संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| त्रयोदशः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - त्रयोदशः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत त्रयोदशः सर्गः Translation - भाषांतर अथ तत्र भूधरशिरस्यधिकांविरहानलक्षततनुस्तनुताम् ।समनुव्रजन्मनुकुलप्रभवोगमयाम्बभूव निवसन्दिवसान् ॥१॥अनिमीलितायतदृशोऽस्य चिरंकतरः प्रहार इति चोदयतः ।शतयामिका इव निशा विगताःस्फुटतारकेन्दुकुमुदाभरणाः ॥२॥नृपनन्दनेन विजितः प्रथमंवपुषा मनोहररुचा मदनः ।स तदाऽवधीदनुशयादिव तंदयितावियोगजनितेऽवसरे ॥३॥परिशुष्यतोऽपि नयनादधिकंववृते दशाननरिपोः सलिलम् ।विजहौ विलोचनपयस्ततिभि-र्हृदयं न तापमपि तं स्नपितम् ॥४॥न ददर्श मारुतिगतामुदितेनयनस्य वारिणि दिशं नृहरिः ।न चकार राजदुहितुर्वचनेगुणकीर्तनानि च शुचा विवृते ॥५॥जगतीपतेरथ सुतः प्रभुणाविपिनौकसामभिशुचो मनसः ।प्रविणोदनाय दयिताविरह-व्यसनातुरो वच इदं जगदे ॥६॥हरिराजवंशवसतौ वसुभिःपरिपूर्णकन्दरदरीविवरे ।जगतीधरे निपततामिह वःसरसीरुहद्युतिमुषी नयने ॥७॥सततं समुन्नतवतः पततारविणा नु लङ्घनभिया शिरसः ।हरिणः किमस्त्युपरि नेत्युदित-स्तरसा नु वीक्षितुमयं शशिनः ॥८॥अधिकुञ्जमस्य निपतद्धरितांखुरधूतधातुकणिकानिकरैः ।अनुरञ्जितः शुकमुखद्युतिभि-स्तरुणायते परिणतोऽपि रविः ॥९॥इममातपे रविमणिप्रभव-ज्ज्वलनाभिदीपिततनुं रजनी ।शशिकान्तरत्नविसृतैः सकलंशिशिरीकरोति पयसां निकरैः ॥१०॥प्रतिनाग इत्यवगतस्तरसामदहस्तिहस्तहतजर्जरितः ।इह तत्प्रकोपहुतभुग्घतयेसलिलानि मुञ्चति यथा जलदः ॥११॥स्फुटधातुलोहितदरीवदन-स्थितहंसपङ्क्तिदशनद्युतिभिः ।हसतीव खर्ववपुषः शिखरै-रवजित्य सोऽयमितरानचलान् ॥१२॥अयमुद्वहत्यभिमुखापतितेदशनाकृतौ हिमरुचः शकले ।स्रुतधातुपङ्किततनुर्धरणी-धरणक्षमो हरिवराहरुचम् ॥१३॥इह धातुसानुषु निषण्णदृशःशिरसि स्थितासितघनावलिषु ।दवकृष्णपद्धतिभयं न चिरंमृगयोषितो जहति मुग्धधियः ॥१४॥अधिशृङ्गमस्य रुचिभिः स्फुरित-ग्रहबृन्दसक्तशिरसस्तरवः ।जनयन्ति चेतसि मदं शिखिनांपरिफुल्लनीपतरुषण्डरुचाम् ॥१५॥शिखरेषु पङ्कजमणिप्रकर-द्युतिरंजितच्छदभृतो दधते ।इह भूरिभूरुहलताततयःसमये गतेऽप्यरुणपल्लवताम् ॥१६॥अयमेष सोदकदरीवदन-स्रुतधातुधौतकटुकावयवः ।प्रविभात्यसृक्स्रवपिशङ्गितनु-र्युधि दानवद्विप इव प्रहतः ॥१७॥अयमर्कतापिततनुः शशिनःपरिपीय सामृतकणानचलः ।पुनरुद्वमत्युरुदरीवदन-स्रुतनिर्मरच्छलभृतः किरणान् ॥१८॥भृशमस्य गोपतिमणिप्रभव-ज्वलदग्निदग्धविपिने शिरसि ।स्खलनादुपाहितमषीमलिनंवहतीव शीतकिरणः करणम् ॥१९॥मददृप्तनीलगलसंहतिभि-र्हतभीतपन्नगगुणं शिखरात् ।रविवाहनं गमयति त्वरितंतदितो महीधरपतेररुणः ॥२०॥अमितं निपीय सलिलं सरितांस्रुतधातुलोहितममी जलदाः ।उपकल्पयन्त्यरुणकान्तिभृतःस्थिरसन्ध्यया परिगतं गगनम् ॥२१॥वनदन्तिनः प्रति रिपुद्विरवंपरिधावतः शिखरिणः शिखरे ।पवनैर्जवादुपहितो वदनेभवति क्षणं मुखपटो जलदः ॥२२॥गजभिन्नगैरिकरसारुणिताःसितपङ्कजैरनुगताः सरितः ।नवबद्धरत्नरसनाकृतयःप्रविभान्त्यमूर्गिरिनितम्बगताः॥२३॥शिखरैकभागनिरतः पवनै-रुपनीयतेऽयमुदधिं जलदः ।अवगाहपानविधये समदःप्रविमुच्य वृक्षत इव द्विरद ॥२४॥रदनक्षतक्षितिधरक्षतज-स्रवसन्निभैररुणिता रदिनः ।कटकेषु धातुभिरिमे दधतेतरुणारुणावृतपयोदरुचः ॥२५॥इति भास्वतः सुतवरे वदतिन्यपतत्पयोधरपथादभितः ।मधुकाननं हृतमधुप्रसभंप्रविधाय वेदितधृतिर्हनुमान् ॥२६॥अशिवस्य जल्पनभिया नृपतौनिभृते भुवो वरकपिर्दुहितुः ।प्रथमं शिवं समनुवेद्य पुन-र्वचनं सविस्तरमिदं विदधे ॥२७॥भवदाज्ञया दिशि परेतपते-स्तृणपर्णकान्यपि विवर्तयतः ।जनकात्मजाविचयने विगताशरदस्य मे शशधराभरणा ॥२८॥रविदग्धपक्षतियुगं विहगंप्रतिपद्य रावणगमे विदिते ।मलयादगामथ महेन्द्रमगंमकराकरं सपदि लङ्घयितुम् ॥२९॥मयि कुर्वति क्रममथो चरण-द्वयपीडिताग्रशिखरः शिखरी ।स्त्रुतगैरिकोदकगुहावदनोवमति स्म शोणितमिव व्यथितः ॥३०॥समरुष्यत क्रमभरोपहतेचलिते नगे मम समुत्पतनात् ।इतरेतराहतिदलच्छिखर-प्रभवेण वारिदपथो रजसा ॥३१॥चलताऽचलेन सरितस्तरसाविधुता भुवि क्रमगती रुचिताः ।प्रविहाय सागरजले नभसःपतिता गुरुध्वनिहतश्रुतयः ॥३२॥तमपश्यमुत्पतितवानचलंतनुजायमानवपुषं क्रमशः ।क्रमलब्धपीडितबृहच्छिखरंप्रविशन्तमाश्विव महीमखिलम् ॥३३॥उपविष्टकुञ्जरनिभा गिरय-स्तरवस्तृणैरुपमिताकृतयः ।प्रविलोकिता दिवि मयापतता हलचर्मतुल्यवपुषः सरितः ॥३४॥विषमा महानदनदीगहनैःसमतामलक्ष्यत गता वसुधा ।पृथुकन्दरस्थपुटिता मसृणावरणीभृतामवगता विततिः ॥३५॥अथ लङ्घने सुरसया जलधेःक्षणविघि्नतो विहिततद्विजयः ।पतितोऽहमद्रिशिखरे नखर-क्रकचावपाटितशिलानिकरः ॥३६॥दशकन्धरस्य भवनोपवनंप्रविचिन्वता नृपसुता भवतः ।सुचिरादलक्ष्यत मया विरह-ज्वलनाहुतिस्त्रिजटयाऽनुगता ॥३७॥मुखेन्दुमरुणत्विषी सततचिन्तया बिभ्रतंकपोललुठितालकं विगलदश्रुणी लोचने ।तदीयमवलोकयन्व्रजति मार्दवं चेतसिक्षपाचरगणः श्रुतं सपदि शक्लमुत्प्रेक्षते ॥३८॥विकल्पधटितं स्वयं दिशि भवन्तमालोक्य साचिरेण खलु निर्घृणः स्मृतिपथे कृतोऽयं जनः ।इति प्रजहतो मुहुर्विरचिताञ्जलिर्विष्टरंकरोति तव विद्विषश्चकितदृष्टिकृष्टायुधान् ॥३९॥भविष्यति पुनस्तव प्रियसमागमात्सम्मदंशुचं परमचिन्तया हृतरतिः स्म मैवं गमः ।इतीव रशनागुणः पतति पादयोर्निस्वन-न्विहाय तव योषितः प्रतिपदं नितम्बस्थलीम् ॥४०॥प्रयाति विरहाहितस्मरहुताशनेन व्यथा-मिहोपरचितस्थितिः प्रियतमः पुरा तप्यते ।इतीव हृदयं चिरस्तिमितलोचनान्तच्युतै-स्तनोति नयनाम्बुभिः श्वसितभिन्नधराकणैः ॥४१॥इति व्यथितचेतसं समनुनीय पृथ्वीसुतांधृतोच्छिखशिखामणिर्मणितपूरिताशामुखः ।निहत्य तव विद्विषो गगनमुत्पतन्भोगिभि-र्नियम्य हरिवैरिणा हुतभुजाऽहमादीपितः ॥४२॥सतैलपटवेष्टिता झटिति विस्फुरन्ती भृशंसमीरणरणच्छिखापटलपातपीतासृजा ।ममावयवमंजरी क्षणमदाहि सख्या गुरोःस्वकर्मनिरते जने नहि भृशायते सङ्गतम् ॥४३॥स्फुलिङ्गहतनिस्वनद्युवतिवृद्धरक्षोद्यत-क्षपाचरकुलाकुलं क्षुभितभीतगुञ्जद्गजम् ।गृहव्यपहताहितप्रचुररत्नरथ्यान्तरंमया वियति वल्गता मुहुरकारि धाम द्विषाम् ॥४४॥हतीरितमथापदाममृतबिन्दुनिष्यन्दि त-न्निशम्य वचनं परं शमनमुन्नतस्तेजसा ।जगाम सह सेनया नृपसुतः पयोधेस्तटंतटाचलगुहाऽऽहृतप्रहितवारिवृद्धध्वनिम् ॥४५॥भुवनमहितौ मर्यादासु स्थितेरनतिक्रमा-ज्जनितयशसौ गाम्भीर्येण त्वरावदुपेयतुः ।उदधिरिषुणा भिन्नस्तस्मिन्महाय महीयसिप्रथितमहसि प्रेमाकृष्टो विभीश्च विभीषणः ॥४६॥इति श्रीकुमारदासस्य कृतौ जानकीहरणे त्रयोदशः सर्गः । N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP