तृतीयाः पाद: - सूत्र २६
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
हानौ तूपायनशब्दशेषत्वात्कुशाछन्द: स्तुत्युपगानवतदुक्तम् ॥२६॥
हानौ तूपायनशब्दशेषत्वात्कुशाछन्द: स्तुत्युपगानवत्तदुक्तम् ॥
अस्ति ताण्डिनां श्रुति: - अश्व इव रोमाणि विधूय पां चन्द्र इव राहोर्मुखात्प्रच्य धूत्वा शरीरमकृतं कृतात्मा ब्रम्हालोकमभिसंभवांइति ।
तथाऽऽथर्वणिकानां तथा विद्वान्नामरूपाद्विमुक्त: परात्परं पुरुषमुपैति दिव्यमिति ।
तथा शाटयायनिन: पठन्ति तस्य पुत्रा दायमुपयन्ति सुह्रद: साधुकृत्यां द्विषन्त: पापकृत्यामिति ।
तथा च कौषीतकिन: - तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातय: सुकृतमुपयत्न्यप्रिया दुष्कृतमिति ।
तदिह क्वचित्सुकृतदुष्कृतयोर्हानं श्रूयते क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनं क्वचित्तूभयमपि हानमुपायनं च ।
तद्यत्रोभयं श्रूयते तत्र तावन्न किंचिद्वक्तव्यमस्ति यत्राप्युपायनमेव श्रूयते न हानं तत्राप्यर्थादेव हानं संनिपतति ।
अन्यैरात्मीययो: सुकृतदुष्कृतयोरुपेयमानयोरावश्यकत्वात्तद्धानस्य ।
यत्र तु हानमेव श्रूयते नोपायनं तत्रोपायनं संनिपतेद्वा न वेति विचिकित्सायामश्रवणादसंनिपात: ।
विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य ।
अपि चात्मकर्तृकं तूपायनं सुकृतदुष्कृतयोर्हानं परकर्तृकं तूपायनं तयोरसत्यावश्यकभावे कथं हानेनोपायनमाक्षिप्येत ।
तस्मादसंनिपातो हानावुपायनस्येति ।
अस्यां प्राप्तौ पठति हानौ त्विति ।
हानौ त्वेतस्यां केवलायामपि श्रूयमाणायामुपायनं संनिपतितुमर्हति ।
तच्छेषत्वात् ।
हानशब्दशेषो हयुपायनशब्द: समधिगत: कौषीतकिरहस्ये ।
तस्मादन्यत्र केवलहानशब्दश्रवणेऽप्युपायनानुवृत्ति: ।
यदुक्तमश्रवणाद्विद्यान्तरगोचरत्वादनावस्यकत्वाच्चासंनिपात इति ।
तदुच्यते ।
भवेदेषा व्यवस्थोक्तिर्यद्यनुष्ठेयंकिंचिदन्यत्र श्रुतमन्यत्र निनीष्येत ।
न त्विह हानमुपायनं वाऽनुष्ठेयत्वेन संकीर्त्यते विद्यास्तुत्यर्थं त्वनयो: संकीर्तनमित्थं महाभागा विद्या यत्सामर्थ्यादस्य विदुष: सुकृतदुष्कृते संसारकारणभूते विधूयेते ते चास्य सुह्रद्द्विषत्सु निविशेते इति ।
स्तुत्यर्थे चास्मिन्संकीर्तने हानानन्तरभावित्वेनोपायनस्य क्वचिच्छुतत्वादन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते स्तुतिप्रकर्षलाभाय ।
प्रसिद्धा चार्थवादान्तरापेक्षाऽर्थवादान्तरप्रवृत्ति: - एकविंशो वा इतोऽसावादित्य इत्येवमादिषु ।
कथं हीहैकविंशताऽऽदित्यस्याभिधीयेतानपेक्ष्यमाणेऽर्थवादान्तरे द्वादश मासा: पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशत्येतस्मिन् ।
तथा त्रिष्टुभौ भवत: सेन्द्रियत्वायेत्येवमादिवादेष्विन्द्रियं वै त्रिष्टुबित्येवमाद्यर्थवादान्तरापेक्षा द्दश्यते ।
विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्य कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम् ।
उपायनशब्दशेषत्वादिति तु शब्दं समुच्चारयन्स्तुत्यर्थामेव हानावुपायनानुवृत्तिं सूचयति ।
गुणोपसंहारविवक्षायां हयुपायनार्थस्यैव हानावनुवृत्तिं ब्रूयात् ।
तस्माद्नुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम् ।
कुशाछन्द: स्तुत्युपगानवदित्युपमोपादानम् ।
तद्यथा भाल्लविमां कुशा वानस्पत्या: स्थ ता मा पातेत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वेन श्रवणे शाटयायनिनामौदुम्बरा इति विशेषवचनादोदुम्बर्य: कुशा आश्रीयन्ते ।
यथा च क्वचिद्देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे देवच्छदांसि पूर्वाणीति पैङ्गयाम्नायात्प्रतीयन्ते ।
यथा च षोडशिस्तोत्रे केषांचित्कालाविशेषप्राप्तौ समयाध्युषिते सूर्य इत्यार्चश्रुते: कालविशेषप्रतिपत्ति: ।
यथैव चाविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविन: ।
यथैतेषु कुशादिषु श्रुत्यन्तरगतावशेषान्वय एवं हानावप्युपायनान्वय इत्यर्थ: ।
श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरेऽनभ्युपगच्छत: सर्वत्रेव विकल्प: स्यात् ।
स चान्याय्य: सत्यां गतौ ।
तदुक्तं द्वादशलक्षण्याम्अपि तु वाक्यशेषत्वादितरपर्युदास: स्यात्प्रतिषेधे विकल्प: स्यादिति ।
अथ वैतास्वेव विधूननश्रुतिष्वेतेने सूत्रेणैतच्चिन्तयितव्यं किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते किं वाऽर्थान्तरमिति ।
तत्र चैवं प्रापयितव्यम् ।
न हानं विधूननमभिधीयते ।
धूञकम्पन ति स्मरणात् ।
दोधूयन्ते ध्वजाग्राणीति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् ।
तस्माच्चालनं विधूननमभिधीयते ।
चालनं तु सुकृतदुष्कृतयो: कंचित्कालं फलप्रतिबन्धात् ।
इत्येवं प्रापय्य प्रविवक्तव्यम् ।
हानावेवैष विधूननशब्दो वर्तितुमर्हति ।
उपायनशब्दशेषत्वात् ।
न हि परपरिग्रहभूतौयो: सुकृतदुष्कृतयोरप्रहीणयो: परैरुपायनं संभवति ।
यद्यपीदं परकीययो: सुकृतदुष्कृतयो: परैरुपायनं नाञ्जसं संभाव्यते तथाऽपि तत्संकीर्तनात्तावत्तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यतो ।
क्वचिदपि चे विधूननसन्निधावुपायनं श्रूयमाणं कुशाछन्द: स्तुत्युपगानवद्विधूननश्रुत्या सर्वत्रापेक्षमाणं सार्वत्रिकं निर्णयकारणं संपद्यते ।
न च चालनं ध्यजाग्रवत्सुकृतदुष्कृतयोर्मुख्यं संभवति ।
अद्रव्यत्वात् ।
अश्वश्च रोमाणि विधून्वानस्त्यजन्रज: सहवै तेन रोमाण्यपि जीर्णानि शातयति ।
अश्व इव रोमाणि विधूय पापमिति च ब्राम्हाणम् ।
अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोध: ।
तदुक्तमिति व्याख्यातम् ॥२६॥१५॥
N/A
References : N/A
Last Updated : December 20, 2014
TOP