संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|तॄतीय: पाद:| सूत्र ४६-४९ तॄतीय: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४-५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३-१४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१-२२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७-२८ सूत्र २९-३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६-४९ सूत्र ५० सूत्र ५१-५२ सूत्र ५३-५४ सूत्र ५५ सूत्र ५६ सूत्र ५७ सूत्र ५८ सूत्र ५९ सूत्र ६०-६६ तृतीयाः पाद: - सूत्र ४६-४९ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४६-४९ Translation - भाषांतर अतिदेशाच्च ॥४६॥अतिदेशाच्च ॥ अतिदेशश्चैषामग्नीनां क्रियानुप्रवेशमुपोद्बलयति षटत्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्व इति ।सति हि सामान्येऽतिदेश: प्रवर्तते ततश्च पूर्वेणेष्टकाचितेन क्रियानुप्रवेशिनाऽग्निना सांपादिकानग्नीनतिदिशन्क्रियाभुप्रवेशमवैषां द्योतयति ॥४६॥विद्यैव तु निर्धारणात् ॥४७॥विधैव तु निर्धारणात् । तुशब्द: पक्षं व्यावर्तयति । विद्यात्मका एवैते स्वतन्त्रा मनश्चिदादयोऽग्नय: स्युर्न क्रियाशेषभूता: ।तथा हि निर्धारयति ते हैते विद्याचित एवेति विद्यया हैवैते एवंविदश्चिता भवन्तीति च ॥४७॥दर्शनाच्च ॥४८॥दर्शनाच्च ॥ द्दश्यते चैषां स्वातन्त्र्ये लिङ्गं तत्पुरस्ताद्दर्शितं लिङ्गभूयस्त्वदित्यत्र ॥४८॥श्रुत्यादिबलीयस्त्वाच्च न बाध: ॥४९॥ननु लिङ्गमप्यसत्यामन्यस्यां प्राप्तावसाधकं कस्यचिदर्थस्येत्यपास्य तत्प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसितमित्यत उत्तरं पठति - श्रुत्यादिबलीयस्त्वाच्च न बाध: ॥नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्र्यपक्षो बाधितव्य: ।श्रुत्यादेर्बलीयस्त्वात् ।बलीयांसि हि प्रकरणाच्छुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे ।तानि चेह स्वातन्त्र्यपक्षं साधयन्ति द्दश्यन्ते । कथम् ।श्रुतिस्तावत्ते हैते विद्याचित एवेति ।तथा लिङ्गं सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वप्त इति ।तथा वाक्यमपि विद्यया हैवैत एवंविदश्चिता भवन्तीति ।विद्याचित एवेति हि सावधारणेयं श्रुति: क्रियानुप्रवेशेऽमीषामभ्युपगम्यमाने पीडिता स्यात् ।नन्वबाहयसाधनत्वाभिप्रायमिदमवधारणं भविष्यति । नेत्युच्यते ।तदभिप्रायतायां हि विद्याचित इतीयता स्वरूपसंकीर्तनेनैव कृतत्वादनर्थकमवधारणं भवेत् ।स्वरूपमेव हयेषामबाम्हासाधनमिति ।अबाहयसाधनत्वेऽपि तु मानसग्रहवत्क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलमवधारणमर्थवद्भविष्यति ।तथा स्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतानग्नींश्चिन्वन्तीति सातत्यदर्शनमेषां स्वातन्त्र्येऽवकल्पते ।तथा सांपादिके वाक्प्राणमयेऽग्निहोत्रे प्राणं तदा वाचि जुहोति वाचं तदा प्राणे जुहोतीति चोक्त्वोच्यते - एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च सततं जुहोतीति तद्वत् ।क्रियानुप्रवैशे तु क्रियाप्रयोगस्याल्पकालत्वेन न सातत्येनैषां प्रयोग: कल्पेत ।न चेदमर्थवादमान्नमिति न्याय्यम ।यत्र हि विस्पष्टो विधायको लिङ्गादिरुपलभ्यते युक्तं तत्र संकीर्तनमात्रस्यार्थवादत्वम् ।इह तु विस्पष्टविध्यन्तरानुपलन्धे: संकीर्तनादेवैषां विज्ञानविधानं कल्पनीयम् ।तच्च यथा संकीर्तनमेव कल्पयितु शक्यत इति सातत्यदर्शनात्तथाभूतमेव कल्प्यते ।ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धि: ।एतेन तद्यर्त्कि चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिरित्यादि व्याख्यातम् ।तथा वाक्यमप्येवंविद इति पुरुषविशेषसंबन्धमेवैषामाचक्षाणं न क्रतुसंबन्धं मृष्यते ।तस्मात्स्वातन्त्र्यपक्ष एव ज्यायानिति ॥४९॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP