मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| षष्ठः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - षष्ठः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र षष्ठः स्तबकः Translation - भाषांतर माहाभाग्यम् (मदलेखावृत्तम्)हर्तारः शशिकीर्तेः कर्तारो नवभासाम् ।भर्तारो मम सन्तु स्कन्दाम्बादरहासाः ॥१॥दिग्वल्लीष्वतिशुभ्रां कुर्वन्तः कुसुमर्द्धिम् ।भूयासुस्तव भूत्यै मन्मातुः स्मितलेशाः ॥२॥एकश्चेत्तव शक्तो ब्रह्माण्डस्य भवाय ।भर्गप्रेयसि हासः किं स्तोत्रं तव भूयः ॥३॥उद्याने वियदाख्ये कालि त्वां विहरन्तीम् ।गोलैः कन्दुककल्पैरल्पा वाक्किमु माति ॥४॥खं क्रीडाभवनं ते कः कार्यालय एषः ।पृथ्वीयं बहुलान्ना मातर्भोजनशाला ॥५॥बुद्धीनामसि दात्री सिद्धीनामसि नेत्री ।वीर्याणामसि पेटी कार्याणामसि धाटी ॥६॥विद्यानामसि भावो हृद्यानामसि हावः ।देवानामसि लीला दैत्यानामसि हेला ॥७॥गन्तॄणामसि चेष्टा स्थाणूनामसि निष्ठा ।लोकानामसि मूलं लोकादेरसि जालम् ॥८॥देवी व्यापकतेजः शक्तिस्तत्त्वविचारे ।अत्यन्तं सुकुमारी नारी मूर्तिविचारे ॥९॥क्व ज्योतिर्महतोऽस्मादाकाशादपि भूयः ।तत्सर्वं विनयन्ती तन्वङ्गी क्व नु नारी ॥१०॥देवेन्द्राय विभुत्वं सूर्यायोस्रसहस्रम् ।ऊष्माणं दहनाय ज्योत्स्नामोषधिराजे ॥११॥वातायामितवीर्यं विस्तारं गगनाय ।सान्द्रत्वं वसुधायै तोयाय द्रवभावम् ॥१२॥माहाभाग्यमपारं कोटिभ्यो विबुधानाम् ।चित्राः काश्चन सिद्धीर्लक्षेभ्यो मनुजानाम् ॥१३॥स्थाणुभ्यो धृतिशक्तिं गन्तृभ्यो गतिशक्तिम् ।कस्माच्चिन्निजकोशादेका देवि ददाना ॥१४॥आश्चर्यं विदधाना सर्वं वस्तु दधाना ।हन्त त्वं मम मातः काचित्कोमलगात्री ॥१५॥श्रोणीभारनतायां कस्याञ्चित्तनुगात्र्याम् ।ईदृक्षा यदि शक्तिः कावेतो ननु माया ॥१६॥रूपं ते तनुगात्रं वाणी ते मृदुनादा ।चापं ते मधुरेक्षुः पाणिस्ते सुकुमारः ॥१७॥लोले लोचनयुग्मे भीरुत्वं प्रकटं ते ।ब्रह्माण्डं त्वदधीनं श्रद्धत्तामिह को वा ॥१८॥भ्रूभङ्गं कुरुषे चेन्मुग्धे गौरि मुखाब्जे ।भूतान्यप्ययि बिभ्यत्येजेरन्नपि ताराः ॥१९॥शुद्धान्तेश्वरि शम्भोरिच्छा चेत्तव काऽपि ।घोरोऽग्निस्तृणगर्भाद्घोराग्नेरपि शैत्यम् ॥२०॥द्रष्टुं विश्वमपारं भारस्ते दयितस्य ।कर्तुं कार्यमशेषं श्रीमातस्तव भारः ॥२१॥साक्षी केवलमीशः कर्तुं भर्तुमुताहो ।हर्तुं वाऽखिलमम्ब त्वं साक्षाद्धृतदीक्षा ॥२२॥कारङ्कारमुमे यद् ब्रह्माण्डानि निहंसि ।तन्मन्ये सुरमान्ये बालैवाऽम्ब सदा त्वम् ॥२३॥लीलोज्जीवितकामे रामे शङ्करसक्ते ।त्वत्पादार्चनसक्तं भक्तं मां कुरु शक्तम् ॥२४॥एताः पावनगन्धाः सर्वेशप्रमदे ते ।हैरम्ब्यो मदलेखाः सन्तोषाय भवन्तु ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP