदस्तवासाः सलिलं नृपेण
तत्याज नो सव्यपदेशमन्या ।
स्थाने प्रयुक्तः कपटप्रयोगः
क्वचिद्भुनक्त््येव जनं विपत्तेः ॥४७॥
हृतान्तरीया हृदयेश्वरेण
व्रीडोपतप्ता पयसः प्रसादात् ।
व्यर्थप्रणामाश्रुनिपातवृत्तिः
काचिज्जलं सम्भ्रमयाञ्चकार ॥४८॥
सामि प्रबुद्धस्य कुशेशयस्य
कोशे मुखन्यासनिरुद्धट्टष्टिम् ।
स्प्रष्टुं प्रयेते कलहंसशाबं
निःशब्दमुत्खण्डितवीचि सस्रे ॥४९॥
सङ्क्षोभितोद्दामसरस्तरङ्ग-
क्षिप्ता किलैका नृपतिं कुचाभ्याम् ।
आहत्य धृष्टत्वकृतापवाद-
व्यपायरम्यं मुहुरालिलिङ्गे ॥५०॥
अन्या पुराणं निजमेव वीचि-
विक्षालिताङ्गेऽधिपतेः पृथिव्याः ।
मार्गं नखस्य स्फुटकुङ्कुमाङ्कं
ट्टष्ट्वा परं द्वापरमाललम्बे ॥५१॥
किं राजहंसस्य शशाङ्कबिम्ब-
च्छायामुषश्चञ्चुरियं प्रवालैः ।
बद्धा नु गन्धोज्ज्वलकेशराग्र-
च्छेदेषु दिग्धा नु सरोजकान्त्या ॥५२॥
भृङ्गोऽयमिन्दीवरमध्यपात-
सञ्चारितैस्तद्युतिरञ्जितो नु ।
निधाय तस्मिन्निजपक्षशोभा-
मादत्त नु स्वादुमतः परागम् ॥५३॥
पद्मा पदं पद्मवने विभिन्न-
वीचीकणार्द्रद्रुतयावकाङ्कम् ।
चक्रे चिरं चारुतया नु लोभा-
दित्यास कासामपि तत्र तर्कः ॥५४॥
यातो नु भृङ्गः पतितः पुराऽस्मिन्
बीजत्वमेवं नु विरिञ्चिसृष्टिः ।
विपाकनीलद्युति पद्मवीजं
कोशादुदस्येति कयाचिदूचे ॥५५॥
प्रियोऽपरस्या गलितान्तरीये
व्यापारयामास दृशौ नितम्बे ।
तद्धस्तयन्त्रच्युतवारिधारा
नालं बभूवास्य मुखारविन्दे ॥५६॥
सायं समादाय निकामपीत-
सुप्तद्विरेफं मुकुलं सरोजम् ।
काचित्करास्फालितदीर्घदण्डं
भर्त्तुर्भुवः क्वाणयति स्म कर्णे ॥५७॥
याते पतङ्गे विससर्ज भृङ्गान्
समुच्छ्वसत्कौमुदगन्धलुब्धान् ।
सा पद्मिनी पद्मविलीचनेभ्यः
स्थूलानिवोढाञ्जनवाष्पबिन्दून् ॥५८॥
नूनं पती वासरजङ्गमानां
पर्यायविश्रामपरार्थतन्त्रौ ।
एको निमज्जत्यधिवारि सिन्धो-
रन्यो जहौ तत्कमलाकराम्भः ॥५९॥
निद्राहृताम्भोजनिमीलिताक्षी
रुग्णं मृणालीवलयं दधाना ।
सरोजिनी तत्परिभुक्तमुक्ता
मूर्च्छातुरेव स्तिमिता विरेजे ॥६०॥
द्वयं द्वयोरम्बुरुहाकरस्य
कृतोपकारस्य निधाय जग्मुः ।
भृङ्गावलीष्वञ्जनमायताक्ष्यः
पद्मेषु दन्तच्छदयावकञ्च ॥६१॥
सरः सहंसं सह कामिनीभि-
र्विहाय तुल्यो वृषवाहनस्य ।
विभूषितो लम्भितभूषजानि-
रध्यास्त सौधं वसुधाधिनाथः ॥६२॥
आकृष्टदृष्टिर्गगनस्य लक्ष्म्या
लक्ष्मीभुजा वासरसन्धिभाजः ।
काचित्कुचानम्रतनुर्बभाषे
बाला सबालव्यजनैकपाणिः ॥६३॥
निधाय तापं तपनः पतत्यसौ
प्रवासिनां चेतसि चिन्तयाऽऽतुरे ।
सुकुङ्कुमस्त्रीकुचमण्डलद्युति-
र्विलोलवीचावपरान्तसागरे ॥६४॥
इयं तनुर्वासरसन्धिचारिणी
जगत्सृजो विद्रुमभङ्गलोहिनी ।
समं विधत्ते मुकुलं सरोरुहै-
र्हिरण्यबाहोरपि हस्तपङ्कजम् ॥६५॥
करेण वीचीवलयस्य मस्तके
विभाव्यमानस्फुरिताग्रकोटिना ।
इयत्प्रमाणं पयसः पयोनिधौ
निमज्ज्य सन्दर्शयतीव भानुमान् ॥६६॥
विकीर्णसन्ध्यारुणितं शतक्रतो-
र्दिशः प्रदेशादभिनिष्पतत्तमः ।
पतङ्गतेजःपरितापलोहितं
जगत्क्रमेण व्रजतीव निर्वृतिम् ॥६७॥
हिमांशुबिम्बे पुरुहूतदिङ्मुख-
स्मितश्रियं बिभ्रति कोमलद्युतौ ।
विसृज्यमानं तमसा नभस्तलं
जहाति निर्म्मोकमिवाञ्जनत्विषा ॥६८॥
अथैवमस्यावसरे वचःश्रियः
समीक्ष्य निष्ठामुपनीतमास्थया ।
अपाययन्त प्रमदा मदालसाः
स्खलद्गिरास्तं मधु लम्भितादराः ॥६९॥
प्रियोपनीतं पिबतोऽधिवासितं
नृपस्य गण्डूषमधु प्रकामतः ।
बभूव दन्तच्छदपल्लवस्तदा
निपीतपानावसरोपदंशकः ॥७०॥
प्रियेण वध्वा मधु लासितोत्पलं
विपक्षगोत्रेण निगद्य लम्भितम् ।
अपीतमप्यक्षि विधाय रागव-
त्ततान सद्यः श्रमवारि गण्डयोः ॥७१॥
त्विषा मुखेन्दोरुत शर्वरीकृतः
करेण नीते मुकुलत्वमम्बुजे ।
प्रियेक्षणस्य प्रतिबिम्बमाचरत्
सरोजकृत्यं मधुभाजि भाजने ॥७२॥
यियासुना पङ्कजगर्भसौरभं
मुखं तदीयं प्रतिबिम्बमूर्तिना ।
समन्मथेनेव तरङ्गितासवे
मुहुश्चकम्पे चषके हिमांशुना ॥७३॥
स्थितस्य मुग्धा मदघूर्णलोचना
निरूपयन्त्यः शुचिरूप्यभाजने ।
न रूपमिन्दुप्रतिरूपगोपितं
विलासवत्यो मधुनो विजज्ञिरे ॥७४॥
प्रवृद्धवामत्वमनन्यसाधितं
विधूय मानादपि१ पूर्वमासवः ।
स्मरं नु तासां हृदये विलोचने
बबन्ध रागं नु मुखे नु२ सौरभम् ॥७५॥
इति प्रबन्धाहितपानकातरं
प्रियाङ्कतल्पे शयितं निशात्यये ।
व्यबोधयन्मङ्गलवन्ति वन्दिनो
विधाय वाक्यानि विधातृतेजसम् ॥७६॥
जहिहि शयनमुद्गमस्य कालः
समुपनमत्यनुरक्तमण्डलस्य ।
भुवनशिरसि कीर्णपादधाम्नो
भवत इव क्षततामसस्य भानोः ॥७७॥
विरामः शर्वर्या हिमरुचिरुपेतोऽस्तशिखरं
किमद्यापि स्वापस्तव मुकुलिताम्भोरुहदृशः ।
इतीवायं भानुः प्रमदवनपर्यन्तसरसीं
करेणाताम्रेण प्रहरति विबोधाय तरुणः ॥७८॥
द्विपास्ते दन्ताग्रस्थितकरमुदस्याननतटं
शनैराकर्षन्तो निगडकृतझङ्कारमपरम् ।
समुत्तिष्ठन्त्येते करटतटलीनालिवितती-
र्निरस्यन्तो हेलाविधुतपृथुकर्णाग्रपवनैः ॥७९॥
पादेनैकेन तिष्ठन्पटुपटहरवैर्बोधितो वासयष्ट्यां
पश्चात्पक्षेण सार्द्धं चिरशयनगुरुं पादमन्यं वितत्य ।
उत्फुल्लोद्धूतपक्षच्युतहिमकणिकावृष्टिरायम्य कण्ठं
निद्राशेषार्तदृष्टिर्निनदति मधुरं केकया ते मयूरः ॥८०॥
एवं वन्दिप्रवादे१ चरति विसृजता चन्द्रपादावदातं
तल्पं तेनानुचक्रे मलयतरुरसामेदितांसद्वयेन ।
उन्निद्रश्वेतपद्मप्रकरपरिकरच्छन्नवीचीविताना-
दुद्यन्मन्दं सरस्तः सलिलगुरुवृहत्पक्षतिर्मल्लिकाक्षः॥८१॥
इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
उद्यानक्रीडावर्णनो नाम तृतीयः सर्गः ।

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP