तृतीयाः पाद: - सूत्र ५६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


मन्त्रादिवद्वाऽविरोध: ॥५६॥

मन्त्रादिवद्वाऽविरोध: ॥ अथवा नैवात्र विरोध: शङ्कितव्य: ।
कथमन्यशाखागतेषूद्नीर्थादिष्वन्यशाखाविहिता: प्रत्यया भवेयुरिति ।
मन्त्रादिवदविरोधोपपत्ते: ।
तथा हि मन्त्राणां कर्मणां गुणानां च शाखान्तरओत्पन्नानामपि शाखान्तर उपसंग्रहो द्दश्यते ।
येषामपि हि शाखिनां कुटरुरसीत्यश्मादानमन्त्रो नान्नातस्तेषामप्यसौ विनियोगो द्दश्यते कुक्कुटोऽसीत्यश्मानमादत्ते कुटरुरसीति वेति ।
येषामपि समिदादय: प्रयाज्ञा नानातास्तेषामपि तेषु गुणविधिरान्नायत ऋतवो वै प्रयाजा: समानत्र होतव्या इति ।
तथा येषामप्यजोऽग्नीषोमीय इति जातिविशेषोपदेशो नास्ति तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते छागस्य वपाया मेदसोऽनुब्रूहीति ।
तथा वेदान्तरोस्पन्नानामप्यग्नर्वेर्होत्र वेरध्वरमित्येवमादिमन्त्राणां वेदान्तरे परिग्रहो द्दष्ट: ।
तथा बहवृचपठितस्य सूक्तस्य यो जात एव प्रथमो मनस्वानित्यस्याध्वर्यवे सजनीयं शस्यमित्यत्र परिग्रहो द्दष्ट: ।
तस्माद्यथाश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिरेवमाश्रितानामपि प्रत्ययानामित्यविरोध: ॥५६॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP