मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| विंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - विंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र विंशः स्तबकः Translation - भाषांतर सर्वसारमयी (मणिबन्धवृत्तम्)प्रीतिविकासे स्वल्पतमो रोषविशेषे भूरितरः ।अद्भुतहासो विश्वसुवो रक्षतु साधुं हन्तु खलम् ॥१॥सज्जनचित्तानन्दकरी संश्रितपापव्रातहरी ।लोकसवित्री नाकचरी स्तान्मम भूयो भद्रकरी ॥२॥अर्चनकाले रूपगता संस्तुतिकाले शब्दगता ।चिन्तनकाले प्राणगता तत्त्वविचारे सर्वगता ॥३॥उज्ज्वलरूपे नृत्यकरी निष्प्रभरूपे सुप्तिकरी ।गोपितरुपे सिद्धिकरी गोचररूपे बन्धकरी ॥४॥अम्बरदेशे शब्दवती पावकताते स्पर्शवती ।काञ्चनवीर्ये रूपवती सागरकाञ्च्यां गन्धवती ॥५॥अप्स्वमलासु स्पष्टरसा चन्द्रविभायां गुप्तरसा ।संसृतिभोगे सर्वरसा पूर्णसमाधावेकरसा ॥६॥चक्षुषि दृष्टिश्शाततमा चेतसि दृष्टिश्चित्रतमा ।आत्मनि दृष्टिश्शुद्धतमा ब्रह्मणि दृष्टिः पूर्णतमा ॥७॥शीर्षसरोजे सोमकला भालसरोजे शक्रकला ।हार्दसरोजे सूर्यकला मूलसरोजे वह्निकला ॥८॥स्थूलशरीरे कान्तिमती प्राणशरीरे शक्तिमती ।स्वान्तशरीरे भोगवती बुद्धिशरीरे योगवती ॥९॥सारसबन्धोरुज्ज्वलभा कैरवबन्धोः सुनदरभा ।वैद्युतवह्नेरद्भुतभा भौमकृशानोर्दीपकभा ॥१०॥योधवराणामायुधभा योगिवराणामीक्षणभा ।भूमिपतीनामासनभा प्रेमवतीनामाननभा ॥११॥शस्त्रधराणां भीकरता शास्त्रधराणां बोधकता ।यन्त्रधराणां चालकता मन्त्रधराणां साधकता ॥१२॥गानपटूनां रञ्जकता ध्यानपटूनां मापकता ।नीतिपटूनां भेदकता धूतिपटूनां क्षेपकता ॥१३॥दीधितिधारा लोकयतां जीवितधारा वर्तयताम् ।ज्ञापकधारा चिन्तयतां मादकधारा द्रावयताम् ॥१४॥मन्त्रपराणां वाक्यबलं योगपराणां प्राणबलम् ।आत्मपराणां शान्तिबलं धर्मपराणां त्यागबलम् ॥१५॥सूरिवराणां वादबलं वीरवराणां बाहुबलम् ।मर्त्यपतीनां सैन्यबलं रागवतीनां हासबलम् ॥१६॥वैदिकमन्त्रे भाववती तान्त्रिकमन्त्रे नादवती ।शाबरमन्त्रे कल्पवती सन्ततमन्त्रे सारवती ॥१७॥ब्रह्ममुखाब्जे वाग्वनिता वक्षसि विष्णोः श्रीर्ललिता ।शम्भुशरीरे भागमिता विश्वशरीरे व्योम्नि तता ॥१८॥भूग्रहगोलैः कन्दुकिनी विष्टपधाने कौतुकिनी ।यावदनन्तं वैभविनी प्राणिषु भूयस्सम्भविनी ॥१९॥कञ्जभवाण्डे मन्डलिनी प्राणिशरीरे कुण्डलिनी ।पामरभावे सल्ललना पण्डितभावे मोदघना ॥२०॥नार्यपि पुंसा मूलवती तन्व्यपि शक्त्या व्याप्तिमती ।व्याप्तिमतीत्वे गुप्तिमती चित्रविचित्रा काऽपि सती ॥२१॥दीधितिरूपा चित्तमयी प्राणशरीराऽप्यद्वितयी ।ब्रह्मशरीरं ब्रह्मविभा ब्रह्मविभूतिर्ब्रह्मपरम् ॥२२॥विष्टपमाता भूरिकृपा विष्टपराज्ञी भूरिबला ।विष्टपरूपा शिष्टनुता विष्टपपारे शिष्टमिता ॥२३॥दुर्जनमूलोच्छेदकरी दीनजनार्तिध्वंसकरी ।धीबललक्ष्मीनाशकृशं पुण्यकुलं नः पातु शिवा ॥२४॥चन्द्रकिरीटाम्भोजदृशः शान्तिसमृद्धं स्वान्तमिमे ।सम्मदयन्तु श्रोत्रसुखाः सन्मणिबन्धाः सूरिपतेः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP