मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| त्रयोदशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - त्रयोदशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र त्रयोदशः स्तबकः Translation - भाषांतर कटाक्षः (उपजातिवृत्तम्)भवाम्बुधिं तारयताद्भवन्तंहासोऽद्भुतः कुञ्जरवक्त्रमातुः ।यो हन्ति बिम्बाधरलङ्घनेऽपिव्यक्तालसत्वो हरितां तमांसि ॥१॥सक्तः सदा चन्द्रकलाकलापेसर्वेषु भूतेषु दयां दधानः ।गौरीकटाक्षो रमणो मुनिर्वामदीयमज्ञानमपाकरोतु ॥२॥कृपावलोको नगकन्यकायाःकरोतु मे निर्मलमन्तरङ्गम् ।येनाङ्कितः शङ्कर एकतत्त्वंविश्वं लुलोके जगते जगौ च ॥३॥कालीकटाक्षो वचनानि मह्यंददातु मोचामदमोचनानि ।यत्पातपूतं रघुवंशकारंनराकृतिं प्राहुरजस्य नारीम् ॥४॥युष्माकमग्र्यां वितनोतु वाणीमेणीदृगेषा गिरिशस्य योषा ।यस्याः कटाक्षस्य विसारि वीर्यंगिरामयं मे विविधो विलासः ॥५॥नगात्मजायाः करुणोर्मिशालीदृगन्तसन्तानधुनीप्रवाहः ।भीष्मेण तप्तान्भवनामकेनग्रीष्मेण युष्मांच्छिशिरीकरोतु ॥६॥अजस्रमार्द्रा दर्ययाऽन्तरङ्गेयथा भवो निम्नगयोत्तमाङ्गे ।सन्तापशान्तिं भवसुन्दरी मेकरोतु शीतेन विलोकितेन ॥७॥पुण्या सदाऽपीश्वर एव सक्तापतिव्रतासाम्यमिता तवेक्षा ।कुलाचलाधीश्वरकन्यके मेसंहरमंहोविततेर्विधत्ताम् ॥८॥शर्वस्य रामे नियमेन हीनाश्यामा तवेक्षा गणिकाङ्गनेव ।नीचेऽपि मर्त्ये निपतत्यनर्घाबिभर्ति ना षोडश यः सुवर्णान् ॥९॥पद्मायताक्षि क्षितिधारिकन्येकटाक्षनामा तव कालसर्पः ।यं सन्दशत्येष जगत्समस्तंविस्मृत्य चाहो न दधाति मोहम् ॥१०॥ईशद्विषा शैलमहेन्द्रकन्येकरोति मैत्रीं विषमायुधेन ।प्रभाषते पातकिनश्च पक्षेकुतः कटाक्षो न तवाम्ब मुग्धः ॥११॥कृपान्वितः कर्णसमीपचारीश्रीमान्सदा पुण्यजनानुकूलः ।साम्यं कुरुणामधिपस्य शम्भोःप्राणप्रिये ते भजते कटाक्षः ॥१२॥कर्णान्तिकस्थोऽपि न धर्मवैरीकृष्णोऽपि मतार्नकुलं न पाति ।शीतोऽपि सन्दीपयति स्मराग्निंहरस्य ते शैलसुते कटाक्षः ॥१३॥अयं कटाक्षस्तव तोयवाहःकारुण्यकाले परिजृम्भमाणः ।गृहेषु लीनान् सुखिनो विहायनिराश्रयान् सिञ्चति विश्वमातः ॥१४॥कस्यापि वाचा वपुषा बलेनसमस्य सर्वैरपि यन्निदेशाः ।अम्भोधिवेलास्वपि न स्खलन्तिशम्भोः प्रियेऽयं तव दृक्प्रसादः ॥१५॥द्वारेषु तेषां विचरन्ति शूराःसौधेषु सारङ्गदृशस्तरुण्यः ।प्रगल्भवाचः कवयः सभासुशर्वाणि ते येषु कृपाकटाक्षः ॥१६॥यत्राम्ब ते कोऽपि कटाक्षलेशःस दुर्जयः सङ्गरसीम्नि शूरः ।पूर्वं दिवं पूरयति द्विषद्भिस्ततो यशोभिर्भुवमिन्दुगौरैः ॥१७॥यं तारकाकान्तकलापकान्तेन लोकसे कोऽपि न लोकते तम् ।यं लोकसे तेन विलोकितोऽपिश्रियं समृद्धां समुपैति लोकः ॥१८॥सुधां हसन्ती मधु चाक्षिपन्तीयशो हरन्ती वनिताधरस्य ।परिष्करोत्यस्य कवित्वधारामुखं हरप्रेयसि लोकसे यम् ॥१९॥सर्वेन्द्रियानन्दकरी पुरन्ध्रीविद्याऽनवद्या विपुला च लक्ष्मीः ।इयं त्रिरत्नी पुरुषस्य यस्यदुर्गे त्वया दृष्टमिमं तु विद्मः ॥२०॥मुधा क्षिपस्यद्रिसुते कटाक्षान्कैलासकान्तारमहीरुहेषु ।इतः किरेषत्तव नास्ति हानिःसिद्ध्यत्यभीष्टं च समस्तमस्य ॥२१॥शीताचलाधीशकुमारि शीतःसंरक्षणे संश्रितमानवानाम् ।दुर्धर्षदुष्टासुरमर्दनेषुनितान्तमुष्णश्च तवावलोकः ॥२२॥रुषा समेतं विदधाति नाशंकरोति पोषं कृपया सनाथम् ।अम्बौषधस्येव तवेक्षितस्ययोगस्य भेदेन गुणस्य भेदः ॥२३॥नाशाय तुल्योद्धतकामलोभक्रोधत्रिदोषस्य भवामयस्य ।शिवप्रिये वीक्षितभेषजं तेक्रीणानि भक्त्या वद भोः कियत्या ॥२४॥अभिष्टुतां चारणसिद्धसङ्घैस्त्रिष्टुब्विशेषा अपि मर्त्यसूनोःकृपाकटाक्षैर्विनतान्पुनानांकपर्दिनः सम्मदयन्तु कान्ताम् ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP