मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| सप्तविंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - सप्तविंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र सप्तविंशः स्तबकः Translation - भाषांतर प्रचण्डचण्डी (शिखरिणीवृत्तम्)विधुन्वन्ध्वान्तानि प्रतिदिशमधर्मं परिहरंच्छ्रियं व्यातन्वानस्सपदि शमयन् दुःखपटलम् ।सहस्राराम्भोजे द्रवमसदृशं मे प्रजनयन्प्रचण्डायाश्चण्ड्यास्सितहसितलेशो विजयते ॥१॥अरीणां शीर्षेषु ज्वलितदवकीलीन्द्रसदृशंविनम्राणां शीर्षेष्वमृतकरबिम्बेन तुलितम् ।विरोधिध्वान्तानां तरुणतरणिप्राभवहरंप्रचण्डायाश्चण्ड्याश्चरणमसतां हन्तु विभवम् ॥२॥भजे भासां शालां निखिलधिषणानां जनिभुवंबलानामाधात्रीं निखिलभुवनेन्द्रस्य दयिताम् ।भजन्ते यां गीतैर्मधुसमयमाद्यात्पिकवधूकलालापा हृद्यैर्हयवदनपङ्केरुहदृशः ॥३॥ज्वलन्ती तेजोभिर्महिषमथने या तव तनुर्लसन्ती लावण्यैर्गिरिशरमणे या तव तनुः ।विना क्रोधप्रीति न किमपि तयोर्भेदकमभूत्तयोराद्या दुर्गा भवति ललिताऽन्या मुनिनुते ॥४॥सहस्रं भानूनां भवति दिवासानामधिपतेःसहस्रं शीर्षाणां भवति भुजगानामधिपतेः ।सहस्रं नेत्राणां भवति विबुधानामधिपतेःसहस्रं बाहूनां भवति समये हैमवति ते ॥५॥प्रसन्नो वक्त्रेन्दुर्न च नयनयोः कोऽप्यरुणिमान कम्पो बिम्बोष्ठे स्मितमपि लसत्काशविशदम् ।सरोजाभः पाणिः किणविरहितः कोमलतमोज्वलच्छूलं त्वासीज्जननि ताव शुम्भाय भयदम् ॥६॥वधे शुम्भस्यासीत्तव जननि या काचन तनुर्दधानाऽग्र्याः शक्तीः शशिकिरणसारोपमरुचिः ।इमां ध्यायं ध्यायं स्मरहरसखि व्याकुलमिदंमनो मे विश्रान्तिं भजति भजतां कल्पलतिके ॥७॥यदि त्वं संहारे पटुरसि सवित्रि त्रिजगतस्तदेतत्त्वां याचे सरसिरुहगर्भादिविनुते ।इमे मे पाप्मानो भगवति नदन्तो बहुविधास्तदेषु प्रख्यातं प्रतिभयतमं दर्शय बलम् ॥८॥बिभेदोरः क्रोधात्कनककशिपोरब्धितनयाकुचग्रावोल्लीढैरतिशितशिखैर्यः किल नखैः ।त्वया दत्ता शक्तिर्नरहरिशरीराय जगतांविनेत्रे पुंसेऽस्मै जननि रणरङ्गस्थलरमे ॥९॥अजेयस्त्रैलोक्यप्रकटितपताकः पलभुजांबिडौजा यत्कारागृहपरिचयी पङ्क्तिवदनः ।सहस्रारं साक्षाद्धृतनरशरीरं तमजयत्तवैवावेशेन प्रियपरशुरम्ब द्विजशिशुः ॥१०॥त्वदीया सा शक्तिस्ककलजगदन्तेऽप्यनलसापुरा कार्यस्यान्ते तनयमयि हित्वा नृपरिपुम् ।अविक्षत्काकुत्स्थं दशमुखकुलोन्माथविधयेसहस्रांशुं हित्वा शशिनमिव घस्रे गलति भा ॥११॥हृते लोकव्राते भगवति भवत्यैव स पुरामरिः कीर्तिं लब्धुं चतुरमतिरायाति समये ।त्वया लोकत्राणे जननि रचिते राक्षसबधाद्यशोऽवाप्तुं विष्णुर्मिलति च कुतोऽप्येष निपुणः ॥१२॥स्वरूपं ते वज्रं वियति रजसां सूक्ष्ममहसामुपाधिस्ते स्तोमो भवति चपला काऽपि तनुभा ।अरुद्धा ते व्याप्तिर्बलमखिलदत्तं बलनिधेःसहस्रांशः स्वस्य प्रभवसि समस्तस्य च शिवे ॥१३॥यतः कालव्याजात्पचसि भुवनं वैद्युतमहःप्रभावात्कालीं त्वामयि विदुरतः पण्डितवराः ।प्रभोः शस्त्रं भूत्वा दहसि यदरीन्वज्रवपुषाप्रचण्डां चण्डीं तद्भगवति भणन्त्यक्षयबले ॥१४॥अयि त्वामेवेन्द्रं कथयति मुनिः कश्चिदजरेत्वया शस्त्राढ्यं तं भणति तु परस्तत्त्वविदृषिः ।युवां मातापुत्रौ भगवति विभाज्यौ न भवतस्ततो धीनां द्वेधा विबुधजनगोष्ठीषु गतयः ॥१५॥विकुर्वाणा विश्वं विविधगुणभेदैः परिणमद्विधुन्वाना भावान् भुवनगतिरोधाय भवतः ।वितन्वाना शर्वं चलवदचलं काचिदवितुंविचिन्वाना जन्तोः कृतलवमपीशा विजयते ॥१६॥प्रभा भानोर्यद्वद्भवसि सकलस्यापि तपनीप्रचण्डा शक्तिः सत्यखिलभुवनेशस्य तपतः ।सुधांशोर्ज्योत्स्नेव प्रमदयसि चेतः प्रविशतोभवन्ती भूतादेर्दहरकुहरं मोदलहरी ॥१७॥प्रचण्डा गौरी वा त्वमसि वसुरुद्रार्कविनुतेस भीमः शम्भुर्वा विभुरभयदः पादसुहृदाम् ।तयोरेकं रूपं तव सहविभोः खेलति महत्यमुष्मिन्नाकाशे धवलमहसि क्रीडति परम् ॥१८॥विभक्ता या द्वेधा त्वमसि गगने शीतमहसस्तथा रम्ये बिम्बे ज्वलितललितस्त्रीतनुविधा ।तयोर्ब्रूहीशाने जननि कतमा मे जननभूःपुराजन्मन्यासीद्विकटमथवोग्रैव सुषुवे ॥१९॥दृशोर्भेदाद् दृष्टेर्न भवति भिदा काऽपि करयोर्न भेदाद्भिन्नं स्यात्कृतमभिविमानैक्यवशतः ।भिदा तन्वोरेवं न भवति भिदायै तव शिवेवियद्देशे चण्ड्यां सितमहसि गौर्यां च भवति ॥२०॥तव च्छिन्नं शीर्षं विदुरखिलधात्र्यागमविदोमनुष्याणां मस्ते बहुलतपसा यद्विदलिते ।सुषुम्नायां नाड्यां तनुकरणसम्पर्करहिताबहिश्शक्त्या युक्ता विगतचिरनिद्रा विलससि ॥२१॥उताहो तन्वङ्ग्यां भृगुकुलविधात्र्यां पितृगिरातनूजेनच्छिन्ने शिरसि भयलोलाक्षि नलिने ।न्यधास्तेजो भीमं निजमयि यदक्षुद्रमनघंतदाहुस्त्वामम्ब प्रथितचरिते कृत्तशिरसम् ॥२२॥हुतं धाराज्वालाजटिलचटुले शस्त्रदहनेतपस्विन्याः कायं भगवति यदाऽम्ब त्वमविशः ।तदा तस्याः कण्ठप्रगलदसृजः कृत्तशिरसःकबन्धेन प्राप्तो भुवनविनुतः कोऽपि महिमा ॥२३॥निधेस्त्वत्तो हृत्वा भगवति न लज्जे भुवि सृजन्रसक्षोणीर्वाणीस्त्वदमलयशस्सौरभजुषः ।नृपोद्यानात्सूनोत्करमपहरन् भक्तिनटनंवितन्वानस्तस्मै मुहुरुपहरंत्सेवक इव ॥२४॥दधानास्सन्तोषं मनसि सुकवीनामतितरांददानाः प्रत्यग्रं विबुधसदसे भावमलघुम् ।कुलानामुत्साहं सपदि विदधानाश्शिववधूपराणां शोभन्तां जगति शिखरिण्यो गणपतेः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP