मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| चत्वारिंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - चत्वारिंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र चत्वारिंशः स्तबकः Translation - भाषांतर दैवगीतम् (पादाकुलकवृत्तम्)शमयतु पापं दमयतु दुःखं हरतु विमोहं स्फुटयतु बोधम् ।प्रथयतु शक्तिं मन्दं हसितं मनसिजशासनकुलसुदृशो नः ॥१॥आर्द्रा दयया पूर्णा शक्त्या दृष्टिवशंवदविष्टपराजा ।अखिलपुरन्ध्रीपूज्या नारी मम निश्शेषां विपदं हरतु ॥२॥शुद्धब्रह्मणि मोदो दैवं तत्र सिसृक्षति कामो दैवम् ।सृजति पदार्थान् दृष्टिर्दैवं तान् बिभ्राणे महिमा दैवम् ॥३॥विकृतौ विकृतौ प्रकृतिर्दैवं विषये विषये सत्ता दैवम् ।दृष्टौ दृष्टौ प्रमितिर्दैवं ध्याने ध्याने निष्ठा दैवम् ॥४॥स्फूर्तौ स्फूर्तौ माया दैवं चलने चलने शक्तिर्दैवम् ।तेजसि तेजसि लक्ष्मीर्दैवं शब्दे शब्दे वाणी दैवम् ॥५॥हृदये हृदये जीवद्दैवं शीर्षे शीर्षे ध्यायद्दैवम् ।चक्षुषि चक्षुषि राजद्दैवं मूले मूले प्रतपद्दैवम् ॥६॥अभितो गगने प्रसरद्दैवं पृथिवीलोके रोहद्दैवम् ।दिनकरबिम्बे दीप्यद्दैवं सितकरबिम्बे सिञ्चद्दैवम् ॥७॥श्रावं श्रावं वेद्यं दैवं नामं नामं राध्यं दैवम् ।स्मारं स्मारं धार्यं दैवं वारं वारं स्तुत्यं दैवम् ॥८॥श्रुतिषु वटूनां ग्राह्यं दैवं गृहिणामग्नौ तर्प्यं दैवम् ।तपतां शीर्षे पुष्टं दैवं यतिनां हृदये शिष्टं दैवम् ॥९॥नमता पुष्पैः पूज्यं दैवं कविना पद्याराध्यं दैवम् ।मुनिना मनसा ध्येयं दैवं यतिना स्वात्मनि शोध्यं दैवम् ॥१०॥स्तुवतां वाचो विदधद्दैवं स्मरतां चेतः स्फुटयद्दैवम् ।जपतां शक्तिं प्रथयद्दैवं नमतां दुरितं दमयद्दैवम् ॥११॥वाचो विनयद्वह्नौ दैवं प्राणान् विनयद्विद्युति दैवम् ।कामान् विनयच्चन्द्रे दैवं बुद्धीर्विनयत्सूर्ये दैवम् ॥१२॥हृदये निवसद् गृह्णद्दैवं वस्तौ निवसद्विसृजद्दैवम् ।कण्ठे निवसत्प्रवदद्दैवं कुक्षौ निवसत्प्रपचद्दैवम् ॥१३॥देहे निवसद्विलचद्दैवं पञ्चप्राणाकारं दैवम् ।भागि समस्तस्यान्ने दैवं स्वाहाकारे तृप्यद्दैवम् ॥१४॥बिभ्रन्नारीवेषं दैवं शुभ्रदरस्मितविभ्राड् दैवम् ।अभ्रमदापहचिकुरं दैवं विभ्रमवासस्थानं दैवम् ॥१५॥शीतज्योतिर्वदनं दैवं रुचिबिन्दूपमरदनं दैवम् ।लावण्यामृतसदनं दैवं स्मररिपुलोचनमदनं दैवम् ॥१६॥लक्ष्मीवीचिमदलिकं दैवं प्रज्ञावीचिमदीक्षं दैवम् ।तेजोवीचिमदधरं दैवं सम्मदवीचिमदास्यं दैवम् ॥१७॥करुणोल्लोलितनेत्रं दैवं श्रीकाराभश्रोत्रं दैवम् ।कुसुमसुकोमलगात्रं दैवं कविवाग्वैभवपात्रं दैवम् ॥१८॥हिमवति शैले व्यक्तं दैवं सितगिरिशिखरे क्रीडद्दैवम् ।तुम्बुरुनारदगीतं दैवं सुरमुनिसिद्धध्यातं दैवम् ॥१९॥क्वचिदपि रतिशतललितं दैवं क्वचिदपि सुतरां चण्डं दैवम् ।भक्तमनोनुगवेषं दैवं योगिमनोनुगविभवं दैवम् ॥२०॥चरिते मधुरं स्तुवतां दैवं चरणे मधुरं नमतां दैवम् ।अधरे मधुरं शम्भोर्दैवं मम तु स्तन्ये मधुरं दैवम् ॥२१॥भुजभृतविष्टपभारं दैवं पदधृतसम्पत्सारं दैवम् ।लालितनिर्जरवीरं दैवं रक्षितसात्त्विकधीरं दैवम् ॥२२॥चिच्छक्त्यात्मकमधितनु दैवं तटिदाकृत्यधिभूतं दैवम् ।श्रुतिषु शिवेति प्रथितं दैवं जयति जगत्त्रयविनुतं दैवम् ॥२३॥रमणमहर्षेरन्तेवासी मध्यमपुत्रो नरसिंहस्य ।वासिष्ठोऽयं मरुतां मातुर्गणपतिरङ्घ्रिं शरणमुपैति ॥२४॥त्रिभुवनभर्तुः परमा शक्तिस्सकलसवित्री गौरी जयति ।तन्नुतिरेषा गणपतिरचिता पादाकुलकप्रान्ता जयति ॥२५॥ ॥ समाप्तं च दशमं शतकम् ॥॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः ॥गणपतेः कृतिः उमासहस्रं समाप्तम् ॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP