संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|तॄतीय: पाद:| सूत्र ३१ तॄतीय: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४-५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३-१४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१-२२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७-२८ सूत्र २९-३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६-४९ सूत्र ५० सूत्र ५१-५२ सूत्र ५३-५४ सूत्र ५५ सूत्र ५६ सूत्र ५७ सूत्र ५८ सूत्र ५९ सूत्र ६०-६६ तृतीयाः पाद: - सूत्र ३१ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ३१ Translation - भाषांतर अनियम: सर्वासामविरोध: शब्दानुमानाभ्याम् ॥३१॥अनियम: सर्वासामविरोध: शब्दानुमानाभ्याम् ॥सगुणासु विद्यासु गतिरर्थवती न निर्गुणायां परमात्मविद्यायामित्युक्तम् ।सगुणास्वपि विद्यासु कासुचिद्नति: श्रूयते यथा पर्यङकविद्यायामुपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति ।नान्यासु यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडशकलविद्यायां वैश्चानरविद्यायामिति ।तत्र संशय: किं यास्वेषा गति: श्रूयते तास्वेव नियम्येतोतानियमेन सर्वाभिरेवंजातीयकाभिर्विद्याभिरभिसंबध्येतेति ।किं तावत्प्राप्तं नियम इति ।यत्रैव श्रूयते तत्रैव भवितुमर्हति ।प्रकरणस्य नियामकत्वात् ।यद्यन्यत्र श्रूयमाणापि गतिर्विद्यान्तरं गच्छेच्छुत्यादीनां प्रामाण्यं हीयेत सर्वस्य सर्वार्थत्वप्रसङ्गात् ।अपि चार्चिरादिकैकैव गतिरुपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठयते तत्सर्वार्थत्वेऽनर्थकं पुनर्वचनं स्यात् ।तस्मान्नियम इत्येवं प्राप्ते पठति ।अनियम इति ।सर्वासामेवाभ्युदयप्राप्तिफलानां सगुणानां विद्यानामविशेषेणैषा देवयानाख्या गतिर्भवितुमर्हाति ।नन्वनियमाभ्युपगमे प्रकरणविरोध उक्त: ।नैषोऽस्ति विरोध: ।शब्दानुमानाभ्यां भुतिस्मृतिभ्यामित्यर्थ: ।तथा हि श्रुतिस्तद्य इत्थं विदुरिति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती ये चेमेऽरण्ये श्रद्धा तप इत्युपासत इति विद्यान्तारशीलिनामपि पञ्चाग्निविद्याविद्धि: समानमार्गतां गमयति ।कथं पुनरवगम्यते विद्यान्तरशीलिनामियं गतिरिति ।ननु श्रद्धातप: परायणानामेव स्यात्तन्मात्रश्रवणात् ।नैष दोष: ।न हि केवलाभ्यां श्रद्धातपोभ्यामन्तरेण विद्याबलमेषा गतिर्लभ्यते विद्यया तदारोहन्ति यत्र कामा: परागता: ।न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विन इति भुत्यन्तरात् ।तस्मादिह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् ।वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारेऽधीयते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासत इति ।तत्र श्रद्धालवो ये सत्यं ब्रम्होपासत ति व्याख्येयम् ।सत्यशब्दस्य ब्रम्हाण्यसकृत्प्रयुक्तत्वात् ।पञ्चाग्निविद्याविदां चेत्थंवित्तयैवोपात्तत्वाद्विद्यान्तरपरायणानामेवेदमुपादानं न्याय्यम् ।अथ य एतौ पन्थानौ न विदुस्ते कीटा: पतङ्गा यदिदं दन्दशुकमिति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिर्देवयानपितृयाणयोरेवैनानन्तर्भावयति ।तत्रापि विद्याविशेषादेषां देवयानप्रतिपत्ति: ।स्मृतिरपि शुक्लकृष्णे गती होते जगत: शाश्चते मते ।एकया यात्यनावृत्तिमन्यया वर्तते पुनरिति ।यत्पुनर्देवयानस्य पथो द्विरान्नानमुपकोसलविद्यायां पञ्चाग्निविद्यायां च तदुअभयत्राप्यनुचिन्तनार्थम् ।तस्मादनियम: ॥३१॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP