जानकीहरणम् - चतुर्दशः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


अनुमतेन नृपोऽथ पयोनिधे-
र्नयधनैरभिमन्त्र्य हरीश्वरैः ।
नलमयोजयदूर्जितविक्रमं
सपदि सेतुविधौ विधिकोविदम् ॥१॥
नृहरिणा हरिणाधिपगामिना
स्थितिभुजाऽतिभुजा गिरिदारणे
हनुमताऽनुमता सह निर्ययौ
कृतरसा तरसा कपिसंहतिः ॥२॥
तलगतं श्रमवारि करद्वयक्षत-
शिलाशकलस्य रजःकणैः ।
समवधूय विधाय विधातरि
प्रकृतसिद्धिसुखाय नमस्क्रियाम् ॥३॥
रचितगर्जितमूरुमुरुं दृढं
समभिहत्य करेण सगर्वितम् ।
विपुलपुच्छगुणैरकृतान्तरं
पटु नियम्य कटिं कठिनायतैः ॥४॥
बलविशेषपरीक्षणकारणं
नदनदीशतनादिमहीभृतः ।
समभिहत्य तटं रटनस्फुट-
स्फुटितशीर्णशिलानिकरं करैः ॥५॥
समवितानितहुङ्कृतिवानरै-
र्विनमितस्य ररास महीभृतः ।
विपुलमूलविकम्पनकम्पिता
विनमदुन्नमदंशवरा धरा ॥६॥
अथ विपाट्य नदीरुचिरं चिरं
दधतमग््रयलताभवनं वनम् ।
अभृत नित्यगतेरसुतः सुतः
प्रियतमो भुजबन्धनगं नगम् ॥७॥
ग्रहगणः शिरसा दिशि पातित-
श्चलितमूलधुतं सरसातलम् ।
अवनिमण्डलमाशु जगत्त्रयं
मथितमुद्धरणे धरणीधरैः ॥८॥
निकटभूधरपातरटत्तट-
स्फुटनसञ्जनितो गिरिनिस्वनः ।
बधिरतामनयद्वलवद्वल-
ध्वनितसंवलितो वलयं दिशाम् ॥९॥
सगवयाऽगवया गिरिमेखला
स्वनवता नवताडितभूरुहा ।
द्विपतता पतता शिरसा मुहुः
शकलिता कलितापजलाशया ॥१०॥
विनमितः परिरभ्य महागिरिः
कपिभुजस्फुटपिष्टरटत्तटः ।
उदवमत्सवमुग्रमिवासृज-
श्चलितधातुजलं विवराननात् ॥११॥
फणिनि मूलमघः परिकर्षति
प्रसभमुत्क्षिपति प्लवगे शिरः ।
मुरुरवं दिशि भैरवमुत्सृजन्
उपतटं त्रुटति स्म धराधरः ॥१२॥
विनमितस्य करेण महाहरेः
क्षितिभृतो गुरुमूलतलोपलः ।
समुदियाय भुवस्तलमन्यतः
पटु विपाट्य सपत्तनकाननम् ॥१३॥
सपदि गौरवगौरवसंहिता
भृशमकम्पत कम्पतदाकुला ।
क्षितिधरे चितरेचितनिर्झरे
रुतमतन्वति तन्वति कम्पिते ॥१४॥
समुपगूढतटो हरिणा दृढं
क्षणमलम्बयदर्धविनिर्गतम् ।
निजमुदारदरीमुखतो
रसन्रसनमुग्रमिवाजगरं गिरिः ॥१५॥
अहिकुलं ददृशे मणिभास्वति
क्षितिधरोद्धृतिरन्ध्ररसातले ।
सरुधिरव्रणगर्भविभावितं
विपुलमन्त्रमिव स्फुरितं भुवः ॥१६॥
क्षणमुदस्य धृतस्य महीभृतः
चपलमूलशिफा इव भोगिनः ।
घनरसातलपङ्कवृतोपल-
श्रितबृहत्तनवो विललम्बिरे ॥१७॥
घनमिते नमिते गिरिसञ्चये
वरवयोरवयोगशुभद्रुमे ।
स्रुतदकं तदकम्पत मण्डलं
कृतरुतं तरुतन्त्रधरं भुवः ॥१८॥
स्फुरितपङ्कजरागमणित्विषि
व्यवहृताचलधामनि भैरवम् ।
हदयमांसमिवासृजि सम्प्लुतं
खनिरलक्ष्यत रत्नचिता क्षितेः ॥१९॥
शिखरिणः कपिसैन्यसमुद्धृताः
स्वपरिणाहनिराकृतमम्बरम् ।
अगमयन्निव दुर्धरविग्रहा
निजसमुद्धृतिरन्ध्ररसातलम् ॥२०॥
द्रुततरं ततरन्ध्रशताननै-
र्ध्वनिकरं निकरं धरणीभृताम् ।
गुरुतरं रुतरङ्गिमृगं घृत-
द्रुमवुरं मधुरं शिखिवल्गितैः ॥२१॥
रवितुरङ्गखुराहतमस्तकं
ध्वनिकृतः परिगृह्य वनौकसः ।
पदभरेण ययुस्तटमम्बुधे-
र्विनमितोन्नमितक्षितिमण्डलम् ॥२२॥
पिबति सर्वमसंख्यगुहामुखै-
र्नियतमेष पयोधिमगाधिपः ।
इति चिराय सविस्मयमीक्षितो
नृपसुतेन समीरणनन्दनः ॥२३॥
अथ ससर्ज ससर्जवनाकुलं
द्युतिमदभ्रमदभ्रमदद्विपम् ।
भयसरोगसरोगतपन्नगं
पथि घनस्य घनस्यदनादितम् ॥२४॥
तटयुगाततवारिदपक्षति-
र्गुरुदरीमुखलम्बितपन्नगः ।
अनुचकार पतत्पतिमुत्पतत्-
फणधरोद्धरणे धरणीवरः ॥२५॥
क्षितिभृताऽभिहतादथ वारिधेः
समुदिताऽभिनिहत्य विरोचनम्
अकृत मीनकुलाकुलितान्तरा
गुरुपयस्समितिर्शमितिध्वनिम् ॥२६॥
अभिहतो गिरिणा वडवानल-
प्रबलरोषधरो जलधिद्विपः ।
रचयति स्म सुवेलमहातरौ
नियमितस्थित एव गतागतम् ॥२७॥
उपलसङ्कटकैः कटकैस्तताः
कपिबलेन नगा न न गात्रगाः ।
कृतरवं समुदा समुदासिरे
पथि रवेरवितारविताण्डजाः ॥२८॥
प्रविदधुर्गिरिभङ्गसमुत्पत-
द्विविधधातुरजांसि मरुत्पथम् ।
सपदि चित्ररुचं घुणविक्षत-
त्रिदशचापकणा इव विच्युताः ॥२९॥
कलकलैर्विलसन्नगपन्नग-
स्मितमतिः स्म वलारिणि वारिणि ।
उदधिरे वरसंहतिसंहति
क्षितिधरो मृति विध्यति विध्यति ॥३०॥
हतसमुत्पतितोदकसन्तति-
स्फटिकदण्डयुतं क्षणमाबभौ ।
किरणमौक्तिकजालवृतं तदा
सकलचन्द्रसितातपवारणम् ॥३१॥
प्रथममुद्गतवारिततिः पत-
द्गिरितटाहतकोटिरुदन्वतः ।
क्षणमरोचत वृष्टिषु बिभ्रतो
भुज इवाद्रिवरं मुरविद्विषः ॥३२॥
हतकपोतकपोतगलच्छविः
परिततान तता नगसम्प्लवे ।
द्रुतवितानवितानमभिस्फुट-
त्तटपरागपरागततिर्नभः ॥३३॥
पटुविकम्प्रविकम्पततान्नरै
रलवने लवनेन मनोहरैः ।
अभिससर्प ससर्पकुलानगैः
प्रहितवारितवारिततिस्तटात् ॥३४॥
पतितशैलगुहाशतपूरणे
रजतशैलनिभो जलबुद्बुदः ।
जलनिमग्नसुरद्विपपुष्कर-
श्वसितसृष्ट इवाम्बुनि पप्रथे ॥३५॥
प्रचलतुङ्गतरङ्गदलान्तर-
स्फुरितविद्रुमकेसरसम्पदि ।
क्षुभितसिन्धुसरोरुहकर्णिका-
वपुरुवाह पतत्कनकाचलः ॥३६॥
कपिधुताचलधातसमुत्पत-
ज्जलधिखण्डनिरस्तनिपातितः ।
भुवि विवेष्टनपिष्टगिरिद्रुमः
पृथुतनुः स्फुरति स्म तिमिङ्गिलः ॥३७॥
असमकं समकम्पत वारिधेः
स्वरचिता रचिता ततिरूर्मिभिः।
अहितताऽऽहिततालकृतध्वनि-
र्वलयिनी लयिनीव भुजावली ॥३८॥
विससृपुः सितशंखविभक्तयः
सलिलवेगधुताः परितस्तटम् ।
शिखरिणाऽभिहतस्य पयोनिधे-
र्विदलितास्थिलवा इव भूरिशः ॥३९॥
गिरिहतक्षुभितो मकराकर-
स्तटभुवं परिलङ्घ्य कटु क्वणन् ।
अपससर्प नगोद्धरणाहित-
प्रकटरन्ध्रनिपीततनूकृतः ॥४०॥
द्रुततरङ्गतरङ्गमुखभ्रमन्-
भुजगराजतनुस्पृशमानवः ।
गगनगेन नगेन महार्णवः
परिननाद ननादरतोहतः ॥४१॥
निहतये नु विरोचनतेजसः
शशिनि लक्ष्म नु मार्ष्टुमसङ्गिनी ।
उदपतत्कपिघूर्णमहीधर-
क्षुभितभिन्नमहार्णवकन्ततिः ॥४२॥
क्षितिधराहतदूरसमुत्प्लुत-
प्रबलवारिरयेण निपातितः ।
तनुभरेण रुजन्विषवह्निना
तटवनानि ददाह महोरगः ॥४३॥
अधिपयोधि नभश्चरसंहति-
र्नभसि मीनततिर्भुवि तद्द्वयम् ।
इति जगत्त्रितयं कपिभिः क्षणा-
द्विवशजङ्गमवृत्ति विमिश्रितम् ॥४४॥
उपनिषेदुरदृष्टतटद्वया
नभसि दीर्घपरिभ्रमणातुराः ।
सलिलवेगवशेन परिभ्रमन्
महिषशृङ्गवनेषु शिखण्डिनः ॥४५॥
प्रतरतो रदिनः पुनरादधौ
मकरकृत्तकरस्य करश्रियम् ।
क्षतजगन्धहतः सरसव्रण-
ग्रसनगृध्नुरहिस्तनुसम्पदा ॥४६॥
निनदता नदताडितमेखलं
विगलताऽगलतावृतसानुना ।
असुभुजा सुभुजाऽसुरसंहतिः
प्रविदिता विदिता दिशि भूभृता ॥४७॥
अथ निरीक्ष्य चिरं हरिचेष्टितं
सपदि वन्ध्यमवन्ध्यपराक्रमः ।
इदमुवाच गभीरतया जित-
क्षुभितसिन्धुरवं नृवरो वचः ॥४८॥
त्यजत सेतुविधानमनोरथं
क्षुभितसम्पतितास्तिमिशङ्कया ।
इह मिलन्ति तिमिङ्गिलपङ्क्तयः
सलिलधौ तिमितं तिमितं नगम् ॥४९॥
गिरिकुलानि कुलानि समीरण-
क्षुभितरङ्गितरङ्गिजलोच्छ्रयम् ।
शरभवन्ति भवन्ति न किञ्चन
द्विपहितानि हितानि महोदधिम् ॥५०॥
अयमुपाहितसेतुरकम्पित-
स्थितमहातिमिदेहमहीधरैः ।
नयतु वारिधिरेव परं तटं
बलमिदं सकलं शरताडितः ॥५१॥
मकरदन्तिगतो नृपलीलया
जलधिमुत्तरतु प्लवगेश्वरः ।
भुजगसैन्यवृतः स्फुटविद्रुम-
द्रुमवनं रदनेन विभञ्जयन् ॥५२॥
मदितरोऽदितरोषधरै रण-
क्षमकरैर्मकरैर्गजसन्निभैः ।
ध्रुवदकं वद कम्पतिमाकुलं
तरति कोऽरतिकोपवृतासुरम् ॥५३॥
इति गिरा चलितो दृढकीलन-
ध्वनितकम्पितदिग्विदिशो नलः ।
मलयकुञ्जदरीषु महीभृतः
पृथुरुतः प्रथमं समवेशयत् ॥५४॥
धृढसमर्पितमूलनिबन्धनं
हरिवरः क्रमशो गिरिसङ्क्रमम् ।
सपदि बन्द्धुमभेदनमम्बुधौ
शिखरिणां निकरैरुपचक्रमे ॥५५॥
तटसमर्पितमूलनिबन्धनः
पृथुधराधरसेतुरकम्पनः ।
जलनिधौ मलयस्य महीभृतः
प्रसरदङ्कुरवद्ववृधे शनैः ॥५६॥
अभिहतो गिरिणा रवभैरवः
पतिरपामनिमेषविलोचनः ।
हदि जघान रुषेव महाकपिं
समुदितोदकसन्ततिबाहुना ॥५७॥
शमितरेणुकरेणुकटद्रव-
स्रुतिलवासितवासितकन्दरैः ।
कपिरशङ्कमशङ्कमधिक्षिपन्
्रविदधौ ततधौततटं नगैः ॥५८॥
अधिपयोधि नलेन निपातितः
सलिलनादनिनादितदिङ्मुखः ।
धुततिमिङ्गिलपुच्छहतः पुन-
र्गगनमुत्पतितो जगतीधरः ॥५९॥
भ्रमयति स्म चिरं हरिसैनिकैः
कृतरवैर्गुरुविस्मयमीक्षितः ।
कठिनपृष्ठतटे वपुरायतं
दधति कूर्मपतिः पतितं नगम् ॥६०॥
मलयशैलमुखाहितबन्धनः
कपिभिरर्धकृतो गिरिसङ्क्रमः ।
जलनिधौ निहितो जलवाञ्छया
भुज इवास महासुरदन्तिनः ॥६१॥
अपहसन्निव फेनरुचा चिरं
गिरिहतोदितकन्ततिबाहुना ।
अभिजघान पयोनिधिरुद्धतः
कुसुमभाजि सुवेलशिरस्तटे ॥६२॥
परिसरस्थसरस्थपुटाचलक्षत-
विमानविमानमहोरगम् ।
विततरागतरागमणिप्रभा-
जनितरङ्गतरङ्गकृतध्वनिम् ॥६३॥
विततधातुरसं धरणीधरक्षत-
कृतव्रणचक्रमिवाम्बुधेः ।
अभिचकर्त नलोऽनलभासुरः
सलिलपृष्ठतटं गिरिसेतुना ॥६४॥
अवसितो नगसेतुरलक्ष्यत
क्षिपति विष्णुवराहरदे भुवम् ।
विषमकृष्टतया जलपृष्ठतः
समुदितः क्षितिपार्श्व इवैकतः ॥६५॥
उदधिसेतुरगद्वयसङ्गतः
सरलपुच्छविदारितदन्तिनः ।
वपुरुवाह परं ग्रसितुं गजं
प्रसरतोऽजगरस्य गरीयसः ॥६६॥
जलधिखातकृतान्तरसङ्गिनि
द्विरदयुद्धविधौ गिरिसङ्क्रमः ।
मलयतुङ्गसुवेलसुरद्विपद्वय-
बृहद्भुजबन्ध इवाबभौ ॥६७॥
मलयकुञ्जसुवेलतटाश्रयः
स्थिरतरा नु धराधरसङ्क्रमः ।
उभयकोटिगतौ धरणीधरा
तुलयितुं नु तुला परिनिर्मिता ॥६८॥
अपरसेतुपथस्य विधित्सया
कठिनकोटियुगे विनिवेशितौ ।
अजिनि काचवरो नु वनौकसा
गिरिवरावपनेतुमितोऽन्यतः ॥६९॥
जलमुदस्य तिमिङ्गिलसम्पदः
प्रसभमुद्धरणाय पयोनिधेः ।
पृथुदुरुद्धरमन्तकधीवर-
प्रणिहितं नु दृढालिनिबन्धनम् ॥७०॥
उत भुवः कुलिशायुधविद्विष-
द्विषयचक्रनितम्बसमाश्रयम् ।
घटनसन्धिवलीततिमध्यमं
वलितमङ्गमगस्तनसम्पदः ॥७१॥
प्रथमपश्चिमसागरविग्रहं
विपुलमद्रियुगेन महीयसा ।
अथ निवारयितुं दृढमन्तरा
विरचितं नु भुजद्वयबन्धनम् ॥७२॥
अतिनिमग्रमदीयमहाशर-
व्रणरुजाकृतकार्श्यविभावितम् ।
लवणसागरदानवदन्तिनः
प्रकटमस्थि नु वंशसमुद्भवम् ॥७३॥
प्रथिमनि प्रथिते कृतकौतुकै-
रुदधिमापनदण्ड उताहितः ।
इति चकार मनो मनुवंशज-
श्चिरविचारपरम्परमादृतः ॥७४॥
समधिरूढसमीरणसम्भव-
प्रणयदत्तकरो रघुनन्दनः ।
अधिरुरोह धराधरसङ्क्रमं
भुवि निषण्णमिवासुरदन्तिनम् ॥७५॥
नृतिमिना दितनादितवीचिकं
शुभवयोधनयोधनयोऽर्णवम् ।
सपदि वानरवानरमत्यगात्
पिहितवेलसुवेलसुदम्भसः ॥७६॥
तटविशालकपोलतले चलत्-
तपनमण्डलकुण्डलमण्डनम् ।
विविधभूरुहषण्डविनिर्जित-
त्रिदशनन्दननन्दनचन्दनम् ॥७७॥
मदगजैरगजैरगनिर्झर-
ध्वनितबृंहितबृंहितसूचितैः ।
प्रविततं सततं सपयःकणैः
सरसितैरसितैरपि वारिदैः ॥७८॥
निकषणेन युगस्य हिरण्मय-
ज्वलितरूपधरस्य विघृष्टया ।
रविगतिं प्रथयन्तमुदारया
कटकभित्तिषु काञ्चनरेखया ॥७९॥
हरिसमानसमानमृगान्वितं
स भवनोपवनोपवृतान्तरम् ।
तटगुहासु गुहासु समैर्विभिः
कृतरवं शरवंशवनावृतम् ॥८०॥
क्षणमवेत्य मृगं मृगलक्ष्मणः
रचयति क्रमबन्धमिभद्विषि ।
नखरधातभयेन विदूरतः
परिहृतं प्रसभं हिमकान्तिना ॥८१॥
कृतदवारणवारणशोणित-
स्रवसदारुणदारुणलुव्धकम् ।
मकरसारससारसनिम्नगा-
ततमवारितवारितदिग्गजम् ॥८२॥
अधिरुरोह सुवेलमगं विभु-
र्ज्वलितरत्नचयेन नभस्स्पृशा ।
प्रतिजनं जनयन्तमनारतं
गगनलग्नदवानलसंशयान् ॥८३॥
तत्र स्थित्वा वरुणनिलयं वैद्रुमाणां द्रुमाणां
भास्वत्तोयं किरणनिकरन्यस्तरङ्गैस्तरङ्गैः ।
पश्यन्रेमे सततसलिलं ह्रासमुक्तं समुक्तं
शक्रत्रस्तक्षितिधरशतस्यानदन्तं नदन्तम् ॥८४॥
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
चतुर्दशः सर्गः समाप्तः॥

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP