तृतीयाः पाद: - सूत्र ६०-६६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६०॥

काम्यास्तु यथाक्रामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥
अविशिष्टाफलत्वादित्यस्य प्रत्युदाहरणम् ।
यासु पुन: काम्यासु विद्यासु स य एवमेव वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति स यो नाम ब्रम्हौत्युपास्ते यांवन्नान्मो गतं तत्रास्य यथाकामचारो  भवतीति चैवमाद्यासु क्रियावदद्दष्टेनात्मनात्मीयं फलं साधयन्तीषु साक्षात्करणापेक्षा नास्ति ।
ता यथाकामं समुच्चीयेरन्न वा समुच्चीयेरन्पूर्वहेत्वभावात् ।
पूर्वस्याविशिष्टफलत्वादित्यस्य विकल्पहेतोरभावात् ॥६०॥

अङ्गेषु यथाश्रयभाव: ॥६१॥

अङ्गेषु यथाश्रयभाव: ॥ कर्माङ्गोषूद्रथिदिषु य आश्रिता: प्रत्यया वेदत्रयविहिता: किं ते समुच्चीयेरन्किं वा यथाकामं स्युरित संशये यथाश्रयभाव इत्याह ।
यथैवैबामाश्रया: स्तोत्रादय: संभूय भवन्त्येवं प्रत्यवा अपि ।
आश्रयतन्त्रत्वात्प्रत्ययानाम् ॥६१॥

शिष्टेश्व ॥६२॥

शिष्टेश्व ॥ यथा वाऽऽश्रया: स्तोत्रादयस्त्रिषु शिष्यन्त एवमाश्रिता अपि प्रत्यया: ।
निपदेशकृतोऽपि कश्चिद्विशेषोऽङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थ: ॥६२॥

समाहारात् ॥६३॥

समाहारात् ॥ होतृषदनाद्वैवापि दुरुद्नीथमनुसमाहरतीति च प्रणवोद्नीथैकत्वविज्ञानमाहात्म्यादुद्नाता स्वकर्मण्युत्पन्नं क्षतं हौत्रात्कर्मण: प्रतिसमादधातीति ब्रुवस्वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसंबन्धसामान्यात्सर्ववेदोदितप्रत्ययोपसंहारं सूचयतीति लिङदर्शनम् ॥६३॥

गुणसाधारण्यश्रुतेश्च ॥६४॥

गुणसाधारण्यश्रुतेश्च । विद्यागुणं च विद्याश्रयं सन्तमोंकारं वेदत्रयसाधारणं श्रावयति - तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शंसत्योमित्युद्नायतीति च ।
ततश्चाश्रयसाधारण्यादाश्रितसाधारण्यमिति लिङ्गदर्शनमेव ।
अथवा गुणसाधारण्यश्रुतेश्चेति ।
यदीमे कर्मगुणा उद्नीथादय: सर्वे सर्वप्रयोगसाधारणा न स्युर्न स्यात्ततस्तदाश्रयाणां प्रत्ययानां सहभाव: ।
ते तूद्नीथादय: सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणा: श्राव्यन्ते ।
ततश्चाश्रयसहभावात्प्रत्ययसहभाव इति ॥६४॥

न वा तत्सहभावाश्रुते: ॥६५॥

न वा तत्सहभावाश्रुते: ॥ न वेति पक्षव्यावर्तनम् ।
न यथाश्रयभाव आश्रितानामुपासनानां भवितुमर्हति । कृत: । तत्सहभावाश्रुते: ।
यथा हि त्रिवेदीविहितानामङ्गानां स्तोत्रादीनां सहभाव: श्रूयते - ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति स्तोत्रमनुशंसति प्रस्तोत: साम गाय होतरेतद्ययेत्यादिना ।
नैवमुपासनानां सहभावश्रुतिरस्ति ।
ननु प्रयोगवचन एषां सहभावं प्रापयेत् ।
नेति ब्रम: ।
पुरुषार्थत्वादुपासनानाम् ।
प्रयोगवचनो हि क्रत्वर्थानामुद्नीथादीनां सहभावं प्रापयेत् ।
उद्नीथाद्युपासनानि क्रत्वर्थाश्रयाण्यपि गोधोहनादिवत्पुरुषार्थानीत्यवोचाम पृथग्घ्यप्रतिबन्ध: फलमित्यत्र ।
अयमेव चोपदेशाश्रयो विशेषोऽङ्गानां तदालभ्बानानां चापासनानां यदेकेषां क्रत्वर्थत्वमेकेषां पुरुषार्थत्वमिति ।
परं च लिङ्गद्वयमकारणमुपासनसहभावस्य श्रुतिन्यायाभावात् ।
न च प्रतिप्रयोगमाश्रयकार्त्स्न्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम् ।
अतत्प्रयुक्तत्वादुपासनानाम् ।
आश्रयतन्त्राण्यपि हयुपासनानि काममाश्रयाभावे माभूवन्न त्वाश्रयसहभावे न सहभावनियममर्हन्ति तत्सहभावाश्रुतेरेव ।
तस्माद्यथाकाममेवोपासनान्यनुष्ठीरेतन् ॥६५॥

दर्शनाच्च ॥६६॥

दर्शनाच्च ॥ दर्शयति च श्रुतिरसहभावं प्रत्ययानामेवंविद्ध वै ब्रम्हा यज्ञां यजमानं सर्वांश्चर्त्विजोऽभिरक्षतीति ।
सर्वप्रत्ययोपसंहारे हि सर्वे सर्वविद इति न विज्ञानवता ब्रम्हाणा परिपाल्यत्वमितरेषां संकीर्त्येत ।
तस्माद्यथाकाममुपासनानां समुच्चयो विकल्पो वेति ॥६६॥

इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवत्पूज्यपादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये तृतीयाध्यायस्य तृतीय: पाद: ॥३॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP