मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| सप्तदशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - सप्तदशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र सप्तदशः स्तबकः Translation - भाषांतर मदकरीशक्तिः (चम्पकमालावृत्तम्)पापविधूतौ निर्मलगङ्गा तापनिरासे चन्द्रमरीचिः ।भर्गपुरन्ध्रीहासकला मे भद्रममिश्रं काऽपि करोतु ॥१॥शिष्टकुलानां सम्मदयित्री दुष्टजनानां संशमयित्री ।कष्टमपारं पादजुषो मे विष्टपराज्ञी सा विधुनोतु ॥२॥नूतनभास्वद्बिम्बनिभाङ्घ्रिं शीतलरश्मिद्वेषिमुखाब्जाम् ।ख्यातविभूतिं पुष्पशरारेः पूतचरित्रां योषितमीडे ॥३॥उज्ज्वलतारे व्योम्नि लसन्ती सारसबन्धौ भाति तपन्ती ।शीतलभासा चिन्तनकर्त्री पातु कुलं मे विष्टपभर्त्री ॥४॥प्राणमनोवाग्व्यस्तविभूतिर्लोकविधातुः काचन भूतिः ।पुष्करपृथ्वीपावकरूपा शुष्कमघं नः सा विदधातु ॥५॥इष्टफलानामम्ब समृद्ध्यै कष्टफलानां तत्क्षणधूत्यै ।चेष्टितलेशोद्दीपितशक्तिं विष्टपभर्त्रि त्वामहमीडे ॥६॥भूमिरुहाग्रस्थापितभण्डाद्यो मधु पायं पायमजस्रम् ।विस्मृतविश्वो नन्दति मातस्तत्र किल त्वं धाम दधासि ॥७॥कोऽपि सहस्रैरेष मुखानां शेष इतीड्यः पन्नगराजः ।उद्गिरतीदं यद्वदनेभ्यो देवि तनौ मे तद्वत पासि ॥८॥साकममेये देवि भवत्या प्रातुमहन्ता यावदुदास्या ।तावदियं तां मूर्छयतीशे पन्नगराजोद्गारजधारा ॥९॥शाम्यतिचिन्ताजीवितमस्यामिन्द्रियसत्ताऽप्यस्तमुपैति ।याति निरुद्धा हा गलदेशे संशयमेषा मातरहन्ता ॥१०॥गौरि महेशप्राणसखी मां पाहि विपन्नां मातरहन्ताम् ।सा यदि जीवेदीश्वरि तुभ्यं दासजनस्तामर्पयतेऽयम् ॥११॥त्वत्स्मृतिवीर्याच्छान्तिसमृद्धां मातरहन्तां शुद्धतमां मे ।आत्मभुजिष्यां कर्तुमिदानीं शांतधियस्ते कोऽस्ति विकल्पः ॥१२॥मन्दरधारी नामृतहेतुर्वासुकिरज्जुर्नामृतहेतुः ।मन्थनहेतुस्साऽमृतहेतुः सर्वबलात्मा शर्वपुरन्ध्री ॥१३॥प्राणिशरीरं मन्दरशैलो मूलसरोजं कच्छपराजः ।पूर्णमनन्तं क्षीरसमुद्रः पृष्ठगवीणा वासुकिरज्जुः ॥१४॥दक्षिणनाडी निर्जरसेना वामगनाडी दानवसेना ।शक्तिविलासो मन्थनकृत्यं शीर्षजधारा काऽपि सुधोक्ता ॥१५॥कण्ठनिरुद्धे भूरिविषाग्नौ तैजसलिङ्गावासिहरेण ।त्वद्बलजातं स्वाद्वमृत्तं को देवि निपीय प्रेत इह स्यात् ॥१६॥येन विभुस्ते माद्यति शर्वो यत्र शिवे त्वं क्रीडसि हृष्टा ।सम्मदमूलं तं मदमाद्ये वर्धय पुत्रेऽनुग्रहपात्रे ॥१७॥यो मदमीदृङ्मार्गमुपेक्ष्य स्वर्विभुपूज्ये गर्वसमेतः ।आहरति श्रीबाह्यसमृद्ध्या ना सुरया वा सोऽसुर उक्तः ॥१८॥ताम्यति तीव्राफेननिषेवी क्लाम्यति संवित्पत्रनिषेवी ।भ्राम्यति हालाभाण्डनिषेवी शाम्यति शीर्षद्रावनिषेवी ॥१९॥अस्तु विरेके पथ्यमफेनं पत्रमजीर्णेष्वस्तु निषेव्यम् ।अस्तु हितं तद्यक्ष्मणि मद्यं संसृतिहारी देवि रसस्ते ॥२०॥नैव महान्तस्सत्त्वसमृद्धाः सर्वमदेष्वप्यम्ब चलन्तु ।अल्पजनानां मादकवस्तुप्राशनमीशे नाशनमुक्तम् ॥४२१॥केऽपि यजन्ते यन्मधुमांसैस्त्वां त्रिपुरारेर्जीवितनाथे ।अत्र न यागो दूषणभागी द्रव्यससङ्गो दुष्यति यष्टा ॥२२॥दक्षिणमार्गे सिद्ध्यति भक्तः सव्यसरण्यां सिद्ध्यति वीरः ।नेश्वरि सव्ये नाप्यपसव्ये सिद्ध्यति दिव्ये त्वध्वनि मौनी ॥२३॥नार्चनभारो नापि जपोऽस्यां दिव्यसरण्यां भव्यतमायाम् ।केवलमम्बापादसरोजं निश्चलमत्या मृग्यमजस्रम् ॥२४॥काचिदमूल्या चंपकमाला वृत्तनिबद्धा मञ्जुलमाला ।अस्तु गणेशस्येश्वरकान्ता कण्ठविलोला चंपकमाला ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP