तृतीयाः पाद: - सूत्र १८
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
कार्याख्यानादपूर्वम् ॥१८॥
कार्याख्यानादपूर्वम् ॥ छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिमर्यादं प्राणस्यान्नमान्नाय तस्यैवापो वास आमनन्ति ।
अनन्तरं च छन्दोगा आमनन्तितस्माद्वा एतदशिष्यन्त: पुरस्ताच्चोपरिष्टादद्भि: परिदधतीति ।
वाजसनेयिनश्चामनन्तितद्विद्वासं: श्रोयित्रा अशिष्यन्त आचामन्त्यशित्वा चाचामन्ति एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते तस्मादेवंविदशिष्यन्नाचमेदशित्वा चाचामेदेतमेव तदनमनग्नं क्रुरुत इति ।
तत्र चाचमनमनग्नतादिन्तनं च प्राणस्य प्रतीयते ।
तत्किमुभयमपि विधीयत उताचमनमेवोतानग्नताचिन्तनमेवेति विचार्यते ।
किं तावत्प्राप्तमुभयमपि विधीयत इति । कुत: ।
उभयस्याप्यवगम्यमानत्वात् ।
उबयमपि चैतदपूर्वत्वाद्विध्यर्हम् ।
अथ वाचमनमेव विधीयते विस्पष्टा हि तस्मिन्विधिविभक्तिस्तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदिति ।
तस्यैव स्तुत्यर्थमनग्नतासङ्कीर्तनमित्येवं प्राप्ते ब्रूम: ।
नाचमनस्य विधेयत्वमुपपद्यते कार्याख्यानात् ।
प्राप्तमेव हीदं कार्यत्वेनाचमनं प्रायत्यार्थ स्मृतिप्रसिद्धमन्वाख्यायते ।
नन्वियं श्रुतिस्तस्या: स्मृतेर्मूलं स्यात् ।
नेत्युच्यते ।
विषयनानत्वात् ।
सामान्यविषया हि स्मृति: पुरुषमात्रसंबद्धं प्रायत्यार्थमाचमनं प्रापयाति ।
श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्विषयमेवाचमनं विदधती विदध्यात् ।
न च भिन्नविषययो: श्रुतिस्मृत्योर्मूलमूलिभावोऽवकल्पते ।
न चेयं श्रुति:प्राणविद्यासंयोग्यपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् ।
पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्येह प्रत्यभिज्ञायमानत्वात् ।
अते एव च नोभयविधानम् ।
उभयविधाने च वाक्यं भिद्येत ।
तस्मात्प्राप्तमेवाशिशिषतामशितवतां चोभयत आचमनमनूद्यैतमेव तदनमनग्नं कुर्वन्तो मन्यन्त इति प्राणस्यानग्नताकरणसङ्कल्पोऽनेन वाक्येनाचमनीयास्वप्सु प्राणविद्यासंबन्धित्वेनापूर्व उपदिश्यते ।
न चायमनग्नतावाद आचमनसुत्यर्थ इति न्याय्यम् ।
आचमनस्याविधेयत्वात् ।
स्वयं चानग्नतासङ्कल्पस्य विधेयत्वप्रतीते: ।
न चैवं सत्येकस्याचमनस्योभयार्थताभ्युपगता भवति प्रायत्यार्थता परिधानार्थता चेति ।
क्रियान्तरत्वाभ्युपगमात् ।
क्रियान्तरमेव हयाचमनं नाम प्रायत्यार्थं पुरुषस्याभ्युपगम्यते तदीयासु त्वप्सु वास: सङ्कल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्याभ्युपगम्यत इत्यनवद्यम् ।
अपि च यदिदं किं चाश्चभ्य आकृमिभ्य आकीटपतङ्गेभ्यस्तत्तेऽन्नम् ।
इत्यत्र तावन्न सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् ।
अशब्दत्वादशक्यत्वाच्च ।
सर्वं तु प्राणस्यान्नमितीयमन्नद्दष्टिश्चोद्यते ।
तत्साहचर्याच्चापो वास इत्यत्रापि नापामाचमनं चोद्यते प्रसिद्धास्वेव त्वाचमनीयास्वप्सु परिधानद्दष्टिश्चोद्यत इति युक्तम् ।
न हयर्धवैशसं संभवति ।
अपि चाचामन्तीति वर्तमानापदेशित्वान्नायं शब्दो विधिक्षम: ।
ननु मन्यन्त इत्यपि समानं वर्तमानापदेशत्वम् ।
सत्यमेव तत् ।
अवश्यविधेये त्वन्यतरस्मिन्वास: कार्याख्यानादपां वास: सङ्कल्पनमेवापूर्वं विधीयते नाचमनं पूर्ववद्धि तदित्युपपादितम् ।
यदप्युक्तं विस्पष्टा चाचमने विधिविभक्तिरिति तदपि पूर्ववत्त्वेनैवाचमनस्य प्रत्युक्तम् ।
अत एवाचमनस्याविधित्सितत्वादेतमेव तदनमनग्नं कुर्वन्तो मन्यन्त इत्यत्रैव काण्वा: पर्यवस्यान्त नामनन्ति तस्मादेवं विदित्यादि ।
तस्मान्माध्यन्दिनानामपि पाठ आचमनानुवादेनैवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् ।
योऽप्ययमभ्युपगम: क्वचिदाचमनं विधीयतां क्कचिद्वासोविज्ञानमिति सोऽपि न साधु: ।
आपो वास इत्यादिकाया वाक्यप्रवृत्ते: सर्वत्रैवैकरूप्यात् ।
तस्माद्वासोविज्ञानमेवेह विधीयते नाचमनमिति न्याय्यम् ॥१८॥९॥
N/A
References : N/A
Last Updated : December 20, 2014
TOP