तृतीयाः पाद: - सूत्र २५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


वेधाद्यर्थभेदात् ॥२५॥

वेधाद्यर्थभेदात् । अस्त्याथर्वणिकानामुपनिषादारम्भे मन्त्रसमान्नाय: सर्व प्रविध्य ह्रदयं प्रविध्य धमनी: प्रवृज्य शिरोऽभिप्रवृज्य त्रिधा विपृक्त इत्यादि: ।
ताण्डिनां देव सवित: प्रसुव यज्ञमित्यादि: ।
शाठयायनिनां श्वेताश्वो हरितनीलोऽसीत्यादि: ।
कठानां तैत्तिरीयाणां च शं नो मित्र: शं वरुण इत्यादि: ।
वाजसनेयिनां तूपनिषदारम्भे प्रवर्ग्यब्राम्हाणं पठयते देवा ह वै सत्रं निषेदुरित्यादि: ।
कौषीतक्रिनामप्यग्निष्टोमब्राम्हाणं ब्रम्हा वा अग्निष्टोमो ब्रम्हौव तदहर्ब्रम्हाणैव तो ब्रम्होपयन्ति तेऽमृतत्वमाप्रुवन्ति य एतदहरुपयन्तीति ।
किमिमे सर्वे प्रविध्यादयो मन्त्रा: प्रवर्ग्यादीनि च कर्माणि विद्यासूपसंहियेरन्किं वा नोपसंहियेरन्निति मीमांसामहे ।
किं तावन्न: प्रतिभाति ।
उपसंहार एवैषां विद्यास्विति । कुतु: ।
विद्याप्रधानानामुपनिषद्रून्थानां समीपे पाठात् ।
नन्वेषां विद्यार्थतया विधानं नोपलभामहे । बाढम् ।
अनुपलभमाना अपि त्वनुमास्यामहे सन्निधिसामर्थात् ।
न हि सन्निधेरर्थवत्त्वे संभवत्यकस्मादसावनाश्रयितुं युक्त: ।
ननु नैषां मन्त्राणां विद्याविषयं किंचित्सामर्थ्यं पश्याम: ।
कथंच प्रवर्ग्यादीनि कर्माण्यन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति ।
नैष दोष: ।
सामर्थ्य तावन्म्नन्त्राणां विद्याविशयमपि किंचिच्छक्यं कल्पयितुं ह्रदयादिसङ्कीर्तनात् ।
ह्रदयादीनि हि प्रायेणोपासनेष्वायतनादिभावेनोपदिष्टानि तद्द्वारेण च ह्रदयं प्रविध्येत्येवंजातीयकानां मन्त्राणामुपपन्नमुपासनाङ्गत्वम् ।
इष्टश्चोपासनेष्वपि मन्त्रविनियोग: ।
भू:  प्रपद्येऽमुनामुनामुनेत्येवमादि: ।
तथा प्रवर्ग्यादीनां कर्मणामन्यत्रापि विनियुक्तानां सतामविरुद्धो विद्यासु विनियोगो वाजपेय इव बृहस्पतिसवस्येत्येवं प्राप्ते ब्रूम: ।
नैषामुपसंहारो विद्यास्विति । कस्मात् ।
वेधाद्यर्थभेदात्  । ह्रदयं प्रविध्येत्येवंजातीयकानां हि मन्त्राणां येऽर्था ह्रदयवेधादयो भिन्ना अनभिसंबद्धास्त उपनिषदुदिताभिर्विद्याभि: ।
न तेषां ताभि: संगन्तुं सामर्थ्यमस्ति ।
ननु ह्रदयस्योपासनेष्वप्युपयोगात्तद्द्वारक उपासनासंबन्ध उपन्यस्त: ।
नेत्युच्यते ।
ह्रदयमात्रसङ्कीर्तनस्य हयेवमुपयोग: कथञ्चिदुत्प्रेक्ष्येत ।
न च ह्रदयमात्रमत्र मन्त्रार्थ: ।
ह्रदयं प्रविध्य धमनी: प्रवृज्येत्येवंजातीयको हि न सकलो मन्त्रार्थो विद्याभिरभिसंबध्यते ।
आभिचारिकविषयो हयेवोऽर्थस्तस्मादाभिचारिकेण कर्मणा सर्व प्रविध्येत्येतस्य मन्त्रस्याभिसंबन्ध: ।
तथा देव सवित: प्रसुव यज्ञमित्यस्य यज्ञप्रसवलिङ्गत्वाद्यज्ञेन कर्मणा संबन्ध: ।
तद्विशेषसंबन्धस्तु प्रमाणान्तरादनुसर्तव्य: ।
एवमन्येषामपि मन्त्राणां केषांचिल्लिंगेन केषांचिद्वचनेन केषांचित्प्रमाणान्तरेणेत्येवमर्थान्तरेषु विनियुक्तानां रहस्यपठितनामपि सतां न सन्निधिमात्रेण विद्याशेषत्वोपपत्ति: ।
दुर्बलो हि सन्निधि: श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्वल्यमर्थविप्रकषीदित्यत्र ।
तथा कर्मणामपि प्रवर्ग्यादीनामन्त्रय विनियुक्तानां न विद्याशेषत्वोपपत्ति: ।
न हयेषां विद्याभि: सहैकार्थ्यं किंचिदस्ति ।
वाजपेये तु बृहस्पतिसवस्य स्पष्टे विनियोगान्तरं वाजपेयेनेष्ट्वा बृहस्पतिसनेव यजेतेति ।
अपि चैकोऽयं प्रवर्ग्य: सकृदुत्पन्नो बलीयसा प्रमाणेनान्यत्र विनियुक्तो न दुर्बलेन प्रमाणेनान्यत्रापि विनियोगमर्हति ।
अगृहयमाणविशेषत्वे हि प्रमाणयोरेतदेवं स्यान्न तु वलवदबलवतो: प्रमाणयोरगृहयामाणविशेषता संभवति बलवदबलवत्त्वविशेषादेव ।
तस्मादेवंजातीयकानां मन्त्राणां वा न सन्निधिपाठमत्रिण विद्याशेषत्वमाशङ्कितव्यम् ।
अरण्यानुवचनादिधर्मसामान्यात्तु सन्निधिपाठ इति संतोष्टव्यम् ॥२५॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP