संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| अष्टमः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - अष्टमः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत अष्टमः सर्गः Translation - भाषांतर आचरन्नथ हठं स योषितःसा च वामचरिताऽनुरागिणः ।अप्यनीप्सितविधानचेष्टितौतेनतुः सपदि सम्मदं मिथः ॥१॥सप्रयत्नमुपवेशिताऽप्यसौकामिना समुपगुह्य बालिका ।साध्वसेन चपला मुहुर्मुहु-र्वाञ्छति स्म समुदेतुमङ्कतः ॥२॥राघवेण परिरभ्य पृष्ठतःसस्पृहं निगदिते मनोरथे ।व्रीडयाऽवनतवक्त्रपङ्कजाधीरमस्मयत चारुहासिनी ॥३॥अङ्गुलीषु परिगृह्य राघवेवेधयत्युरसि रागिभिर्नखैः ।सस्मितं विवलिताङ्गुलिर्बला-दात्मनः करमुदास मानिनी ॥४॥किन्नु वक्ति कुपितेति वेदितुंकामिना निधुवनेषु स्वग्रहम् ।याचितैनमभिकोपजिह्मित-प्रेरितेक्षणकटु व्यलोकयत् ॥५॥पुष्पकेतुहृतधैर्यबन्धनं तस्यभावमधिगम्य निर्गमैः ।सावकाशमथ कुर्वतीः सखीःसंरुरोध वसनान्तसङ्गिनी ॥६॥विप्रयोगसमये मनोभुवासन्निधौ नृपसुतस्य लज्जया ।इच्छति स्म भृशमाकुलीकृताकामिनी न विरहं न सङ्गमम् ॥७॥मेखलागुणसमीपसङ्गिनं तस्यहस्तमबला व्यपोहितुम् ।मन्दशक्तिररतिं न्यवेदय-ल्लोलनेत्रगलितेन वारिणा ॥८॥तत्र राजदुहितुर्बलात्क्रिया-माचरत्युदितलोचनाम्भसः ।आगमिष्यदनुचिन्त्य खण्डनंभीतवद्भृशभकम्पताधरम् ॥९॥न स्पृशामि रशनागुणं पुन-र्निर्दयं भुजयुगेन पीडितः ।इत्युवाच नृपसूनुरर्थिनीसाततान परिरम्भमस्फुटम् ॥१०॥अन्तरीयहरणे कृतत्वरंतत्पटान्तपरिधानरक्षिता ।पृष्ठतस्तमपयान्तमङ्गनासंरुरोध परिरभ्य राघवम् ॥११॥अंशुकस्य निशि रक्षणाकुलाहस्तयुग्मधृतनीविबन्धना ।अप्रमादकृतविघ्नमन्तरास्वापमाप शयने पराङ्मुखी ॥१२॥यद्ररक्ष दृढवस्त्रबन्धनैःस्वापकालमवगम्य भर्तरि ।तत्प्रमृष्टवति सङ्गतस्मृतिःसा रुरोद मुषितेव सस्वरम् ॥१३॥आननेन परिघट्य बोधितंराजहंस इव पद्मकुड्मलम् ।यत्नगम्यमथ मैथिलीमुखंसोऽनुभूय नहि तृप्तिमाययौ ॥१४॥यत्तदीयमधरोष्ठपल्लवंप्रेमवेगदृढदंशपीडितम् ।तद्दयार्द्रहृदयः पिबन्शनैःस क्षणेन विनिनाय वेदनाम् ॥१५॥स्वाधरं नृपतिशक्रसूनुनाग्राहितं विविधचाटुचेष्टितैः ।पानवर्जितमदन्तविक्षतंभूय एव सृजति स्म मानिनी ॥१६॥त्वं नितम्बमपवाहितांशुकंव्याकुला रहसि पश्यति प्रिये ।प्रार्थनामपि विनैव पल्लव-स्निग्धरागमधरं स्वयं ददौ ॥१७॥सा मदेन मदनेन लज्जयासाध्वसेन च विमिश्रचेष्टिता ।आययौ सपदि तादृशीं दशांया न वक्तुमपि शक्यविभ्रमा ॥१८॥त्याजनाय सुरतस्य भामिनीवाञ्छति स्म पटुचाटुचेष्टितम् ।यत्तदेव समजायत स्वयंयोषितो निधुवनस्य वृद्धये ॥१९॥अश्रुणा रतिषु खेदमात्मनःसम्मदं च पुलकेन कामिनी ।भावनृत्तकुशलेव नर्तकीव्याजहार न तु लज्जया गिरा ॥२०॥यद्यदास तरसाभियोजितंयोषितो रतिषु खेदवृत्तये ।तत्तदेव मृदु साधितं पुनःकामिनाऽपनयति स्म तच्छ्रमम् ॥२१॥मैथिली निधुवनेन विश्लथंकेशहस्तमथ बद्धुमुद्यता ।बाहुमूलगतलोचने प्रियेसस्मितं विनमति स्म लज्जया ॥२२॥इत्यनङ्गशिखिना हते हृदिक्ष्माधिपस्य दुहितुर्निविष्टया ।वासरेषु विगतेषु लज्जयातानवं कतिपयेषु शिश्रिये ॥२३॥हस्तमस्य विरलीकृतत्रपानीविबन्धनमतीत्य संस्थितम् ।निद्रया किल हृता नृपात्मजाशर्वरीषु न बलादपाहरत् ॥२४॥कातरा किल भयं भयानक-स्वप्नदर्शनकृतं प्रपद्य सा ।राघवं कुचतटावुरस्स्थलेसन्निधाय परिषस्वजे दृढम् ॥२५॥ज्ञातमन्मथरसा मदातुरेकामिनि क्षिपति नीविबन्धनम् ।अञ्जलिं किल भयेन कुर्वतीसा जहार करयुग्ममंशुकात् ॥२६॥सम्मताऽपि भुवनस्य मेधयाराघवे निधुवनोपदेशिनि ।व्याजहार गुणितस्य विस्मृतिंभूरिशस्तदुपदेशवाञ्छया ॥२७॥स्वेदबिन्दुनिचिताग्रनासिकाधूतहस्तलतिका ससीत्कृतिः ।सोढमन्मथरसा नृपात्मजाराघवस्य न बभूव तृप्तये ॥२८॥चोदयत्यवनिपालनन्दनेशिक्षितुं युवतिकृत्यनैपुणम् ।देहजन्मशरखण्डितत्रपासा ययौ रहसि कर्मकर्तृताम् ॥२९॥यज्जगाद मदनेन पीडितातत्सहासरसमूचिषि प्रिये ।सस्मितं वलितदेहशोभिनीतत्तदस्फुटमुवाच लज्जिता ॥३०॥रत्नतल्पनिकटस्थिते शुकेसङ्गतौ हृदि निधाय भाषितम् ।निःसहास्मि विसृजेति जल्पतिव्रीडिता परिजघान पञ्जरम् ॥३१॥रामवक्त्रगलितैः श्रमाम्बुभि-श्छिद्रितं कुचयुगस्य कुङ्कुमम् ।सा निरीक्ष्य हसिते सखीजनेसस्मितं व्यपजगाम सम्मुखात् ॥३२॥स्वानुवृत्तिविधिवन्ध्यमीर्ष्ययाचोदितोद्यत इवाथ चेतसः ।मैथिलस्य दुहितुर्मनोभवोलज्जितं निरवशेषमाक्षिपत् ॥३३॥दीर्घिकाजलतरङ्गनिर्धुत-त्यक्तपुष्पमयमण्डनौ क्वचित् ।चाटुरम्यमितरेतराश्रया-स्तेनतुः प्रमदकानने मृजा ॥३४॥यावकं तरुणपल्लवप्रभेयोषितश्चरणपङ्कजद्वये ।तुल्यरागमपि स न्यपातय-च्चाटुमात्रकरणप्रयोजनः ॥३५॥अङ्घ्रियुग्ममनुलिम्पतःस्वयं कुङ्कुमेन तरुणार्करोचिषा ।आरुरोह करयुग्ममस्यतद्दूरमेव परिवृद्धवेपथुः ॥३६॥मेखलामधिनितम्बमर्पयं-स्तत्र तत्र करमादधे मुहुः ।किञ्चिदत्र परमं नु कांक्षितंदुर्नहो नु मणिमेखलागुणः ॥३७॥आचरन्नथ विलेपनक्रियांसस्पृहं पुलकितेन पाणिना ।अस्पृशत्कुचयुगं पुनः पुन-श्चन्दनेन परिलिप्तमप्यसौ ॥३८॥चुम्बति प्रियतमे विलोचनंयोषितः स्वयमुपाहिताञ्जनम् ।कर्णगं निजमशोकपल्लवंप्राप रागमविकासि चक्षुषा ॥३९॥पत्त्रमानमिततर्जनीशिरःस्पृष्टकर्णलतिकः समर्पयन् ।पूर्वमर्धमुकुलीकृतेक्षणंतन्मुखं सुरभिगर्भमन्वभूत् ॥४०॥आत्मनैव स तदा कृतं कृतंयावकं युवतिदन्तवाससि ।उज्जहार मुदितः पुनः पुन-र्निष्पिबन्नधरपानलोलुपः ॥४१॥पुष्परत्नविभवैर्यथेप्सितंसा विभूषयति राजनन्दने ।दर्पणं न तु चकांक्ष मण्डनंस्वामिसम्मदफलं हि योषिताम् ॥४२॥तामनङ्गकृतचारुविभ्रमांनिर्दयं समुपगुह्य चुम्बितुम् ।वीक्षितुं च समकालमप्रभु-र्व्याकुलो मुहुरिवास राघवः ॥४३॥प्रार्थिताऽपि न चकार कानिचि-त्कानिचित्स्वयमपि व्यधत्त सा ।अन्वभूद्धृदयरत्नविक्रय-क्रीतमेनमबला यथेप्सितम् ॥४४॥येन येन हरति स्म तामसौतत्तदेव पुनराप योषितः ।सज्जनेषु विहितं हि यच्छुभंसद्य एव फलबन्धि जायते ॥४५॥कर्मणि स्वमुखपद्मविच्युत-स्वेदबिन्दुहतकान्तवक्षसि ।तस्य चक्षुरुपकाञ्चि सञ्चर-द्वीक्ष्य वक्षसि मुमोच सा तनुम् ॥४६॥भर्तरि प्रणयमौनमास्थिताजल्पयत्यधरदंशनिग्रहैः ।नो चकार वचनानि तादृशंनिग्रहं चिरमवाप्तुमिच्छया ॥४७॥स स्तनौ हृदि निधाय बालयादत्तमास्यकमलं प्रसादने ।प्राप्तुमिच्छुरपि दोषतो विनारोषमाविरकरोन्मुहुर्मुहुः ॥४८॥अल्पदोषविषयेऽपि दम्पतीजग्मतुः प्रणयकोपवामताम् ।स्नेहजातिरतिवृद्धिमागताजायते सुलभरोषसव्रणा ॥४९॥अश्रुषु प्रणयकोपवह्निनालोहितत्वमुपनीय पायितः ।धैर्यमस्य निचकर्त सुस्थिरंतत्कटाक्षविशिखो निपातितः ॥५०॥कोपिता चिरनिवृत्तसङ्गतिःसुप्तमेत्य परिबोधशंकिनी ।हस्तरुद्धचलकुण्डला धृत-श्वासवृत्ति शनकैश्चुचुम्ब सा ॥५१॥कैतवेन कलहेषु सुप्तयाविक्षिपन्वसनमात्तसाध्वसः ।चोर इत्युदितहासविभ्रमंस प्रगल्भमधरे विखण्डितः ॥५२॥सङ्गतस्य परिहृत्य चारिणौमानमेत्य कुहचित्परस्परम् ।अन्ययातनयनौ किलोरसातौ निहत्य कलहं वितेनतुः ॥५३॥एकदाऽरिकदनः स कान्तयासार्धमर्धशशिमौलिसन्निभः ।आरुरोह परिसंहृतातपंद्रष्टुमिद्धरुचिसौधमम्बरम् ॥५४॥वासरस्य विगमे समीरणै-र्मन्दनर्तितसुगन्धिकुन्तलाम् ।सौधपृष्ठमवितस्मृषीमिदंराघवो वच उवाच जानकीम् ॥५५॥सन्निगृह्य करसन्ततिं क्वचि-त्प्रस्थितोऽपि रविरेष रागवान् ।अस्तमस्तकमधिश्रितःक्षणं पश्यतीव भुवनं समुत्सुकः ॥५६॥दिङ्मुखादपसरन्तमातपंनष्टतेजसमनुव्रजन्मुहुः ।भानुना समवबध्य रश्मिभिःकृष्यमाणमिव लक्ष्यते तमः ॥५७॥भूय एव रविमण्डले रुचि-र्लीयते जलधिमध्यवर्तिनी ।अन्तराणि तमसः प्रयच्छतिस्रष्टरीव जगती युगक्षये ॥५८॥सागरे निहितमण्डलं रविंध्वान्तजालमुपयाति सर्वतः ।वारिभिः पिहितदण्डमायतंभृङ्गचक्रमिव फुल्लमम्बुजम् ॥५९॥उत्पतत्यविकले निशाकरेधातुपङ्कपरिदिग्धमण्डलम् ।चक्रमेकमिव राजते नभःस्यन्दनस्य रविबिम्बमस्तगम् ॥६०॥संहृतात्मकिरणं यथा यथावृद्धिमुद्वहति मण्डलं क्रमात् ।सागराम्भसि रविस्तथा तथागौरवादिव शनैर्निमज्जति ॥६१॥उन्मुखा दिनकरस्य रश्मयःसागरान्तरितमण्डलश्रियः ।भान्ति तोयमभिभूय निर्गतावाडवस्य शिखिनः शिखा इव ॥६२॥पूर्वदिङ्मुखगतं घनं तमःसन्ध्यया च परिरुद्धमन्यतः ।भाति सिन्धुजलभिन्नमेकतःप्रावृषीव सलिलं पयोनिधेः ॥६३॥सन्ध्ययाऽरुणितपत्रसंचयंपल्लवैरिव निरन्तरं वनम् ।पश्य तत्तमसि सर्पति क्रमा-द्विन्दतीव परिणामसम्पदम् ॥६४॥अन्धकारनिकरेण सर्वतःकृष्णसर्पमलिनेन सर्पता ।रुध्यमानविषयाः समन्ततःसङ्कुचन्ति परितो यथा दिशः ॥६५॥भाति मत्तशिखिकण्ठकर्बुरंध्वान्तजालपरिरुद्धमम्बरम् ।अर्कदीपकृततापसम्भृत-प्रौढकज्जलमलीमसं यथा ॥६६॥पश्य दीप्तरुचि पूर्वमुद्गतंज्योतिरेतदसितोरगत्विषःदूरमग्नरविरश्मिभासुरंछिद्रमेकमिव विष्णुवर्त्मनः ॥६७॥पश्चिमे नभसि भान्ति लोहिता-स्तारका रविरथस्य वेगिनः ।लोहचक्रहतमेरुमस्तका-दुद्गता इव हुताशविप्रुषः ॥६८॥उन्मिषन्ति दिनकृत्करात्ययेदिङ्मुखैकरचनाः समन्ततः ।तारका रविभयेन मीलितारश्मिधामहतलोहिता इव ॥६९॥पूर्ववारिनिधिपृष्ठतः क्रमा-द्दर्शयन्हिमरुचिः फलान्तरम् ।एकपक्षसुलभक्रमामसौवृद्धिमद्य मुहुरेव विन्दति ॥७०॥पश्य भृंगपटलासितप्रभंपूर्वतः सपदि निर्गतं तमः ।यत्करेण जघने हिमांशुनातुद्यमानमिव याति पश्चिमम् ॥७१॥हारशुभ्रनिजरश्मिसञ्चयःक्षीरवारिनिधिना विवर्धिना ।प्लाव्यमानवदसौ शनैः शनै-रुत्पतत्युदयतो निशाकरः ॥७२॥क्षिप्यमाणघनतामसोत्करंशीतरश्मिकिरणस्य सर्वतः ।दातुमन्तरमिव प्रसर्पतोदूरमुत्सरति मण्डलं दिशाम् ॥७३॥क्षीयमाणवपुरिन्दुरुद्गमेवर्धमानकिरणः समन्ततः ।अर्कतप्तगगनानुबन्धिनातेजसेव परितो विलीयते ॥७४॥बद्धरागमुदितो निशाकरःसन्त्यजन्दिशमसौ बलिद्विषः ।कार्श्यमेति वपुषा मुहुर्मुहुःशोकदीन इव पाण्डुरोचिषा ॥७५॥पश्य पीतमलिबृन्दमेचकंध्वान्तमस्य सकलं हिमत्विषः ।स्वच्छविग्रहतया शशाकृति-च्छद्मना बहिरिवोपलक्ष्यते ॥७६॥विप्रयुक्तवनितामुखाम्बुज-प्रोद्धृतद्युतिचयेन चन्द्रमाः ।नूनमेव पुनरात्ममण्डलंपूरयत्यसितपक्षकर्शितम् ॥७७॥अन्धकारनिकरं करैरिमंभिन्दतः शशधरस्य मण्डले ।क्षोभवेगपतितः शशाकृति-र्धूलिपुञ्ज इव भाति तामसः ॥७८॥गुल्मलीनमलिकर्बुरं तमःक्रष्टुकाम इव शर्वरीकरः ।सर्वतो विटपजालरन्ध्रकैःप्रेरयत्युदयशेखरः करान् ॥७९॥सुप्तकोकिलकुलैश्च षट्पदै-रुल्लसत्कुमुदगन्धसम्भृतैः ।चन्द्ररश्मिनिहतोऽपि सञ्चयःसावशेष इव भाति तामसः ॥८०॥पत्त्रजालशतरन्ध्रविच्युतःसामिसिक्त इव भूरुहस्तले ।स्थण्डिले निरवशेषमिन्दुनाभाति युक्त इव रश्मिसंचयः ॥८१॥उल्लसत्सु कुमुदेषु षट्पदाःसम्पतन्ति परितो हिमांशुना ।भिद्यमानतमसो नभस्तला-द्विच्युता इव तमिस्रबिन्दवः ॥८२॥तारका रजतभङ्गभासुरादिग्वधूभिरुदयादुदेष्यतः ।वर्त्मनि ग्रहपतेः समन्ततःतानिता इव विभान्ति लाजकाः ॥८३॥सुप्तपद्मविनिमीलितेक्षणावृद्धशान्तकलहंसकूजिताः ।मित्रनाशपरिरोदिताश्चिरंमूर्छिता इव विभान्ति दीर्घिकाः ॥८४॥सैकते शशिमरीचिलेपनेसुप्तमिन्दुकरपुंजसन्निभम् ।राजहंसमसमीक्ष्य कातरारौति हंसबनिता सगद्गदम् ॥८५॥तिग्मरश्मिविरहे सरोजिनीलोकमिन्दुकिरणावगुण्ठितम् ।नाभिवीक्षितुमिव क्षपागमेमीलयत्यसितवारिजेक्षणम् ॥८६॥जृंभमाणचलपत्रसंहतेरन्तरंकुमुदषण्डसम्पदः ।संविधातुमिव पद्मसन्ततिःसङ्कुचत्यनतिदूरवर्तिनी ॥८७॥लक्षणं मृगमयं हिमद्युतिर्भातिबिभ्रदसितोत्पलप्रभम् ।श्यामलावदनबिम्बकान्तिभि-र्विद्धमध्य इव रूप्यदर्पणः ॥८८॥यौवनोपहितपांडुकान्तिनात्वन्मुखेन विजितो निशाकरः ।लज्जयेव घनमेघसन्ततौरुद्धरश्मिनिवहो निलीयते ॥८९॥निष्पतत्यसितवारिदोदरा-दंकितः शशमयेन लक्ष्मणा ।मध्यलग्नमिव मन्दमुद्वहन्कृष्णमेघशकलं निशाकरः ॥९०॥वेधसा रचयितुं तव प्रियेकुन्दगौरदशनावलीमिमाम् ।उद्धृतद्युतिरिवैष मध्यतोभाति कृष्णमृगलक्षणः शशी ॥९१॥तत्कलङ्कममृतद्युतेरयंत्वन्मुखावजितमण्डलश्रियः ।वीक्ष्य शीतकरकान्ततोरणःशोकबाष्पमिव वारि मुञ्चति ॥९२॥इति सपदि वदन्वदान्यवर्यःशयनशिलातलमिन्दुपादधौतम् ।अलसतरगतिर्नरेन्द्रकन्या-मनुगमयन्मदमन्थरः प्रपेदे ॥९३॥अथ सुरतमखे सुखं समाप्तेमदनहुताशनदग्धमानहव्ये ।चषकमधुनि सन्निविष्टबिम्बंमुखमनयद्दयितासखः स सोमम् ॥९४॥दुहितुरवनिभर्तुरुन्मयूखंमणिचषकं परिमण्डलं विहाय ।प्रियमुखपरिभुक्तधामवाञ्छाकरकमलं नयति स्म हेमशुक्तिम् ॥९५॥नियतमिह पतन्ति दन्तधारामदमदनोद्धतयोरितीव भीत्या ।अधरकिसलये विहाय यूनो-र्मधुपिबतोर्नयनान्युपास्त रागः ॥९६॥युवतिमुखमसंशयं यदेतत्ी् –सरसिरुहं परमार्थतः स तस्मात् ।मुहुरपि मधुपः सुगन्धिहृद्यंन विरमति स्म पिबन्विवृद्धतृष्णः ॥९७॥अधरमितवतो मधुस्रवेणस्फुटरचितभ्रुकुटिर्व्रणस्य दाहात् ।अचकमत मधु प्रियामुखेनक्षितिपसुतः प्रणयादसौ वितीर्णम् ॥९८॥इति सपदि निशां विनिन्यतुस्तौविलुलितकेशसमर्पितं दधानौ ।रतिकलहकचग्रहेण माल्यंप्रविधुतकौसुमभक्तिसूत्रशेषम् ॥९९॥अथ हदयङ्गमध्वनितवंशमृदङ्गकृतानुगमै-रनुगतवल्लकीमृदुतरक्वणितैर्ललनाः ।तमुषसि भिन्नषड्जविषयीकृतमन्द्ररवैःशयितमबोधयन्विविधमङ्गलगीतिपदैः ॥१००॥शयनममुच्यत प्रियमनु प्रमदोत्तमयाहृदयनिपीडनोद्धृतपयोधरकुङ्कुमया ।रतिषु दधानया दशनखण्डितमोष्ठमणिंचिरकृतजागरारुणितमन्थरलोचनया ॥१०१॥इति श्रीमत्सिंहलकवेः कुमारदासस्य कृतौजानकीहरणे महाकाव्येऽष्टमः सर्गः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP