संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|तॄतीय: पाद:| सूत्र ४४-४५ तॄतीय: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४-५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३-१४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१-२२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७-२८ सूत्र २९-३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६-४९ सूत्र ५० सूत्र ५१-५२ सूत्र ५३-५४ सूत्र ५५ सूत्र ५६ सूत्र ५७ सूत्र ५८ सूत्र ५९ सूत्र ६०-६६ तृतीयाः पाद: - सूत्र ४४-४५ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४४-४५ Translation - भाषांतर लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । वाजसनेयिनोऽग्निरहस्थे नैव वा इदमग्रे सदासीदित्यस्मिन्ब्राम्हाणे मनोऽविकृत्याधीयते तत्षटत्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयात्मनश्चित इत्यादि ।तथैव वाकचित: प्राणचितश्चक्षुश्चित: श्रोत्रचित: कर्मचितोऽग्निचित इति पृथगग्नीनामनन्ति सांपादिकान् ।तेषु संशय: किमेते मनश्चिदादय: क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्र: केवलविद्यात्मका इति ।तत्र प्रक्ररणात्क्रियानुप्रवेशे प्राप्ते स्वातन्त्र्यं तावत्प्रतिजानीते लिङ्गभूयस्त्वादिति ।भूयांसि हि लिङ्गान्यस्मिन्ब्रम्हाणे केवलविद्यात्मकत्वमेषामुपोद्वलयन्ति द्दश्यन्ते तद्यत्किं चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिरिति तान्हैतानेवंविद सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपत इति चैवंजातीयकानि ।तद्धि लिङ्गं प्रकरणाद्बलीय: ।तदप्युक्तं पूर्वस्मिन्क्राण्डे श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यायां समवाये पारदौर्बल्यमर्थविप्रक्रर्षादिति ॥४४॥पूर्वविकल्प: प्रकरणात्स्यात्क्रिया मानसवत् ॥४५॥पूर्वदिकल्प: प्रकरणात्स्यात्क्रिया मानसवत् ॥ नेतद्युक्तं स्वतन्त्रा एतेऽग्नयोऽनन्यशेषभूता इति ।पूर्वस्य क्रियामयस्याग्ने: प्रकरणात्तद्विषय एवायं विकल्पविशेषोपदेश: स्यान्न सवतन्त्र: ।ननु प्रकरणाल्लिङ्गं बलीय: ।सत्यमेव तत् ।लिङ्गमपि त्वेवंजातीयकं न प्रकरणाद्वलीयो भवति ।अन्यार्थदर्शनं हयेतत् ।सांपादिकाग्निप्रशंसारूफत्वात् ।अन्यार्थदर्शनं चासत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते ।तस्मात्सांपादिका अप्येतेऽग्नय: प्रकरणात्क्रियानुप्रवेशिन एव स्यु: । मानसवत् ।यथा दशरात्रस्य दशमेऽहन्यविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृहयमाणस्य ग्रहणासादनहवनाहरणोपहवानभक्षणानि मानसान्येवान्नायन्ते ।स च मानसोऽपि ग्रहकल्प: क्रियाप्रकरणात्क्रियाशेष एव भवत्येवमयमप्यग्निकल्प इत्यर्थ: ॥४५॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP