मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| तृतीयः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - तृतीयः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र तृतीयः स्तबकः Translation - भाषांतर सशरीरायाश्च साधनम् (तनुमध्यावृत्तम्)शुभ्रस्मितलेशो मातुर्मरुतान्नः ।अन्तस्तिमिराणामन्तं विदधातु ॥१॥आद्यौ भुवनानां मातापितरौ तौ ।देवासुरमर्त्यैर्वन्द्यावविनिन्द्यौ ॥२॥ब्रूते पृथगेकस्तौ विग्रहवन्तौ ।आहैकशरीरं द्वन्द्वं कविरन्यः ॥३॥शक्तिं तनुशून्यामीशं च पुमांसम् ।वक्ति प्रमदायां सन्देहयुतोऽन्यः ॥४॥ईशं च तमेके सन्मात्रमुशन्ति ।ब्रह्मैकमथान्ये गायन्ति न शक्तिम् ॥५॥केचित्तनुहीनं प्रज्ञायुतमीशम् ।शक्तिं विदुरस्य प्रज्ञामविकुण्ठाम् ॥६॥उक्तं दधतस्तैः केचित् पुनराहुः ।मायातनुबन्धं नाथस्य न शक्तेः ॥७॥नित्यं सशरीरौ येषां पितरौ तौ ।एकोऽप्यथवा तान् प्रत्याह निसर्गः ॥८॥मातापितरौ यत् तावेकशरीरौ ।चित्रप्रथनार्था सा काचन लीला ॥९॥सन्मात्रकथानां कार्ये मनुजादौधीस्वान्तविकासः स्यात्कारणहीनः ॥१०॥अद्वैतिभिरन्या मायाऽऽश्रयणीया ।शक्तेरतिरिक्ता सा किं किमु वादैः ॥११॥न स्यात् पृथगात्मा शक्तेः किमुपाधेः ।चक्षुः श्रितचित्तेर्विश्वाकृतिता वा ॥१२॥एकान्तविदेहौ तौ चेदतिसूक्ष्मौ ।लीलातनुबन्धाशक्तावभिधेयौ ॥१३॥भक्ताननुगृह्णन् दिव्याद्भुतलीलः ।तद्विग्रहबन्धो बोध्यो लसदर्थः ॥१४॥स्त्रीत्वं यदि नेष्टं पुंस्त्वं कुत इष्टम् ।ना वा किमु नारी न स्यादनुमेया ॥१५॥तस्मात् पितरौ तौ वाच्यौ मतिमन्तौ ।सूक्ष्मावपि भूयो लीलातनुमन्तौ ॥१६॥नास्मत्तनुवत्ते शक्तीश्वरमूर्ती ।एकाऽमृतरूपा त्वन्या प्रणवात्मा ॥१७॥दिव्यं घनतेजः कुर्वद् ध्वनिमन्तः ।सम्पश्यदशेषं मूर्तिः प्रणवात्मा ॥१८॥दिव्यो घनसोमः स्यंदन् रसमन्तः ।भुञ्जन् भुवनौघं पीयूषशरीरम् ॥१९॥बोधोऽनवलम्बो दिव्यं खलु तेजः ।मोदः परिशुद्धो दिव्यः खलु सोमः ॥२०॥सोमांशमहोंशौ यातो घनभावम् ।पित्रोर्भुवनानां सङ्कल्पमहिम्ना ॥२१॥आराधयसीशं तं चिन्मयकायम् ।आनन्दमयाङ्गी त्वम् देवि किलेयम् ॥२२॥दिव्यं तव कायं दिव्ये तव वस्त्रे ।दिव्यानि तवाम्ब स्वर्णाभरणानि ॥२३॥यद्देवि विलोक्याऽस्यप्राकृतकाया ।युक्तीः समतीता सेयं तव माया ॥२४॥नव्यास्तनुमध्याः प्रत्नां तनुमध्याम् ।विद्वत्सदसीमाः सम्यक्प्रथयन्तु ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP