मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| एकादशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - एकादशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र एकादशः स्तबकः Translation - भाषांतर पादादिकेशान्तवर्णनम् (आर्यावृत्तम्)झषकेतुना प्रयुक्तः सम्मोहनचूर्णमुष्टिरीशाने ।दरहासो धरदुहितुः करोतु भुवनं वशेऽस्माकम् ॥१॥उपजीवद्भिः कान्तेर्लेशांस्ते जगति सुन्दरैर्भावैः ।उपमितुमङ्गानि तव प्रायो लज्जेऽम्ब यतमानः ॥२॥अवतंसपल्लवतुलां बिभ्राणं श्रुतिनतभ्रुवः शिरसि ।चरणं व्रजामि शरणं वामं कामारिललनायाः ॥३॥शङ्करनयनोन्मादनमतिमधुरं भाति मतिमता वर्ण्ये ।जङ्घायुगं भवत्याः कुसुमपृषत्कस्य सर्वस्वम् ॥४॥एकैकलोकने द्वयमन्योन्यस्मरणहेतुतामेति ।देवि भवस्य तवोरुः शुण्डा च गजेन्द्रवदनस्य ॥५॥नाकोऽवलग्नमीश्वरि कटिरवनिर्भोगिनां जगन्नाभिः ।कुक्षौ न केवलं ते बहिरपि वपुषि त्रयो लोकाः ॥६॥मन्ये महाकृपाणं तव वेणीमचलपुत्रि मदनस्य ।असिधेनुकां विशङ्के निशिततराग्रां तु रोमालिम् ॥७॥द्विरदवदनेन पीतं षड्वदनेनाथ सकलभुवनेन ।अक्षय्यक्षीरामृतमम्बायाः कुचयुगं जयति ॥८॥जगदम्ब लम्बमाना पार्श्वद्वितये तवागलाद्भाति ।सान्द्रग्रथितमनोज्ञप्रसूनमालेव भुजयुगली ॥९॥जानन्ति शक्तिमसुराः सुषमां सख्यो वदान्यतामृषयः ।मृदुतां तवाम्ब पाणेर्वेद स देवः पुरां भेत्ता ॥१०॥कम्बुसदृगम्ब जगतां मणिवेषोडुस्रजाकृताकल्पः ।कण्ठोऽनघस्वरस्ते धूर्जटिदोर्नयनकर्णहितः ॥११॥हरकान्ते वदनं ते दर्शं दर्शं वतंसशीतांशुः ।पूर्णोऽप्यवाप कृशतां प्रायेणासूयया शुष्कः ॥१२॥चन्द्रं रणाय सकला चपलाक्षीवदनजातिराह्वयताम् ।तं तु महसा मुखं ते महेशकान्ते जिगायैकम् ॥१३॥वदनकमलं तवेश्वरि कमलजयाद्दर्पितं सुधाभानुम् ।निर्जित्य कमलजातेरमलं महदाजहार यशः ॥१४॥लावण्यमरन्दाशा भ्रमद्भवालोकबम्भरं परितः ।मुग्धं मुखारविन्दं जयति नगाधीशनन्दिन्याः ॥१५॥शुद्धेन्दुसारनिर्मितमास्यार्धं ते भवानि भालमयम् ।सकलरमणीयसारैर्निर्मितमर्धान्तरं विधिना ॥१६॥वदनं तवाद्रिदुहितर्विजिताय नताय शीतकिरणाय ।द्वारपपदवीं प्रददा वयमिह दरहासनामधरः ॥१७॥ते ते वदन्तु सन्तो नयनं ताटङ्कमालयं मुकुटम् ।कवयो वयं वदामः सितमहसं देवि ते हासम् ॥१८॥बिम्बाधरस्य शोभामम्बायाः को नु वर्णयितुमीष्टे ।अन्तरपि या प्रविश्य प्रमथपतेर्वितनुते रागम् ॥१९॥गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः ।अधरपुटे त्रिपुरजिते दधासि पियूषमम्ब त्वम् ॥२०॥दृक्पीयूषतटिन्यां नासासेतौ विनिर्मिते विधिना ।भासां भवति शिवे ते मुखे विहारो निरातङ्कः ॥२१॥कमलाविलासभवनं करुणाकेलीगृहं च कमनीये ।हरदयिते ते विनितहिते नयने ते जननि विजयेते ॥२२॥सर्वाण्यप्यङ्गानि श्रीमन्ति तवेन्दुचूडकुलकान्ते ।कविनिवहविनुतिपात्रे श्रोत्रे देवि श्रियावेव ॥२३॥अपि कुटिलमलिनमुग्धस्तव केशः पुत्रि गोत्रसुत्राम्णः ।बिभ्रत्सुमानि कान्यपि हृदयं भुवनप्रभोर्हरति ॥२४॥चरणादिकुन्तलान्तप्रकृष्टसौन्दर्यगायिनीरेताः ।अङ्गीकरोतु शम्भोरम्भोजदृगात्मजस्यार्याः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP