तृतीयाः पाद: - सूत्र १०
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
सर्वाभेदादन्यत्नेमे ॥१०॥
सर्वाभेदादन्यत्नेमे । वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठयगुणान्वितस्य प्राणस्योपास्यत्वमुक्तं वागादयोऽपि तत्र वसिष्ठत्वादिगुणान्विता उक्ता: ।
ते च गुणा: प्राणे पुन: प्रत्यर्पिता: ।
यद्वाऽहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यादिना ।
अन्येषामपि तु शाखिनां कौषीतकिप्रभृतीनां प्राणसंवादेष्वथातो नि: श्रेयसादानमेता ह वै देवता अहं श्रेयसे विवदमाना इत्येवञ्जातीयकेषु प्राणस्य श्रैष्ठयमुक्तं न त्विमे वसिष्ठत्वादयोऽपि गुणा उक्ता: ।
तत्र संशय: ।
किमिमे वसिष्ठत्वादयो गुणा: क्वचिदुक्ता अन्यत्राप्यस्येरन्नुत नास्येरन्निति ।
तत्र प्राप्तं तावन्नास्येरन्निति । कुत: । एवंशब्दसंयोगात् ।
अथो य एवैवं विद्वान्प्राणे नि: श्रेयसं विदित्वेति हि तत्र तत्रैवंशब्देन वेद्यं वस्तु निवेद्यते ।
एवंशब्दश्च सन्निहितावलम्बनो न शाखान्तरपरिपठितमेवञ्ज्जातीयकं गुणजातं शक्नोति निवेदयितुम् ।
तस्मात्स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमिति ।
एवं प्राप्ते प्रत्याह ।
अस्येरन्निमे गुणा: क्वचिदुक्ता वसिष्ठत्वादयोऽन्यत्रापि । कुत । सर्वाभेदात् ।
सर्वत्रैव हि तदेवैकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते ।
प्राणसंवादादिसारूप्यात् ।
अभेदे च विज्ञानस्य कथमिमे गुण: क्वचिदुक्ता अन्यत्र नास्येरन् ।
नन्वेवंशब्दस्तत्र भेदेनैवञ्जातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम् । अत्रोच्यते ।
यद्यपि कौषीतकिब्राम्हाणगतेनैवंशब्देन वाजसनेयिब्राम्हाणगतं गुणजातमसंशब्दितमसन्निहितत्वात्तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राम्हाणगतेनैवंशब्देन तत्संशब्दितमिति न परशाखागतमप्यभिन्नविज्ञानावरुद्धं गुणजातं स्वशाखागताद्विशिष्यते ।
न चैवं सति श्रुथानिरश्रुतकल्पना वा भवति ।
एकस्यामपि हि शाखायं श्रुता गुणा: श्रुता एव सर्वत्र भवन्ति गुणवतो भेदाभावात् ।
न हि देवदत्त: शौर्यादिगुनत्वेन स्वदेशे प्रसिद्धो देशान्तरगतस्तद्देशस्थैरविभावितशौर्यादिगुणोऽप्यतद्रुणो भवति ।
यथा च तत्र परिचयविशेषाद्देशान्तरेऽपि देवदत्तगुना विभाव्यन्त एवमभियोगविशेषाच्छाखान्तरेऽप्युपास्या गुणा: शाखान्तरेऽप्यस्येरन् ।
तस्मादेकप्रधानसंबद्धा धर्मा एकत्राप्युच्यमाना: सर्वत्रैवोपसंहर्तव्या इति ॥१०॥
N/A
References : N/A
Last Updated : December 20, 2014
TOP