जानकीहरणम् - पञ्चदशः सर्गः
'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,
अङ्गदाख्यमथ वानरवीरं
रक्षसां पुरमजीगमदीशः ।
वेदितुं चतुरुपायविधीनां
कस्य गम्य इति कौशिकशत्रुः ॥१॥
संसदं च विदितः सुरशत्रोः
प्राविशत्स रहितादरवृत्तिः
राक्षसानधिपथोपनिविष्टान्
संस्पृशन्सपदि पुच्छगुणेन ॥२॥
सन्निषद्य निभृतं स मुहूर्तं
स्वागतादिविधिलम्भितमानः ।
साधुरूढनयपद्धति पश्चा-
दाददे वच इदं विनयस्थः ॥३॥
निर्गुणोपि यदि शौर्यविशिष्ट-
स्तत्र भक्तिमधिगच्छति लोकः ।
तद्द्वयेन परिदीपितवृत्ते-
र्दाशवद्भवति सर्वजनौघः ॥४॥
त्वय्यनन्यजनखण्डितशक्तौ
सर्वगुण्यजनगीतगुणौघे ।
स्नेहबन्धनियतेन गुणज्ञ-
श्चेतसा ह्रियत एव कपीशः ॥५॥
तद्वचांस्यवितथानि विपाके
कर्तृमिष्टफलवन्ति यतेथाः ।
वल्लभस्य नयविद्विषतो वा
सूक्तमेव हृदयेऽभिनिधत्ते ॥६॥
निःस्पृहोऽथ पर एव हितानि
व्याहरत्यगणितप्रभुकोपः ।
निष्फलप्रियमुखस्तु न भृत्यः
पथ्यमाह पतिमानतवृत्तिः ॥७॥
स्वाभिमानपरिबोधनहेतो-
र्भावशून्यमभिधाय वचांसि ।
स्वामिनं युधि नियुज्य विमर्दं
द्रष्टुमप्युपसरन्ति न केचित् ॥८॥
वारितेऽपि कलहाय यतन्ते
दूरदृष्टरिपुकेतुशिखाग्राः ।
ताड्यमानशिरसोऽपि पुरस्तात्
न प्रयान्ति शरवृष्टिनिपाते ॥९॥
मुञ्च घातमभितो भव वीरे-
त्यन्ययोधमभिधाय जिघांसुम् ।
लीलया युधि पुरोऽभिसरन्तः
पञ्चषा अपि न सन्ति पुमांसः ॥१०॥
यत्स्वयं युवतिमित्रवतीषु
व्याहृतं मधुमदेन सभासु ।
तत्स्मरन्ति शरजालकरालं
केचिदेव रणमध्यमुपेताः ॥११॥
के न सन्ति पुरुषस्य सहाया
भोक्तृमिद्धविभवस्य समृद्धिम् ।
युद्धमध्यवधमिच्छति तस्मिन्
दुर्लभाः सहकृतव्यवसायाः ॥१२॥
निर्व्यपेक्षमवधूय वच-
स्तत्सेवकैरभिहितं श्रुतिहारि ।
यन्नयेन न समेति विरोधं
तद्विचारनिपुणेन विधेयम् ॥१३॥
कर्म यद्विविघमागमविद्भि-
र्गीयते सुकृतदुष्कृतभेदात् ।
सिद्धिदेयगुणदोषवशात्
तद्भेदमेति पुनरेव चतुर्धा ॥१४॥
पक्षयुग्मगतसिद्धिविधेयं
तद्विचिन्त्य गुणदोषविशेषम् ।
यः करोति करणीयमनिन्द्यं
विद्धि नीतिफलमस्य करस्थम् ॥१५॥
दोषदुष्टफलनिन्द्यविरामं
योऽर्थमर्थविपरीतमुदस्य ।
सेवते सदनुबन्धविशुद्धं
धाम तत्र न तनोति विपत्तिः ॥१६॥
दुर्जयेन सह वैरमनर्थं
स्त्री परस्य न हिताय परत्र ।
तत्कलत्रमपहाय सुहृत्त्वं
राघवस्य मृगयस्व सुखार्थम् ॥१७॥
इन्द्रियाणि मतिमन्तमजय्यं
योजयन्ति विषयेषु विजित्य ।
तद्वशत्वमवधूय यशोभि-
र्यस्तनोति भुवनानि स धीरः ॥१८॥
यौवनं चलमपायि शरीरं
गत्वरं वसु विमृश्य विशिष्टः ।
नान्यजन्मगततिक्तविपाकं
दृष्टसौख्यमपि कर्म विधत्ते ॥१९॥
हेतुरन्यभवभोगविवृद्धे-
र्यद्यतश्च भवतीह विभुत्वम् ।
स्थास्नु यत्तु वितनोति यशस्तत्
साधनीयमितरत्तु न धीरैः ॥२०॥
रूपवन्तमपि हन्ति जरार्तिः
सङ्गमे महति चास्ति वियोगः ।
याति दीर्घमपि विच्युतिमायुः
पुण्यमेव निरपायि भजध्वम् ॥२१॥
लोकयुग्मगतशर्मविनाशं
स्पर्शमस्य मनसाऽपि युवत्याः ।
दुर्जयस्य सुनितुल्यमहिम्नः
तद्विहाय सुखमेहि यशोभिः ॥२२॥
स प्रियावितरणेन कृतज्ञ-
स्तोषितः सफलहार्दविरोषः ।
स्वर्गिवर्गमवजित्य समस्तं
भृत्यवत्तव पुरीह विधत्ते ॥२३॥
ये भवन्तमतिवश्यममात्या
नूतनं पतिमिहाभिलषन्ति ।
कारयन्ति यदि नीतिविरुद्धं
मा तदीयमनुरोधि वचस्ते ॥२४॥
हेतुरस्ति नरवानरभावे
नैव दर्पविरहस्य चिरज्ञाः ।
यत्सुरेन्द्रकृतवीर्यसुताभ्या-
मस्तशक्तिमिह कश्विदुशन्ति ॥२५॥
शासनं यदि शिरोभिरुदग्रं
मौलिवन्नृपसुतस्य न धत्से ।
शैलशृङ्गगुरुमस्तकभार-
त्यागसौख्यमवगच्छ द्रुतं ते ॥२६॥
शक्रलोकजयदत्तमजय्यं
दिक्षु फुल्लमिव काशवनं तत् ।
रामधामदवपावकदीप्त्या
दग्धमेव समवैहि१ यशस्ते ॥२७॥
गर्वमस्य वचनानि वहन्ति
श्रोतुमन्तविरसानि मृदूनि ।
न प्रपद्य विततार विकारं
क्रोधबद्धमिव राक्षसलोकः ॥२८॥
अट्टहासनिनदोऽतिगभीरः
क्रोधगर्भमतिकायविमुक्तः ।
विष्फुलिङ्गनिकरेण सदस्तं
दीपयन्दशदिशोऽथ ससर्प ॥२९॥
कम्पनोऽपि परिकम्पितमूर्धा
दन्तकान्तिनिचिताधररागः ।
उन्नतैकचपलभ्रुकटाक्षं
विक्षिपन्द्विषति तत्र विरेजे ॥३०॥
आहतान्यथ परस्परमेव
क्रुध्यतस्त्रिशिरसोऽपि शिरांसि ।
धातविस्फुटितमौलिमणित्विड्-
द्योतिताम्बरतलानि विरेजुः ॥३१॥
इन्द्रजित्प्रथमदानदशायां
दिग्द्विपेन्द्र इव गण्डतटाभ्याम् ।
निर्मुमोच मदसेकमनोज्ञं
घर्मवारि मदमन्थरनेत्रः ॥३२॥
मानगर्भमवकर्णितदूत-
व्याहृतो भुवि नमय्य मुखेन्दुम् ।
भूमिभक्तिकुसुमेन निवेशं
मण्डलस्य विततान निकुम्भः ॥३३॥
क्रोधवेगविधुतश्च तथाऽऽसी-
च्छोणिताक्षमुखतिग्ममरोचिः ।
यत्सदःस्थकिरणाधिपरत्न-
स्तम्भवह्निरपि तेन विवव्रे ॥३४॥
रक्तपद्मरुचिहारिकराग्र-
प्रस्थितालिकुलरोचिषि कुम्भः ।
न्यस्यति स्म भुजवर्तिनि
मन्दं ज्याभिघातकिणवर्त्मनि चक्षुः ॥३५॥
सेन्द्रनीलमथ वक्षसि हारं
चूर्णयत्सपदि पाणितलेन ।
बद्धकृष्णमृगचर्मवदासीत्
तद्रजस्तुविततेषु करालः ॥३६॥
न्यस्य वक्त्रमधिपाणि विसृष्ट-
स्वेदबिन्दुविकटोऽपि चिराय ।
विस्मयेन किल दूतमनन्य-
व्यापृतेन नयनेन ददर्श ॥३७॥
लोचनस्थघनरागशिखाभि-
र्व्यक्तरोषबडवानलराशिः ।
न्यस्तहस्तचलवीचिकरालः
क्षुभ्यति स्म दशकण्ठसमुद्रः ॥३८॥
राक्षसेषु विकृतेषु न सद्यो
माल्यवानिति विकारमियाय ।
युक्तिमुक्तमपि वाक्यमभीष्टं
स्वीकरोति न हि दुर्जनलोकः ॥३९॥
ईहिताहितमतीव विकारं
वीक्ष्य वीतधृति भर्तुरधीरः ।
बन्द्धुमिन्द्रसुतसूनुमथैकः
क्रोधनः समुदियाय सदस्तः ॥४०॥
आत्मपुच्छलतयैव स पश्चा-
द्वाहुसंयमनमिच्छति कर्तुम् ।
राक्षसे हतनिपातितशत्रुः
स्वं जगाम बलमम्बरवर्त्मा ॥४१॥
राक्षसेष्वथ विलज्जितमेषु
प्रेक्ष्य नम्रवदनाम्बुजपुञ्जम् ।
रावणं स्म नयनिर्मलबुद्धि-
र्मातुलस्य गुरुराह वचांसि ॥४२॥
उक्तमत्र हितमेव विधातुं
तत्क्षमस्व यदि वाक्यमहारि ।
औषधानि विरसानि विधाय
द्वेष्यभावमुपयाति न वैद्यः ॥४३॥
अप्रियाणि रिपुराह गुरुर्वा
नष्टशीलमयमत्र विभागः ।
क्षेप्तुमेव कटु जल्पति पूर्वः
प्रेमगर्भमितरस्तु हितैषी ॥४४॥
यत्त्वयाऽहमवकर्णितपूर्वं
व्याहुतोऽपि विरमामि न वक्तुम् ।
तत्र हेतुरितरैरसमान-
स्नेह एव न तु जीविततृष्णा ॥४५॥
यस्य वृद्धिमधिगम्य समृद्धि-
र्जायते विपदि यस्य विपत्तिः ।
तं स एव हितमाह जनस्तु
श्रोत्रहारिवचनैरविदग्धः ॥४६॥
स्वार्थरागपरिशुद्धमतीनां
सद्विवेकपटुदृष्टफलानि ।
यः शृणोति वचनानि गुरूणां
तं न जातु विपदेति न यज्ञम् ॥४७॥
ऋश्यमूकमितवत्यरिवीरे
त्वं तदैव घटनामकरिष्यः ।
यद्युपेत्य कुलिशायुषसूनुं
नाभविष्यदियमत्र विपत्तिः ॥४८॥
सम्पतन्ति कपयोऽस्य न यावत्
तावदेनमभिगम्य सवेगम् ।
विग्रहीतुमपि युक्तमभूद्व-
स्तत्कृतं न हदयेषु मदेन ॥४९॥
आसनं तव रसातलमेत्य
स्तोककालमसुराधिपबन्धो ।
युक्तमत्र परिणश्यति याव-
ज्जीवितेन बलमप्रतिबन्धम् ॥५०॥
प्रेरणाय दिवसस्य नयज्ञै-
र्व्याहृतस्य भवताऽत्र विधातुम् ।
द्वैधमुग्ररिपुसैन्यसमुद्र-
ग्रस्तसर्वविषयेण न शक्यम् ॥५१॥
सद्धनेन पणबद्धमरातौ
कल्पयन्ति बलभाजि नयज्ञाः ।
तत्प्रियावितरणेन यदि स्यात्
सिद्धिरत्र परमोऽयमुपायः ॥५२॥
त्वय्यलङ्घ्यनलकूबरशाप-
क्रूरवज्रपतनं न न वेत्सि ।
केवलं तु कुलहिंसनहेतोः
पासि विष्णुतुलितस्य कलत्रम् ॥५३॥
अस्ति काचिदिति नूनमनूना
राघवेऽपि तव दुर्जयशङ्का ।
येन वर्णिवपुरेत्य कलत्रं
तस्य हर्तुमभवत्तव यत्नः ॥५४॥
तस्य दूतमपि वेत्सि च येन
पातितस्तव सुतोऽक्षकुमारः ।
इत्युदारमभिभाष्य स तूष्णी-
मास्त मौनमुचितं खलु मूर्खे ॥५५॥
इतीरितं मातृगुरोर्वचस्तत्
प्रशंसतः संसदि यातुधानान् ।
अङ्गारवर्षेरिव लोचनानां
व्रातैः किरन्निन्द्ररिपुर्बभाषे ॥५६॥
पथ्यं तथा तथ्यमयं व्यपेतं
वशी विशङ्कं वदतु प्रसह्य ।
निन्दन्ति ये तद्व्यपदेशलाभात्
तद्दत्त औष विनष्टिमुष्टिः ॥५७॥
शङ्काकृतो मस्करिवेषलक्ष्म्या
वयं न संचस्करिमात्मरूपम् ।
मा योषितं नीनशदुग्रमग्रे
दृष्टं वपुस्तामिति गोपितं नः ॥५८॥
विनोपभोगं भवने भवन्तु
सीतादयो मे वशगाश्च देव्यः ।
अनन्तकोशस्य नृपस्य रलं
शिखान्तमारोहति किञ्चिदेव ॥५९॥
दिग्दन्तिदन्तायुधभिन्नरत्न-
केयूरबन्धज्वलितासपीठः ।
सोऽयं भुजो मे पणबन्धबुद्धिं
युद्धैकलुब्धो न ददाति कर्तुम् ॥६०॥
यं शक्रः प्रतिपद्य खण्डितबृहद्धामाऽऽनतो मानतो
विभ्रष्टैरुपवीज्यते प्रतिदिनं यश्चामरैश्चामरैः ।
कातर्यातुरचेतसः प्रति कथा च मानवान्मानवा-
न्विष्णुस्तं न जयेज्जितद्विरदराड्वैरावणं रावणम् ॥६१॥
कर्तुं शक्तोऽहमाजौ शरभमुखगतं न्यङ्कुमारं कुमारं
नो वै मन्ये तृणाय त्रिभुवनमखिलं संहरन्तं हरं तम् ।
युद्धे वेदाम्बुनाथं प्रथमतरजितं पाशवन्तं शवं तं
काऽऽस्था जन्येषु भीत्या
तरलतरदृशी स्यां नरे वानरे वा ॥६२॥
भीमं सङ्ग्रामभूमौ रिपुकुलजयसंयोगदाया गदाया
वक्षःशैलेन सोढ्वाऽचलितगुरुधृतिः कम्प्रहारं प्रहारम् ।
लीलोदस्तैकहस्तक्षतदलितमुखच्छिन्नदन्तं नदन्तं
सोऽहं नेतुं समर्थो भुजतरुघटनाबन्धने शं धनेशम् ॥६३॥
एवं नेतुं न शक्त््यो नयविदुशनसा यः समोहं समोहं
निर्दोषो वः समूहे क्षितिपतितनयं यानवन्तं नवन्तम् ।
तद्यातेति प्रतस्थे कुलिशहतकृतव्यासमासे समासे
न्यस्य स्कन्धे पतन्तं त्रिदशजनवधूहासहारं स हारम् ॥६४॥
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
पञ्चदशः सर्गः॥
N/A
References : N/A
Last Updated : September 29, 2022
TOP