मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| द्वाविंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - द्वाविंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र द्वाविंशः स्तबकः Translation - भाषांतर हरकुटुम्बकम् (वियोगिनीवृत्तम्)अखिलस्य विकासकारणं व्यसनिज्ञानिजनावनेषु नः ।वितनोतु विशेषतः शिवं शिवराजीवदृशो दरस्मितम् ॥१॥विकले सकले सुरव्रजे व्रजति श्यामलिमानमच्युते ।जगतस्सदयो हलाहलं चुलुकीकृत्य भयं नुनोद यः ॥२॥निगमैस्तुरगी भुवा रथी विधिना सारथिमान् बिभेद यः ।कनकाद्रिवरेण कार्मुकी कमलाक्षेण शरी पुरत्रयम् ॥३॥अजितस्य च गाढमत्सरैः कमलाकान्तपुरस्सरैस्सुरैः ।पदजायुधधारया रयाद्वधमाधत्त जलन्धरस्य यः ॥४॥कमलासनकञ्जलोचनौ छललिङ्गस्य शिरोङ्घ्रि वीक्षितुम् ।बत हंसवराहभूमिकौ यतमानावपि यस्य न प्रभू ॥५॥नयनं निटलान्तरस्थितं विघटय्येषदिवान्वितो रुषा ।भुवनत्रयनिर्जयोन्नतं मदनं गाढमदं ददाह यः ॥६॥सकले धवलः कलेबरे हरिनीलोपलमञ्जुलः क्वचित् ।अमृतांशुरिवादधाति यः परमामक्षिमुदं प्रपश्यताम् ॥७॥अवतंसतुषारदीधितिद्युतिभिर्यस्य यशोभरैरपि ।सममच्छतरीकृतो दिशामवकाशस्सुतरां प्रकाशते ॥८॥गगनानलजीवनानिलक्षितिसोमारुणसोमयाजिभिः ।महतो बत यस्य मूर्तिभिर्भुवनं क्रान्तमिदं समन्ततः ॥९॥सह तेन धवेन राजते वसुधाधारिणि काऽपि राजते ।वनिता भवतापनाशिनी चरणप्रेष्यनिवेदिताशिनी ॥१०॥वनितापुरुषौ पुरातनौ विमले व्योमनि देवदम्पती ।भुवनत्रितयस्य तौ विभू रजताद्राविह सिद्धदम्पती ॥११॥गजचर्मधरः कपालभृद् गृहनाथो गृहिणी तु कालिका ।रुधिराविलमुण्डमालिनी कथितौ तौ बत पण्डितैः शिवौ ॥१२॥स किमिन्दुकलाशिरोमणिः किमुताश्लीलकपालभूषणः ।किमुमे भवती कपालिनी किमु विभ्राजितरत्नमालिनी ॥१३॥रमसेऽम्ब कपालमालिनी क्वचिदीशेन कपालमालिना ।अतुलप्रभनिष्कमालिना क्वचिदत्युत्तमरत्नमालिनी ॥१४॥युवयोर्मरुतस्तनूभुवो बलवन्तो भुवनप्रकम्पनाः ।शशिदीधितिहारि यद्यशो निगमे पावनमम्ब गीयते ॥१५॥गुरुमुत्तममभ्रचारिणामसमब्रह्मनिधाननायकम् ।तव देवि शिवे तनूभुवां मरुतामन्यतमं प्रचक्षते ॥१६॥द्विरदं वदने महामदं सितदन्तच्छविधौतदिक्तटम् ।इतरत्र मुखान्नराकृतिं विदुरस्यैव विवर्तमद्भुतम् ॥१७॥अखिलामरनिर्जयोन्नतः प्रथने तारकदानवो बली ।हृतवीर्यमदो बभूव यद्घनशक्त्यायुधतेजसाऽञ्जसा ॥१८॥अमले हृदि निर्मलाशनाच्छिथिले ग्रन्थिचये नराय यः ।परिपक्वधिये प्रदर्शयेत् तमसः पारमपारवैभवः ॥१९॥द्रविडेषु शिशुत्वमेत्य यो गिरिशश्लोकविशेषगायिनीम् ।अमृतद्रवसारहारिणीं निगमाभां निबबन्ध संस्तुतिम् ॥२०॥भुवि भट्टकुमारिलाख्यया भवमेत्याध्वररक्षणाय यः ।वरजैमिनिभाषिताशयं बहुलाभिः खलु युक्तिभिर्दधौ ॥२१॥अधुना विधुनोति यस्तमो विबुधप्रेक्षितमार्गरोधकम् ।रमणाख्यमहर्षिवेषभृत्श्रितशोणाचलचारुकन्दरः ॥२२॥स गुहोऽतिमहो महामहास्रिदशानां प्रथितश्चमूपतिः ।जगतामधिराज्ञि कोऽपि ते सुतरां प्रीतिपदं कुमारकः ॥२३॥जयति त्रिपुरारिभामिनी गणपत्यादिमरुत्प्रसूरुमा ।तमसूत सुरारिधूतये त्रिदशानामपि या चमूपतिम् ॥२४॥स्वकुटुम्बकथाभिधायिनीर्गणनाथस्य वियोगिनीरिमाः ।अवधारयतु प्रसन्नया नगनाथप्रियनन्दिनी धिया ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP